________________ 400 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके आकाशासर्वगतत्वं वा // 19 // अर्थतन्नेष्यते= परमाणोरन्तर्नास्त्याकाशमिति ? असर्वगतत्वं प्रसज्यते इति // 19 // अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः // 20 // 'अन्तः' इति पिहितं कारणान्तरैः कारणमुच्यते, 'बहिः' इति च व्यवधायकमव्यवहितं कारणमेवोच्यते. तदेतत् कार्यद्रव्यस्य संभवति. नाऽणो:- अकार्यत्वात्= अकार्ये हि परमाणावऽन्तर्बहिरित्यस्याभावः, यत्र चास्य भावोऽणुकार्य तत् न परमाणुः, यतो हि नाल्पतरमस्ति स परमाणुरिति // 20 // सर्वसंयोगशब्दविभवाच सर्वगतम् // 21 // यत्र कचिदुत्पन्नाः शब्दा विभवन्त्याकाशे= तदाश्रया भवन्ति. मनोभिः परमाणुभिस्तत्कार्यैश्च संयोगा भवन्त्याकाशे. नाऽसंयुक्तमाकाशेन किंचिन्मूर्तद्रव्यमुपलभ्यते तस्मानाऽसर्वगतमिति // 21 // पूर्वपक्षी विपक्षे बाधकमाह- आकाशेति, यदि परमाणु काशेन समाविष्टस्तदाऽऽकाशस्याऽसर्वगतत्वं स्यात्तदपि न तवाभीष्टमित्युभयतः पाशारज्जुरिति सूत्रान्वयः। व्याचष्टे- अथेति / एतदपि व्याचष्टे- परमाणोरिति / पर्यवसितमाह- असर्वेति, आकाशस्यासर्वगतत्वं प्रसज्यते इत्यन्वयः // 19 / / सिद्धान्ती प्रत्याचष्टे- अन्तरिति, अन्तर्बहिःशब्दयोः कार्यद्रव्यस्य कारणान्तरवचनात्= अवयवविशेषवाचकत्वादकार्ये= अकार्यद्रव्ये निरवयवे परमाणौ तदभावः= अन्तर्बहिरवयवयोरसंभवात् परमा. णावाकाशसमावेशो न संभवति तथा चानित्यत्वापत्तिर्नास्तीति परमाणूनां पारिशेष्यात् सर्वशून्यापत्तिनास्तीति सूत्रार्थः / व्याचष्टे- अन्तरिति, कारणान्तरैः= बाह्यावयवैः पिहितम् आच्छादितं कारणम् अन्तर्भूतोऽवयवः अन्तइति= अन्तःशब्देनोच्यते, बहिःशब्देन चान्तर्भागस्य व्यवधायकं तदव्यवहितं य कारणम्= बाह्योऽवयव उच्यते इत्यन्वयः / पर्यवसितमाह- तदेतदिति, तदेतत्= उक्तमवयवलक्षणं कारणं कार्यद्रव्यस्य घटादेः संभवति न तु परमाणोः- अकार्यत्वात्= निरवयवत्वात् , निर वयवे चावयवाऽसंभवः स्पष्ट एव / उक्तं व्याचष्टे- अकार्ये इति / अन्तर्बहिरित्यस्य= अन्तर्बहिर्भागयोः / व्यतिरेकमाह- यत्रेति, यत्र= त्रसरेण्वादौ अस्य= अन्तर्बहिर्भागस्य भावः= सत्ता तदणुरपि कार्यमेव किं वाऽणोः कार्यमेव तच्च न परमाणु:- परमाणोरकार्यत्वादित्यन्वयः / परमाणुस्वरूपमाह- यत इति, तथा च परमसुक्ष्मे परमाणावन्तर्बहिर्भागौ न संभवत इति न सावयवत्वापत्तिस्तथा च नानित्यत्वापत्तिस्तथा च न सर्वशून्यत्वापत्तिरित्यर्थः // 20 // ___आकाशस्य परमाणौ समावेशाभावेपि सर्वगतत्वं समाधत्ते- सर्वेति, आकाशं सर्वगतम्- सर्वसंयोगात्= सर्वसंयोगित्वात् शब्दस्य विभवात्= व्यापनाचेत्यन्वयः, सर्वसंयोगिनः सर्वगतत्वं स्पष्टमेव. शब्दव्यापनं च सावयवे न संभवतीति शब्दव्यापनादपि निर वयवत्वं व्यापकत्वं चाकाशस्य सिद्धमिति सूत्रार्थः / ब्याचष्टे- यत्रेति, विभवन्ति= व्याप्नुवन्ति, तदेतद् व्यापनं च व्यापके एव संभवतीत्याकाशस्य सर्वगतत्वं प्राप्तम् / उक्तं व्याचष्टे- तदेति, तदाश्रयाः= आकाशसमवेता भवन्ति शब्दाः / आकाशस्य सर्वसंयोगमाह- मनोभिरिति, तत्कायें:= परमाणुकायें:, आकाशे= आकाशस्य, तथा च शरीरान्तर्वतिना मनसा संयोगेन सर्वसंयोगित्वं सुतरां सिद्धमित्याशयः / व्यतिरेकमाह- नेति / उपसंहरतितस्मादिति / आकाशमितिशेषः // 21 //