________________ 396 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेनित्येषु द्रव्येषु कथमाश्रयाश्रयिभाव इतिचेत् ? अनित्येषु द्रव्यगुणेषु दर्शनादाश्रयाश्रयिभावस्य नित्येषु सिद्धिरिति / तस्मादवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य. नावयवी. यथा रूपादिषु मिथ्यासंकल्पो न रूपादय इति // 12 // " सर्वाग्रहणमवयव्य सिद्धेः 2-1-34" इतिप्रत्यवस्थितोप्येतदाह केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः // 13 // यथैकैकः केशस्तैमिरिकेण नोपलभ्यते केशसमूहस्तूपलभ्यते तथैकैकोऽणुनोपलभ्यते अणुसंचयस्तूपलभ्यते तदिदमणुसमूहविषयं ग्रहणमिति // 13 // स्वविषयानतिक्रमणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः // 14 // ___ यथाविषयमिन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति= चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति. निकृष्यमाणं च न स्वविषयात् प्रच्यवते, सोयं तैमिरिकः कश्चिचक्षुर्विषयं केशं न गृह्णाति गृह्णाति च केशसमूहम्. उभयं ह्यऽतैमिरिकेण चक्षुषा गृह्यते, पदार्थान्तराधारत्वेन सत्त्वं सिद्धमित्यर्थः / स्वयं व्याचष्टे- नित्येष्विति / उत्तरमाह- अनित्येष्विति, यथा 'पटे रूपं घटे जलम् / इति / उपसंहरति- तस्मादिति, निःश्रेयसकामस्य= मोक्षकामाय= मोक्षसिद्धयर्थ उक्तरीत्याऽवयव्यभिमानस्य रागादिदोषजनकत्वाद् हेयत्वमुच्यते अवयवी तु न प्रतिषिध्यते / दृष्टान्तमाह- यथेति, यथा रूपादिविषयाणां मिथ्यासंकल्पः प्रतिषिध्यते न तु रूपादयः प्रतिषिध्यन्ते तथेत्यन्वयस्तथा च नावयविप्रतिषेधः संभवतीत्यर्थः, स्पष्टमन्यत् // 12 // ___ अग्रिमसूत्रमवतारयति- सर्वेति, एतत्सूत्रार्थः पूर्वत्र द्रष्टव्यः, इति= इत्युक्तेन प्रत्यवस्थितः= निरुत्तरीकृतः पूर्वपक्षी तदुत्तरभूतमेतत्सूत्रमाहेत्यर्थः / यद्यवयवी न स्यात्तदा सर्वग्रहणं नोपपद्येत- अवयवा. नामनेकत्वादिति सर्वाग्रहणमितिसूत्रेण समाहिते पूर्वपक्ष्याह- केशेति, यथा तैमिरिकस्य चक्षुर्दोषविशिष्टस्य जनस्य प्रत्येकं केशानुपलब्धावपि केशसमूहस्योपलब्धिर्भवत्येव तथा प्रत्येकं परमाणोरुपलब्ध्यसंभवेपि तत्= तस्य= परमाणुसमूहस्योपलब्धिः संभवत्येवेति न तदतिरिक्तोऽवयवी स्वीकार्य इतिसूत्रार्थः / व्याचष्टे- यथेति / प्रकृतमाह- तथेति / उपसंहरति- तदिदमिति, यद् ‘घटोयम्' इत्यादिलक्षणमवयविविषयकं ग्रहणमुच्यते तत् परमाणुसमूहविषयकमेव- परमाणुसमूहस्य प्रत्यक्षयोग्यत्वादित्यवयवी नास्त्ये वेत्यर्थः // 13 // ___ उक्तं सिद्धान्ती प्रतिषेधति- स्वविषयेति, इन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावःपटुमन्दभावो भवति तथा च तैमिरिक जनस्येन्द्रियमान्द्यात् प्रत्येकं केशस्य ग्रहणं न भवति अतैमिरिकजनस्य चेन्द्रियपटुत्वात् प्रत्येकं केशस्य ग्रहणं भवति एवमपीन्द्रियस्य स्वविषयातिक्रमो न संभवति यतः कदापि चक्षुर्गन्धादिकं ग्रहीतुं न शक्नोतीति स्वविषयानतिक्रमेण= स्वविषयाऽनतिक्रमनियमादिन्द्रियस्य स्वाऽविषये प्रवृत्तिर्न भवति तत्र परमाणुरपीन्द्रियस्याविषय एवेति परमाणुसमूहप्रत्यक्षमपीन्द्रियेण न संभवतीति 'घटोयम्' इत्यादिप्रत्यक्षविषयोऽवयवी अवयवसमुदायातिरिक्तः स्वीकार्य इतिसूत्रार्थः / ___ व्याचष्टे- यथेति, यथाविषयम्= स्वस्वविषयं प्रति, पटुत्वम्= सूक्ष्मग्राहकत्वम् , इन्द्रियस्य सूक्ष्मग्राहकत्वे तजन्यं ज्ञानमपि सूक्ष्मविषयकं भवति मन्दत्वे च तजन्यं ज्ञानं स्थूलविषयकं भवति अयमेव विशेषो न तु स्वाविषयग्राहकत्वं संभवतीत्यन्वयः / उक्तं विशदयति- चक्षुरिति, प्रकृष्यमाणम्= प्रकृष्टमपि= समीस्थमपि, निकृष्यमाणम= निकृष्टमपि दूरस्थमपि, स्वविषयात्= रूपात्, प्रच्यवते इति- दूरस्थमपि