________________ 398 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेअवयवावयवप्रसङ्गश्चैवमाऽऽप्रलयात् // 15 // यः खल्ववयविनोऽवयवेषु वृत्तिप्रतिषेधादभावः सोयमवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत निरवयवाद्वा परमाणुतो निवर्तेत. उभयथा चोपलब्धिविषयस्याभावः तदभावादुपलब्ध्यभावः, उपलब्ध्याश्रयश्चायं वृत्तिप्रतिषेधः स आश्रयं व्याघ्नन् आत्मघाताय कल्पते इति // 15 // अथापि न प्रलयः-अणुसद्भावात् // 16 // अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादभावः प्रसज्यमानो निरवयवात् परमाणोनिवर्तते गन्धादीनामनुपलब्धिः सा न चक्षुषो दौर्बल्यात् किं तु गन्धादीनां चक्षुरविषयत्वादेव तथा परमाणूनामप्यनुपलब्धिरिन्द्रियाविषयत्वादेवेति न परमाणूसमूहस्यापि प्रत्यक्षं संभवतीति प्रत्यक्षविषयोऽवयवी अवयवसमुदायातिरिक्तः स्वीकार्य एवेत्यर्थः // 14 // अस्यैव हठ इतिनामधेयम् // ___ अवयव्यऽस्वीकारपक्षे दोषमाह- अवयवेति, एवम्= उक्तरीत्या वृत्तिविकल्पेनावयव्यसिद्धौ यथाऽवयविनोऽवयवेषु वृत्तिर्न संभवति तथाऽवयवानामपि स्वावयवेषु वृत्तिर्नोपपद्येत तथा च आप्रलयात्= सर्वाभावसिद्धिपर्यन्तम्= सर्वशून्यपर्यन्तम् उत्तरोत्तरमवयवानामवयवप्रसङ्गः स्यादित्यन्वयः, अनेनोत्तरोत्तरावयवप्रसङ्गेन प्रलयः= सर्वाभावः= सर्वशून्यमेव प्रसज्यते- अवयवविभागविश्रान्तेरसंभवात् तथा च परमाणुरपि न सिध्येत न चैवं युक्तमिति नायं वृत्तिविकल्पो युक्त इत्यवयविनोऽवयवेषु वृत्तिः स्वीकायेंति सिद्धोऽवयवीति सूत्रार्थः / सूत्रे " अवयवावयविप्रसङ्गः” इतिपाठस्त्वसंगतो भाष्यविरुद्धश्च प्रतिभाति, एतत्पाठपक्षे तु 'अवयवावयविनोरुभयोरपि उक्तवृत्तिविकल्पेनाभावप्रसङ्गस्तेन च सर्वशून्यत्वप्रसङ्गः' इत्यन्वयः, अन्यदुक्तमेव / व्याचष्टे- य इति, अवयविनोऽभाव इत्यन्वयः, सोयमभावः स्वावयवेषु अवयवस्य प्रसज्यमानः सर्वप्रलयाय= सर्वशून्यकरः स्यात् अवयवानामपि पूर्वोक्तवृत्तिविकल्पेन स्वावयवेषु वृत्तेरसंभवादवयवसिद्धिरपि न स्यादिति, किं वा परमाणुतो निवर्तेत तथा च परमाणुसिद्धिः स्यादित्यन्वयः / पर्यवसितमाह- उभयथेति, उभयथा= उक्तकल्पद्वयेपि नाम यदि सर्वशून्यं स्याद् यदि वा परमाणुमात्रमवशिष्येत तदापि उपलब्धिविषयस्य= प्रत्यक्षविषयस्याभावः स्यात्- परमाणूनां प्रत्यक्षाविषयत्वात्. सर्वशून्यपक्षे तु स्पष्ट एव प्रत्यक्षविषयस्याभावः, तथा च तदभावात्= प्रत्यक्षविषयस्याभावात् उपलब्ध्यभावः= प्रत्यक्षाभावः प्राप्तः- विषयं विना प्रत्यक्षासंभवादित्यर्थः / अवयविप्रतिषेधे व्याघातमाह- उपलब्ध्याश्रय इति, योयमवयविनोऽवयवेषु वृत्तिप्रतिषेधः स उपलब्ध्याश्रयः= उपलब्ध्यधीनोस्ति- अवयविन उपलब्धि विना सामान्यत उपलब्धि विना वाऽवयवेषु तवृत्तिप्रतिषेधस्याप्यसंभवात् सः= उक्तो वृत्तिप्रतिषेधः आश्रयम्= स्वसिद्धिकारणीभूताम् उपलब्धि व्याघ्नन् आत्मघातकर एव स्यादित्यन्वयः, उक्तवृत्तिप्रतिषेधेनोक्तरीत्या सर्वाभावः स्यात्तेन चोपलब्ध्यभावः स्यात्- विषयं विनोपलब्धेरसंभवात्. उपलब्ध्यभावे च वृत्तिप्रतिषेधोपि न संभवति- उपलब्धि विना पदार्थसिद्धरसंभवादित्यर्थस्तथा चावयविनो वृत्तिप्रतिषेधो न कर्तव्य इति सिद्धोऽवयवीति भावः / यद्यपि सूत्रमिदं पूर्वपक्षपरमपि संभवति- अग्रिमसूत्रे परिहारदर्शनात्तथापि अग्रे सप्तविंशतिकसूत्रभाष्येऽस्य सूत्रस्य स्वपक्षे प्रमाणत्वेनोपन्यासात् सिद्धान्तसूत्रत्वमवधार्यते इति विभाव्यम् / अत्र- " दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते " इति तात्पर्यटीका // 15 // अग्रिमसूत्रमवतारयति- अथापीति, वस्तुतस्त्वित्यर्थः / नेति- वस्तुतस्तु प्रलयः= सर्वशून्यं न संभवति- अणुसद्भावात्= परमाणूनामवशिष्यमाणत्वादिति सूत्रार्थः / व्याचले- अवयवेति, उत्तरोत्तरा