________________ अवयविविवेचनम् ] न्यायभाष्यम्। 395 अन्यावयवाभावाद् नैकदेशेन वर्तते इत्यहेतुः अवयवान्तरभावेप्यवृत्तेरहेतुः- // 12 // अवयवान्तराभावादिति, यद्यप्येकदेशोऽवयवान्तरभूतः स्यात् तथाप्यवयवेऽवयवान्तरं वर्तेत नावयवीति- अन्योऽवयवीति / अन्यावयवभावेप्यवृत्तेः- 'अवयविनो नैकदेशेन वृत्तिःअन्यावयवाभावात्' इत्यहेतुः / वृत्तिः कथमितिचेत् ? एकस्याऽनेकत्राऽऽश्रयाश्रितसंबन्धलक्षणा प्राप्तिः / आश्रयाश्रितभावः कथमितिचेत् ? यस्य यतोऽन्यत्राऽऽत्मलाभानुपपत्तिः स आश्रयः न कारणद्रव्येभ्योऽन्यत्र कार्यद्रव्यमात्मानं लभते. विपर्ययस्तु कारणद्रव्येष्विति / नित्येषु कथमितिचेत् ? अनित्येषु दर्शनात् सिद्धम् / सत्येव प्रयोगो भवति / पर्यवसितमाह- ताविमाविति / हेतुमाह- भेदाभावादिति, एकत्वादेव एकस्मिनवयविनि भेदो नास्ति भेदाभावादनेकत्वं नास्ति तेन कृत्स्नैकदेशशब्दयोः प्रयोगो नोपपद्यते तेनोतप्रश्नोपि नोपपद्यते इत्यन्वयः, स्पष्टमन्यत् // 11 // अग्रिमसूत्रमवतारयति- अन्येति, तदेतत् यत् सप्तमसूत्रस्य भाष्ये उक्तं तस्यैवानुवादः / स्ववक्तव्य. माह- इत्यहेतरिति. उक्तो हेतरवयव्यभावसाधको न भवतीत्यर्थः / अवयवेति-अवयवी नाप्येकदेशेन वर्तते- अवयवान्तराभावात्' इत्युक्तो हेतुरहेतुः- अवयवान्तरभावेप्यवृत्तेरित्यन्वयः, यद्यवयवान्तरसत्त्वे एकदेशेन वृत्तिरुपपद्येत तदाऽवयवान्तराभावे वृत्तेरनुपपत्तेरवयवान्तराभावादिति हेतुरुपपद्येतापि न चैवमस्ति- अवयवान्तरसत्त्वे तादृशावयवान्तरस्यैव वृत्तिरुपपद्यते नावयविनोपि- अवयवावयविनोआंदादिति सूत्रार्थः / अत्र सूत्रे " अवयवान्तराभावेपि" इतिपाठस्तु असंगत एव प्रतिभाति / व्याचष्टे- अव. यवान्तरेति, 'अवयवान्तराभावात् ' इत्यहेतुरिति सूत्रेणान्वयः / यदुक्तम्- 'नाप्येकदेशेनावयवी वर्ततेअवयवान्तराभावात्' इति तत्र यद्यपि= यदि चैकदेशोऽवयवान्तरभूतः स्यात्तथापि तदापि तादृशावयवान्तरस्यैवावयवान्तरे वृत्तिः संभवेत् नावयविनः- अवयविवृत्तेरवयवान्तराधीनत्वासंभवादित्यवयविवृत्तिप्रतिषेधे ' अवयवान्तराभावात् ' इति हेतुर्न संभवतीत्यर्थः / उक्ते हेतुमाह- अन्य इति, यतोऽवयवेभ्योऽन्यः= भिन्नोऽवयवी ततोवयववृत्त्या अवयविनो वृत्तिर्न संभवतीति अवयवान्तरसत्त्वपक्षेप्यवयववृत्तिरेव स्यानावयविनो वृत्तिरित्यवयविवृत्तिप्रतिषेधे 'अवयवान्तराभावात् / इत्यहेतुरेवेत्यर्थः / संकलयति- अन्यावयवेति, 'अवयविनो नैकदेशेनापि वृत्तिः संभवति- अन्यावयवाभावात्' इत्यहेतु:अन्यावयवभावेप्यवृत्तेरित्यन्वयः, यद्यन्यावयवभावेऽवयविनो वृत्तिरुपपद्येत तदाऽन्यावयवाभावे वृत्त्यभावो वक्तं शक्येतापि न चैवमस्तीत्यर्थः / वृत्तिस्वरूपं जिज्ञासते- वृत्तिरिति, कथम्= किंस्वरूपेत्यर्थः / उत्तरमाह- एकस्येति, प्रकृते एकस्यावयविनोऽनेकत्र= अनेकेष्ववयवेषु य आश्रयाश्रितसंबन्धलक्षण:= आश्र. यायिभावलक्षणः प्राप्तिः= समवायः स वृत्तिपदार्थः / आश्रयाश्रितभावं जिज्ञासते- आश्रयेति / उत्तरमाह- यस्येति, यस्य= अवयविनः कार्यद्रव्यस्य यतः= अवयवसमुदायात्= कारणद्रव्यादन्यत्र आत्मलाभानुपपत्तिः= स्वरूपसत्तानुपपत्तिस्तस्य स आश्रयः= आधारः यथाऽवयवा अपर आधेय इत्यन्वयः, यत इत्युक्तस्य तच्छब्देन परामर्शात् सोऽवयवसमुदाय आश्रय इत्यर्थः / उदाहरति- नेति, कारणद्रव्येभ्यः कपालादिभ्योऽन्यत्र कार्यद्रव्यं घटादिकं न संभवतीति कारणद्रव्यमाधार इत्युच्यते कार्यद्रव्यं चाधेयस्तयोराधाराधेयभावः संबन्धः / विपर्यय इति- कारणद्रव्यं तु कार्यद्रव्यादन्यत्रापि संभवतीति न तदाधेयं भवति, तथा चाधाराधेयभावसंबन्धेनावयवेष्ववयविनो वृत्तिर्भवतीत्यर्थः / ननु नित्यानां तु कारणं न भवतीति कथं तेषां वृत्तिः स्यात् ? वृत्त्यनुपपत्तौ च नित्यानामभाव एव सिध्येदित्याशङ्कते- नित्येष्विति / उत्तरमाह- अनित्येष्विति, यथाऽनित्येष्वाधाराधेयभावस्तथा नित्येष्वप्यन्ति यथाकाशे पक्षी. आत्मनि ज्ञानम् , घटे परमाणुरिति, नित्यानां कारणं तु नास्त्येवेति