________________ न्यायभाष्यम्। परमाणुविवेचनम् ] अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः // 22 // संसर्पता प्रतिघातिना द्रव्येण न व्यूह्यते यथा काष्ठेनोदकम् , कस्मात् ?, निरवयवत्वात् , सर्पञ्च प्रतिघाति द्रव्यं न विष्टनाति= नास्य क्रियाहेतुं गुणं प्रतिबध्नाति, कस्मात् ? अस्पर्शत्वात् , विपर्यये हि विष्टम्भो दृष्ट इति, सावयवे स्पर्शवति द्रव्ये दृष्टं धर्म विपरीते नाशङ्कितुमर्हति // अण्ववयवस्याणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधैः // सावयवत्वे चाऽणोरण्ववयवोऽणुतर इति प्रसज्यते, कस्मात् ?, कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्. तस्मादण्ववयवस्याणुतरत्वम् , यस्तु सावयवः अणुकार्य तदिति. तस्मादणुकार्यमिदं प्रतिषिध्यते इति / कारणविभागाच्च कार्यस्यानित्यत्वं नाऽऽकाशव्यतिभेदात्= लोष्टस्यावयवविभागादनित्यत्वं नाऽऽकाशसमावेशादिति // 22 // ___ आकाशस्य सर्वगतत्वे हेत्वन्तरमाह-अव्यूहेति, व्यूहनम्= एकत्रीकरणम् , विष्टम्भः= प्रतिरोधस्तयोरभावात् विभुत्वेन चाकाशधर्मेणाकाशस्य सर्वगतत्वं सिद्धम्- व्यूहनविष्टम्भयोः सावयवे एव संभवादिति सूत्रार्थः / अत्र- “व्यूहः= प्रतिहतस्य परावर्तनम्. विष्टम्भः= उत्तरदेशगतिप्रतिबन्धः आकाशे तयोरभावः-निस्स्पर्शत्वात्" इति विश्वनाथभट्टाः। व्याचष्टे- संसर्पतेति, व्यतिरेकदृष्टान्तमाह- यथेति, यथा काष्ठेन= दण्डादिना जलादिकं व्यूह्यते= प्रतिहन्यते एकत्रीक्रियते वा तथा संसर्पता गच्छता व्यापारयुक्तेनापि प्रतिघातिना द्रव्येण दण्डादिनाऽऽकाशो न व्यूह्यते तेन निरवयवत्वं सिद्धम्- सावयवस्यैव व्यूहनसंभवादित्यर्थः। उक्ते हेतुं जिज्ञासते- कस्मादिति, हेतुमाह- निरवयवत्वादिति / विष्टम्भाभावमाह- सर्पदिति, तदेतत् कर्मपदम्. प्रतिघातिपदार्थमाकाशो न विष्टनाति= न निरुणद्धि तदनेन निरोधकत्वाभावेनापि निरवयवत्वं सिद्धम्- सावयवस्य निरोधकत्वादित्यर्थः। उक्तं ब्याचष्टे- नास्येति, अस्य= सर्पतः प्रतिघातिद्रव्यस्य, गुणम्= उत्तरदेशसंयोगं पूर्वदेशविभागं चाकाशो न प्रतिबध्नाति / उक्ते हेतुमाह- अस्पर्शत्वादिति / विपर्यये= सस्पर्शत्वे. यथा पृथिव्यादौ, विष्टम्भः विष्टम्भकत्वम् / उपसंहरति- सावयवे इति, धर्मम्= विष्टम्भकत्वं ब्यूहनं च विपरीते= निरवयवे निरस्पर्शे चाकाशे न कोप्याशङ्कितुमर्हतीत्याकाशस्य निरवयवत्वविभुत्वाभ्यां सर्वगतत्वं सिद्धमित्यर्थः / / परमाणोरकार्यत्वे हेतुमाह- अण्ववयवस्येति, यदि परमाणोरवयवः स्यात्तदा स परमाण्ववयवः परमाण्वपेक्षयापि अणुतरः= सूक्ष्मतरः स्यात् न च परमाण्वपेक्षया सूक्ष्मः संभवति- सर्वापेक्षया सूक्ष्मस्यैव परमाणुत्वस्वीकारात् तथा च न परमाण्ववयवः संभवति तस्माद् अणुकार्यस्य= परमाणुलक्षणकार्यस्य नाम परमाणोः कार्यत्वस्य प्रतिषेधः क्रियते- निरवयवत्वात् , परमाणोरकार्यत्वाच्च न विनाशः संभवतीति परमाणूनां प्रलयेपि पारिशेष्यान्न सर्वशून्यत्वं संभवतीत्यर्थः / स्वयं व्याचष्टे- सावयवत्वे चेति / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- कार्येति, अवयव्यपेक्षया तदवयवोऽल्पपरिमाणको भवतीति नियमादण्ववयवोणुतरः स्यादेव, तदेवाह- तस्मादिति, प्रसज्यते इतिशेषः / न च परमाणोरणुतरः संभवतीति न परमाण्ववयवः संभवतीत्यर्थः / सावयवस्य परमाणुत्वं प्रतिषेधति- यस्त्विति / उपसंहरतितस्मादिति, अणुकार्यम्= परमाणोः कार्यत्वम्= सावयवत्वं प्रतिषिध्यते किं वा तव प्रतिषेधोऽणुकार्यविषयको संभवति नाणुविषयक इत्यर्थः / अनित्यत्वकारणमाह- कारणेति, कार्यस्यापि घटादेर्यदनित्यत्वम् = विनाशः स कारणविभागादेव भवति न त्वाकाशसमावेशादिति आकाशसमावेशेनापि परमाणोर. नित्यत्वं न संभवतीत्यर्थः / उक्तं दृष्टान्तेन विशदयति- लोष्टस्येति, स्पष्टमन्यत् / " अणुकार्यप्रतिषेधः" इत्यत्र 'अण्ववयवप्रतिषेधः' इतिवक्तव्यमासीत् // 22 //