________________ प्रसन्नपदापरिभूषितम्- [4 अन्याये. २आहिके पृथक चावयवेभ्योऽवृत्तेः // 9 // पृथक् चावयवेभ्यः= धर्मिभ्यो धर्मस्याग्रहणादिति समानम् // 9 // न चावयव्यवयवाः // 10 // एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः // 11 // किं प्रत्यवयवं कृत्स्नोऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः, कस्मात् ?, एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः= ' कृत्स्नम्' इत्यनेकस्याशेषाभिधानम्. 'एकदेशः' इति नानात्वे कस्यचिदभिधानम् , ताविमौ कृस्नैकदेशशब्दो भेदविषयौ नैकस्मिन्नऽवयविन्युपपद्यतेभेदाभावादिति // 11 // इत्यर्थः, अत्र- " अवयविनश्चैकद्रव्यताप्रसङ्गात्= एकावयववृत्तित्वादेकद्रव्योऽवयवी प्राप्नोति. एकद्रव्यश्चावयवी एकेन द्रव्येण (अवयवेन) आरभ्यते इति सततोत्पत्तिप्रसङ्गः" इतिवार्तिकम् / किंचिदवयववृत्तित्वं निराकरोति-नापीति, अवयवी एकदेशे= अवयवसमुदायैकदेशे= कस्मिंश्चिद्वयवेपि न वर्तते इत्यर्थः, अत्र हेतुमाह- सर्वेष्विति, अवयवी यत्रैकदेशे वर्तेत तत्र स्वावयवैः सहैव वर्तेत न च सर्वेष्वऽवयवेष्वन्ये अवयवा वर्तन्ते इति नैकदेशेष्यवयविनो वृत्तिरुपपद्यते इति अवयव्यभावः सिद्धस्तत्र नास्त्यवयवीति निश्चये जाते अवयवी अस्ति न वेति संशयो न युक्त इति "वृत्त्यनुपपत्तेः 6" इतिसूत्रोक्तोपक्रमानुकूल्येनोपसंहरति- तदेवमिति, उक्तसंशयाभावे हेतुमाह- नास्तीति, इति= यतो नास्त्यवयवी ततो न युक्तः संशय इत्यन्वयः / अत्र- "नाप्येकदेशे” इत्यत्र "नाप्येकदेशेन" इति पाठान्तरं तथा च वार्तिकम् / “अथाप्यवयवी एकदेशेन वर्तते ? तथाप्यवयविन आरम्भकावयवातिरिक्ता अवयवाः प्राप्नुवन्ति येऽवयवेषु वर्तन्ते इति" इति / एतद्वार्तिकानुसारेण तु "न तावत्" इत्यादिभाष्येण प्रत्यव. यवमवयविनः कास्न्येन वृत्त्यनुपपत्तिः प्रदर्शिता तथा च वार्तिकम्- “न तावत् प्रत्यवयवं कृत्स्नो वर्तते इति" इति, “नाप्येकदेशेन " इत्यादिभाष्येण चावयविन एकदेशेन वृत्त्यनुपपत्तिः प्रदर्शितेत्यवधेयम् / अविशदं चैतद्भाध्यमित्यलम् // 8 // नन्ववयवेभ्योऽन्यत्रावयविनः किं न वृत्तिः स्यादित्याशङ्कयाह- पृथगिति, अवयवेभ्यः पृथक्अन्यत्राप्यवयविनो वृत्तिोपपद्ये इति नास्त्यवयवीति सिद्धमिति सूत्रार्थः / व्याचष्टे- पृथगिति, धर्मस्य= अवयविनः, इदमपि समानम् पूर्वोक्तदूषणसदृशं दूषणमित्यन्वयः / अवयवानां धर्मित्वं ह्यऽवयव्याश्रयत्वाद् अवयविनश्च धर्मत्वमवयवाश्रितत्वाद्विज्ञेयम् // 9 // . नन्ववयवानां सिद्धयाऽवयविसिद्धिः किं न स्यात्- अभेदादित्याशङ्कयाह-न चेति, अवयवा एव नाऽवयवी- अभेदासंभवात् अवयविसाव्यकार्यस्याऽवयवैरसिद्धेरिति नावयत्रसिद्धयाप्यवयविसिद्धिः संभवतीति नास्त्यवयवीति सिद्धमिति सूत्रार्थः, अत्र भाष्यं नास्ति // 10 // उक्तं सिद्धान्ती निराकरोति- एकस्मिन्निति, 'अवयवेषु कृत्स्नोवयवी वर्तते एकदेशेन वा' इत्युक्तं तत्र कृत्स्न इति एकदेश इति च भेदशब्दः- भेदे सत्येव प्रयुज्यमानत्वात्. एतादृशभेदशब्दस्य= भेदबोधकशब्दस्य एकस्मिन्नवयविनि प्रयोगो नोपपद्यते- एकस्मिन् भेदाभावादिति पूर्वोक्तः प्रश्नो नोपपद्यते इतिसूत्रान्वयः, वस्तुतस्तु 'सर्वेष्ववयवेषु कृत्स्नोऽवयवी वर्तते इति सिद्धोऽवयवी' इत्युत्तरं युक्तम् / व्याचष्टे- किमिति, तदेतत् उक्तपूर्वपक्षानुवादः / स्ववक्तव्यमाह- इति नेति / उक्त हेतुं जिज्ञासतेकस्मादिति / हेतुमाह- एकस्मिन्निति / उक्तं व्याचष्टे- कृत्स्नमिति, यथा 'सर्वे घटाः' इति सर्वशब्दप्रयोगोऽनेकस्याऽशेषत्वबोधनार्थो भवति तथा कृत्स्नशब्दप्रयोगोपि विज्ञेयः, एकदेशशब्दस्यापि प्रयोगो नानात्वे सति कस्यचिदंशस्य बोधनार्थों भवतीत्यन्वयः यथा पटस्यैकदेश इति पटभागानां नानात्वे