________________ अवयविविवेचनम् ] न्यायभाष्यम् / 399 न सर्वप्रलयाय कल्पते / निरवयवत्वं खलु परमाणोविभागैरल्पतरप्रसङ्गस्य (अभावात् ) यतो नाल्पीयस्तत्रावस्थानात् / लोष्टस्य खलु प्रविभज्यमानावयवस्याऽल्पतरमल्पतममुत्तरमुत्तरं भवति स चायमल्पतरप्रसङ्गः यस्मान्नाल्पतरमस्ति= यः परमोऽल्पस्तत्र निवर्तते. यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति // 16 // परं वा त्रुटेः॥ 17 // अवयवविभागस्याऽनवस्थानाद् द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिरिति // 17 // अथेदानीमानुपलम्भिकः सर्वं नास्तीति मन्यमान आह आकाशव्यतिभेदात् तदनुपपत्तिः // 18 // तस्याऽणोर्निरवयवस्य नित्यस्यानुपपत्तिः, कस्मात् ?. आकाशव्यतिभेदात्= अन्तर्बहिवाणुराकाशेन समाविष्टः= व्यतिभिन्नो व्यतिभेदात् सावयवः सावयवत्वादनित्य इति // 18 // वयवविभागमाश्रित्य योयमवयविनो वृत्तिप्रतिषेधादभावः प्रसज्यते स परमाणुतो निवर्तते- परमाणोनिरवयवत्वेनावयवविभागांसंभवादिति न सर्वप्रलयः= सर्वशून्यं संभवतीत्यर्थः / ननु स्यादेवं यदि परमाणुर्निरवयवः स्यादित्याशङ्कय परमाणोर्निरवयवत्वमुपपादयति-निरवयवत्वमिति, अवयवविभागैः परमाणोरल्पतरप्रसङ्गस्याभावादेव निरवयवत्वं सिद्धम्- अवयवविभागैरल्पतरप्रसङ्गाश्रयस्यैव सावयवत्वात् , यतो नाल्पीयस्तत्रावयवविभागप्रसङ्गस्यावस्थानात्= समाप्तेः परमाणोश्च परं नाल्पीय इत्यवयवविभागासंभवाद् विनाशासंभवस्ततश्च परमाणूनां पारिशेष्यान्न सर्वशून्यापत्तिरित्यर्थः, विनाशश्चावयवविभागव्याप्य इत्यनुसंधेयम् / किं वा 'यतो नाल्पीयस्तत्र विभागैरल्पतरप्रसङ्गस्यावस्थानात् परमाणोनिरवयवत्त्वम्' इत्यन्वयः / उक्तमेव विशदयति- लोष्टस्येति, तत्र= तस्मात् , स्पष्टोयं ग्रन्थः / परमाणुस्वरूपमाह- यतश्चेति, परमाणोः परमाल्पत्वान्निरवयवत्वं तेन विभागाभावस्तेन विनाशाभावस्तेन च सर्वशून्यत्वाभावः सिद्धस्तथा चावयविस्वीकारेपि न कोपि दोष इत्यर्थः // 16 // सूत्रेण परमाणुस्वरूपमाह- परमिति, त्रुटेः परं यः स परमाणुरिति सूत्रार्थस्तथा चातिसूक्ष्मत्वात् परमाणोविभागो न संभवतीत्याशयः / " खियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः" इत्यमरः, "त्रुटिस्रसरेणुरित्यनर्थान्तरम् " इति तात्पर्यटीका / भाष्यकारः स्वाभिप्रायमाह- अवयवेति, यद्यवयवविभागस्य परमाणौ अनवस्था स्यात्= समाप्तिर्न स्यात्तदा द्रव्याणाम्= अवयवानामसंख्येयत्वात् त्रुटित्वस्य= सूक्ष्मत्वस्य निवृत्तिः स्यात् तथा च सुमेरुसर्षपयोरपि साम्यं स्यात्- अवयवानामानन्त्यात् न चैतद् युक्तमिति परमाणावऽवयवविभागस्य समाप्तिः स्वीकार्या= निरवयवत्वं स्वीकार्य तथा च परमाणुविनाशासंभवान्न सर्वशून्यतापत्तिः नापि सुमेरुसर्षपयोः साम्यापत्तिः- अवयवभूतपरमाणूनां संख्याया अतिवैषम्यादित्यर्थः, तथा च पूर्वोक्तरीत्याऽवयविनः प्रत्याख्यानं नोपपद्यते नाप्यवयवानामिति अवयवावयविनौ सिद्धावित्युपसंहारः / ग्रन्थकृता तूपक्रान्तस्यावयविसमर्थनस्योपसंहारो विस्मृत एवेत्यलम् // अत्र- " इत्यवयवावयविप्रकरणम्" इति वार्तिकम् // 17 // अग्रिमप्रकरणमुपक्रमते- अथेति, नोपलभते इत्यानुपलम्भिकः= सर्वशून्यवादी। पूर्वपक्षी परमाणोरनित्यत्वमाह- आकाशेति, आकाशव्यतिभेदात्= परमाणोरन्तः आकाशसमावेशात् सावयवत्वं तेन तत्= तस्य= नित्यत्वस्य= परमाणुनित्यत्वस्यानुपपत्तिरिति सूत्रान्वयः / व्याचष्टे- तस्येति / नित्यस्य नित्यत्वस्य / उक्ते हेतुमाह- आकाशेति, व्यतिभिन्नः= समाविष्टः= व्याप्तः, व्यतिभेदात्= समावेशात्= व्यापनात् , निरवयवे आकाशसमावेशो न संभवतीत्याकाशसमावेशात् सावयवस्तेनानित्यः परमाणुस्तथा च परमाणुविनाशात् सर्वशून्यत्वं सिद्धमित्यर्थः / स्पष्टार्थ सर्वम् / / 18 //