________________ अवयविविवेचनम् ] न्यायभाष्यम् / 393 वृत्त्यनुपपत्तेरपि तर्हि न संशयः॥ 6 // वृत्त्यनुपपत्तेरपि तर्हि संशयानुपपत्तिः- नास्त्यवयवीति // 6 // तद्विभजते___ कृत्स्नैकदेशाऽवृत्तित्वादवयवानामवयव्य भावः // 7 // एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्तते- तयोः परिमाणभेदादऽवयवान्तरसंबन्धाभावप्रसङ्गाच्च, नाप्यवयव्येकदेशे-न ह्यस्यान्ये अवयवा एकदेशभूताः सन्तीति // 7 // ___ अथावयवेष्ववयवी वर्तते ?-. तेषु चाऽवृत्तेरवयव्यभावः // 8 // न तावत् प्रत्ययवं वर्तते- तयोः परिमाणभेदाद द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्, नाप्येकदेशे- सर्वेष्वन्यावयवाभावात्, तदेवं न युक्तः संशयः- नास्त्यवयवीति // 8 // पूर्वपक्ष्युत्तरमाह- वृत्तीति, उक्तरीत्या वक्ष्यमाणरीत्या चावयविनोऽवयवेषु वृत्तिः= स्थितिर्नोपपद्यते नाप्यन्यत्रेत्यवयविनोऽसत्त्वमेव सिध्यतीत्यसत्त्वनिश्चयेनापि संशयो न संभवति= असत्त्वनिश्चयादेव संशयो निवर्तते न सत्त्वनिश्चयादिति सूत्रार्थः / व्याचष्टे- वृत्तीति, यतोऽवयवी नास्ति तस्मादवयविनः संशयानुपपत्ति:- निश्चयस्य संशयनिवर्तकत्वनियमात् , अवयव्यभावनिश्चये चावयविनो वक्ष्यमाणा वृत्त्यनुपपत्तिहेतुरित्यर्थः // 6 // ___ अग्रिमसूत्रमवतारयति- तदिति, तत्= वृत्त्यनुपपत्तिं त्रिभिः सूत्रैः पूर्वपक्षी विभजते= विभागेन प्रतिपादयतीत्यर्थः / अवयवानामवयविनि वृत्त्यनुपपत्तिमाह- कृत्स्नेति, अवयवानां कृत्स्ने= सकलेऽवयविनि वृत्तिर्नोपपद्यते- कस्य चिदप्यवयवस्य सकलेऽवयविनि व्यापकत्वासंभवात् , नाप्यक्यव्येकदेशे वृत्तिरुपपद्यते- अवयवान्तरस्याऽवयव्येकदेशभतेऽवयवान्तरे वृत्तेरसंभवादिति अवयव्यऽभावः सिद्ध इतिसूत्रार्थः / व्याचष्टे- एकैक इति / उक्त हेतुमाह- तयोरिति, तयोः= अवयवावयविनोः परिमाणभेदात् अवयव्यपेक्षयाऽवयवस्याल्पपरिमाणत्वेन तादृशावयवेनावयविनो व्यापनं न संभवति तथा चावयविपतिर्न स्यादित्यर्थः, हेत्वन्तरमाह- अवयवान्तरेति, योकेनावयवेनावयविव्यापनं स्यात्तदा तत्रावयवान्तरस्य वृत्तिर्न स्यात् न चैकेनावयवेनावयवी संभवतीत्यर्थः / द्वितीयपक्षं निराकरोति-नापीति, अवयवानामवयव्येकदेशेपि वृत्तिन संभवतीत्यन्वयः। अत्र "नाप्यवयव्येकदेशेन" इतिपाठान्तरं तच्चासंगतमेवअवयवानामवयविनि वृत्त्यनुपपत्तिनिरूपणस्य प्रक्रान्तत्वात् / अत्र- “अवयव्येकदेशेनेति- अवयविनो ये एकदेशास्तेनावयवोऽवयविनि वर्तते इत्यर्थः” इतितात्पर्यटीका / अत्र हेतुमाह- न हीति, यद्यस्यअवयविनः एकदेशभूता अन्येऽवयवा स्युस्तदा तत्रैषामवयवानां वृत्तिः स्यादपि न चैवमस्ति, न चावयवान्तरे अवयवान्तरस्य वृत्तिः संभवति- समानत्वात्. नापि स्वस्मिन्नित्यवयवानां वृत्त्यनुपपत्तेरवयव्य. भावः सिद्ध इत्यर्थः / / 7 // नन्ववयवेष्ववयवी वर्तते नावयवा अवयविनीति नोक्तदोषापत्तिरित्याह- अमेति / अत्रापि पूर्वपक्षी दोषमाह- तेष्विति, तेषु= अवयवेष्वपि अवयविनो वृत्तिोंपपद्यते इत्यवयव्यभावः सिद्ध इति सूत्रान्वयः, अन्यद् भाष्ये स्पष्टम् / व्याचष्टे- न तावदिति, अवयवीतिशेषः, तथाहि न तावत् प्रत्यवयवं वृत्तिरवयविनः संभवति-अवयविनोऽवयवभेदेनानेकत्वप्रसङ्गात् , तयोः अवयवावयविनोः परिमाणभेदादू अल्पपरिमाणेऽवयवेऽवयविनो वृत्तेरसंभवात्. द्रव्यस्य- प्रत्येकमवयवस्य एकद्रव्यत्वप्रसङ्गात्= अवयवित्वप्रसङ्गादित्यन्वयः / किं वा द्रव्यस्य= अवयविनः एकद्रव्यत्वप्रसङ्गात्= एकावयववृत्तित्वेन निरवयवत्वप्रसङ्गात् अनेकावयववृत्तित एव सावयवत्वसंभवात्. न चावयविनो निर वयवत्वमुपपद्यते इति नायं पक्षो युक्त 50