________________ अवयविविवेचनम्] न्यायभाष्यम्। 397 परमाणवस्त्वऽतीन्द्रियाः= इन्द्रियाविषयभूता न केनचिदिन्द्रियेण गृह्यन्ते समुदितास्तु गृह्यन्ते इत्यविषये प्रवृत्तिरिन्द्रियस्य प्रसज्येत- न जात्वर्थान्तरमणुभ्यो गृह्यते इति. ते खल्विमे परमाणवः संहता गृह्यमाणा अतीन्द्रियत्वं जहति वियुक्ताश्चागृह्यमाणा इन्द्रियविषयत्वं न लभन्ते इति सोयं द्रव्यान्तरानुत्पत्तावतिमहान् व्याघात इत्युपपद्यते द्रव्यान्तरं यद् ग्रहणस्य विषय इति / संचयमानं विषय इतिचेत् ? न- संचयस्य संयोगभावात्तस्य चातीन्द्रियस्याऽग्रहणादयुक्तम् / संचयः खल्वनेकस्य संयोगः स च गृह्यमाणाश्रयो गृह्यते नाऽतीन्द्रियाश्रयः. भवति हि 'इदमनेन संयुक्तम् ' इति. तस्मादयुक्तमेतदिति / गृह्यमाणस्य चेन्द्रियेण विषयस्याऽऽवरणादि अनुपलब्धिकारणमुपलभ्यते तस्मान्नेन्द्रियदौर्बल्यादनुपलब्धिरणूनां यथा नेन्द्रियदौर्बल्याचक्षुपाउनुपलब्धिर्गन्धादीनामिति // 14 // चक्षु रूपाग्राहकं न भवति किं तु रूपं गृह्णात्येवेत्यर्थः / प्रकृतमाह- सोयमिति, उभयम्= प्रत्येक केशः केशसमूहश्च, तदनेनेन्द्रियस्य स्वविषये एव प्रवृत्तिर्भवतीति प्रतिपादितम्- प्रत्येकं केशस्य केशसमूहस्य च चक्षुर्विषयत्वात् / अविषयमाह- परमाणव इति / उक्तं व्याचष्टे- इन्द्रियाविषयभूता इति, यदि समुदिताः परमाणव इन्द्रियेण गृहीताः स्युस्तदेन्द्रियस्य स्वाविषये प्रवृत्तिः स्यात्- परमाणूनामविषयत्वात्, समुदितग्रहणेपि परमाणूनामेव ग्रहणादित्यर्थः / उक्ते हेतुमाह- न जात्विति, अणुसमुदायग्रहणेप्यणुग्रहणमेव प्रसज्यते इत्यर्थः / तदेवं पूर्वपक्षिमते परस्परविरोधमुद्घाटयति- ते इति, वियुक्ताः= प्रत्येकम् , उपसंहरति- सोयमिति, द्रव्यान्तरानुत्पत्तौ= अवयवातिरिक्तस्यावयविन उत्पत्त्यस्वीकारपक्षे परमाणुसमूहस्य प्रत्यक्षविषयत्वस्वीकारेणातिमहान् व्याघात:= विरोधोस्ति यतस्तेषामेव परमाणूनां परस्परमऽसंयुक्तानामिन्द्रियाविषयत्वं प्राप्तं परस्परं संयुक्तानां चेन्द्रियविषयत्वं प्राप्तम्- न टेकस्यैवावस्थाभेदमात्रेणेन्द्रियविषयत्वाविषयत्वमुभयं संभवति तस्मादवयवातिरिक्तोऽवयवी स्वीकार्यस्तस्य स्थूलत्वादिन्द्रियविषयत्वं संभवतीत्याह- इत्युपपद्यते इति / यद् ग्रहणस्य= प्रत्यक्षस्य विषयस्तद् द्रव्यान्तरम्= अवयवी इत्यन्वयः, स्पष्टमन्यत् // ननु संचयमात्रम्= परमाणुसमूह एवेन्द्रियविषयो भवति न परमाणुरपि येन विरोधः स्यादित्याशङ्कते- संचयमात्रमिति / परिहरति- नेति / हेतुमाह- संचयस्येति, संचयस्य= समुदायस्य संयोगभावात्= संयोगरूपत्वात् तस्य= संयोगस्य चातीन्द्रियस्य= अतीन्द्रियपदार्थनिष्ठस्य अग्रहणात्= ग्रहीतुमशक्यत्वात् परमाणूनामप्यऽतीन्द्रियत्वेन तन्निष्ठसंयोगरूपस्य संचयस्येन्द्रियेण ग्रहीतुमशक्यत्वात् संचयस्येन्द्रियविषयत्वमयुक्तमित्यर्थः / " अतीन्द्रियस्य " इत्यत्र 'अतीन्द्रियनिष्ठस्य / इतिपाठो युक्तः / स्वयं व्याचष्टे-संचय इति, गृह्यमाणाश्रयः= प्रत्यक्षपदार्थनिष्ठः, अतीन्द्रियाश्रयः= अतीन्द्रियपदार्थनिष्ठः / उक्ते प्रत्यक्षं प्रमाणयति- भवतीति, इदमनेनेत्येवं प्रत्यक्षपदार्थनिष्ठ एव संयोगो गृह्यते न तु परमाण्वाद्यऽप्रत्यक्ष. पदार्थनिष्ठ इति परमाणुसंचयस्य प्रत्यक्षेणग्रहणमयुक्तमेवेत्याह- तस्मादिति / नन्विन्द्रियदौर्बल्यात् प्रत्येक परमाणूनां ग्रहणं न संभवतीति समुदितानां प्रत्यक्षं किं न स्यादित्याशङ्कयाह- गृह्यमाणस्येति, इन्द्रियेण गृह्यमाणस्य विषयस्यानुपलब्धिकारणमावरणादि भवति परमाणूनामनुपलब्धौ तु नावरणाद्युपलभ्यते यदि च परमाणूनामनुपलब्धिरिन्द्रियदौर्बल्यादेव स्यात्तदा कस्यापि बलवदिन्द्रियविशिष्टस्य परमाणुप्रत्यक्षं स्यादेव न चैवमस्ति तस्माज्ज्ञायते परमाणूनामनुपलब्धिरिन्द्रियदौर्बल्यान्न भवति किं तु परमाणूनामतीन्द्रियत्वादेव तथा च न परमाणुसमूहस्यापि संयोगरूपस्य प्रत्यक्षं संभवति- प्रत्यक्षपदार्थनिष्ठस्यैव संयोगस्य प्रत्यक्षसंभवात् परमाणूनां चाप्रत्यक्षत्वादित्यर्थः / उक्ते दृष्टान्तमाह- यथेति, यथा चक्षुषा या