________________ 392 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेकामं वर्धयति तदनुषक्तांश्च दोषान् विवर्जनीयान् / वर्जनं त्वस्या भेदेनावयवसंज्ञा= केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोचारादिसंज्ञा तामशुभसंज्ञेत्याचक्षते. तामस्य भावयतः कामरागः प्रहीयते. सत्येव च द्विविध विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्युपदिश्यते यथा विषसंपृक्तेऽन्ने अन्नसंज्ञोपादानाय विषसंज्ञा प्रहाणायेति // 3 // अथेदानीमर्थं निराकरिष्यताऽवयविन्युपपाद्यते विद्याऽविद्यादैविध्यात् संशयः॥ 4 // सदसतोरुपलम्भाद् विद्या द्विविधा. सदसतोरनुपलम्भादऽविद्यापि द्विविधा, उपलभ्यमानेऽवयविनि विद्याद्वैविध्यात् संशयः. अनुपलभ्यमाने चाऽविद्याद्वैविध्यात् संशयः, सोयमऽवयवी यापलभ्यते अथापि नोपलभ्यते न कथंचन संशयाद् मुच्यते इति // 4 // तदसंशयः- पूर्वहेतुप्रसिद्धत्वात् // 5 // तस्मिन्नऽनुपपन्नः संशयः, कस्मात् ?, पूर्वोक्तहेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति॥५॥ भुदाहरति- रसनेति, अवयवा एव रागादिहेतवो भवन्तीति दन्ताद्यवयवा निमित्तसंज्ञा / अनुव्यञ्जनसंज्ञामुदाहरति- इत्थमिति, अनु= पश्चात् अवयवदर्शनानन्तरमवयवसौन्दर्य व्यज्यते इत्यनुव्यञ्जनसंज्ञा सौन्दर्यम् / इत्थम् ईदृशौ / पर्यवसितमाह- सेयमिति, संज्ञा अवयवतत्सौन्दर्यज्ञानम् तदनुषक्तान= कामानुषक्तान दोषान्= रागादीन् विवर्जनीयानपि वर्धयतीत्यन्वयः। निवृत्तिप्रकारमाह- वर्जनमिति, अस्याः= उक्तसंज्ञायाः, अवयवानां भेदेन= पार्थक्येनानुसंधानात् कामो निवर्तते इत्यर्थः / उदाहरति- के. शेति, ताम् एनाम्= भेदेनावयवसंज्ञाम् / अस्य पुरुषस्य तामशुभसंज्ञां भावयतः कामरागः= विषयरागः प्रहीयते इत्यन्वयः। विषयद्वैविध्यं च शुभाशुभसंज्ञाभेदेन विज्ञेयं तच्चोदाहृतमेव / भावनीया अशुभसंज्ञा. परिवर्जनीया शुभसंज्ञा, श्रूयते हि- "हीयतेद् यो वै प्रेयो वृणीते " इति / उदाहरति- यथेति, अन्नसंज्ञा= भोज्यत्वज्ञानमुपादानाय= ग्रहणाय भवति, विषत्वज्ञानं च त्यागाय तथा स्त्रीशरीरस्यापि सुन्दरत्वेन समष्ट्या भावनं कामाय भवति मांसशोणिताद्यवयवैर्भावनं परित्यागाय भवति, स्पष्टमन्यत् // 3 // अग्रिमसूत्रमवतारयति- अथेति, अर्थम्= अवयविनं निराकरिष्यता बौद्धनावयववादिनाऽवयविनि संशय उपपाद्यते इत्यन्वयः / विद्येति- सद्विषयकत्वेनासद्विषयकत्वेन च विद्यायाः= उपलब्धेरविद्याया अनुपलब्धेश्च द्वैविध्यात् अवयविनि सत्त्वासत्त्वयोः संशयः, असदप्युपलभ्यते शुक्तिरजतादिकमित्युपलभ्यमानस्याप्यवयविनः सत्त्वं न निश्वेतुं शक्यते. सदापि नोपलभ्यते कूपे पतितमित्यनुपलभ्यमानस्याप्यवयविनः सत्त्वं संभवतीति यद्यवयवी उपलभ्यते यदि च नोपलभ्यते उभयथापि तस्य सत्त्वासत्त्वसंशयो न निवर्तते इतिसूत्रार्थः / व्याचष्टे- सदसतोरिति, विद्या= ज्ञानम् , सतः= घटादेः, असतः= शुक्तिरजतादेः / अविद्याद्वैविध्यमाह- सदसतोरिति, सतः= कूपे पतितस्य, असतः= शशविषाणादेश्चानुपलब्धिः स्पष्टैव / समन्वयति- उपलभ्यमाने इति, उपलभ्यमानोऽवयवी सद्वाऽसद्वेति संशयः- सदसतोरुभयोरप्युपलभ्यमानत्वात् , अनुपलभ्यमानो प्यवयवी सदाऽसद्वेति संशयः- सदसतोरुभयोरप्यनुपलभ्यमानत्वसंभवादित्यर्थः / उपसंहरति- सोयमिति, अथापि= यदि च, अवयविनि सत्त्वासत्त्वयोः संशयो न निवर्तते इति सत्त्वं न सिध्यतीत्यर्थः // 4 // उक्तं सिद्धान्ती प्रत्याचष्टे- तदिति, तत्= तस्मिन् = अवयविनि संशयो नोपपद्यते- पूर्वहेतुभिः= द्वितीयाध्यायप्रथमाह्निके "सर्वाग्रहणम् 34" इत्यादिसूत्रोक्तैहेतुभिरवयविनः प्रसिद्धत्वात् सिद्धत्वादिति सूत्रार्थः / ब्याचष्टे- तस्मिन्निति, तस्मिन्= अवयविनि / असंशये हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- पूर्वोक्तति, तदेतत् द्वितीयाध्यायप्रथमाह्निके द्रष्टव्यम् , द्रव्यान्तरम्= अवयवातिरिक्तोऽवयवी तदारम्भ:- तदुत्पत्तिः सिद्धेत्यर्थः // अवयविसाधनरोगग्रस्तौ चैतौ सूत्रकारभाष्यकारौ // 5 //