________________ तत्त्वज्ञानफलम् ] न्यायभाध्यम्। 391 प्रसंख्यानानुपूर्व्या तु खलु दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः // 2 // कामविषया इन्द्रियार्थी इति रूपादय उच्यन्ते. ते मिथ्या संकल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति तान् पूर्व प्रसंचक्षीत, तांश्च प्रसंचक्षाणस्य रूपादिविषयो मिथ्यासंकल्पो निवर्तते, तन्नित्तौ अध्यात्मं शरीरादि प्रसंचक्षीत, तत्पसंख्यानादध्यात्मविषयोऽहङ्कारो निवर्तते. सोयमध्यात्मं बहिश्च विविक्तचित्तो विहरन् मुक्त इत्युच्यते // 2 // ___ अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्युपदिश्यते, नार्थनिराकरणमऽर्थोपादानं वा, कथमिति.. तन्निमित्तं त्वऽवयव्यऽभिमानः // 3 // तेपाम्= दोपाणां निमित्तं त्वऽवयव्यभिमानः, सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुपस्य पुरुषसंज्ञा च स्त्रियाः, परिष्कारश्च= निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च, निमित्तसंज्ञा रसनाश्रोत्रं दन्तोष्ठं चक्षुर्नासिकम्, अनुव्यञ्जनसंज्ञा= इत्थं दन्तौ इत्थमोष्ठाविति, सेयं संज्ञा निवर्तते इति क्रमः / उपसंहरति- एवमिति, तत्त्वज्ञानाद् मिथ्याज्ञानमपैति इत्येवमन्वयः, एवं तत्त्वज्ञानादपवर्गः सिद्ध इत्यर्थः / स्वसिद्धान्तस्य श्रुतिसिद्धत्वमाह-स चेति, शास्त्रार्थसंग्रहः= वेदप्रतिपाद्यार्थ एवानूद्यते न तु नूतनं किंचिद्विधीयते, श्रूयते च "भोक्ता भोग्यं प्रेरितारं च मत्त्वा" इत्यादि / स्पष्टमन्यत्॥१॥ ___अग्रिमसूत्रमवतारयति- प्रसंख्यानेति, प्रसंख्यानम्= ज्ञानं तदानुपूर्व्या= कः पदार्थः प्रथमं विज्ञेयः कश्च तदनन्तरमिति ज्ञानक्रमबोधनार्थ सूत्रमुच्यते इत्यर्थः / दोषनिमित्तमाह- दोषेति, रूपादयो विषयाः संकल्पकृताः= संकल्पविषयीभूता दोषनिमित्तम्= रागादिदोषाणामुत्पादका भवन्तीति सूत्रार्थः / व्याचष्टे- कामेति, तदेतद् रूपादिपदार्थव्याख्यानम् , कामविषयाः= कामनाविषयाः, इन्द्रियार्थाः= इन्द्रियग्राह्या विषया रूपादय इत्युच्यन्ते इत्यन्वयः, ते= रूपादयः, प्रवर्तयन्ति= उत्पादयन्ति, तान्= रूपादीन, प्रसंचक्षीत= तत्त्वतो जानीयात / तान्= रूपादीन् प्रसंचक्षाणस्य= तत्त्वतो जानानस्य. वस्तुतो रूपादीनां दुःखप्रदत्वादितिशेषः / तन्निवृत्तौ= रूपादिविषयकमिथ्यासंकल्पनिवृत्तौ, अध्यात्मम्= अध्यात्मभूतम्= अहन्त्वाभिमानविषयम्, तत्प्रसंख्यानात्= शरीरादितत्त्वज्ञानात् , अध्यात्मविषयः= शरीरादिविषयकः, अहङ्कारः= अहन्त्वाभिमानः, तदनेनाहङ्कारनिवृत्त्युपायक्रम उक्तः / उपसंहरतिसोयमिति, अयम्= तत्त्वज्ञानवान्, अध्यात्मम्= शरीरादिषु. बहिः= रूपादिषु च विविक्तचित्तः= विवेकवान= मिथ्यासंकल्परहितो विहरन्= कर्मफलं भुञ्जानो मुक्तः= जीवन्मुक्त इत्युच्यते इत्यन्वयः / / 2 / / ____ अग्रिमसूत्रमवतारयति- अत इति, संज्ञाशब्दोयं विषयपरो विषयज्ञानपरो वा विज्ञेयः, संज्ञायते इति संज्ञा विषयः, सम्यक् ज्ञायतेऽनेनेति संज्ञा ज्ञानम् / भावयितव्या= अनुसंधेया। अकर्तव्यमाहनार्थेति, उपादानम् उपपादनम् . अत्र कस्यापि पदार्थस्योपपादनं निराकरणं वा न प्रतिपाद्यते किं तु भावनीयत्वमभावनीयत्वं च प्रतिपाद्यते इत्यर्थः / उक्तसंज्ञानां हेयत्वभाव्यत्वयोहेतुं जिज्ञासते- कथमिति, किमर्थमित्यर्थः / किं वा कथम् केन प्रकारेण हेया भावयितव्या चेत्यर्थः / अत्र- " दन्तत्वादितद्विशिष्टा विषयाः संज्ञाः" इति तात्पर्यटीका / तदिति- अवयविषु= भोग्यव्यक्तिषु यथा नायिकादिदेहेषु अभिमानः= अभिमतत्वज्ञानम्= भोग्यत्वज्ञानं तत्= तेषाम्= रागादिदोषाणां निमित्तम्= उत्पादक भवतीत्येतादृशोभिमानः परित्याज्य इतिसूत्रार्थः / व्याचष्टे- तेषामिति / दोषनिमित्तमयवव्यभिमानमुदाहरति- सेति, स्त्रीसंज्ञा स्त्रीलक्षणो विषयः पुरुषस्य रागादिहेतुर्भवति. पुरुषसंज्ञा= पुरुषलक्षणो विषयश्च स्त्रिया: रागादिहेतुर्भवतीत्यन्वयः। परिष्कारस्य द्वैविध्यमाह- परिष्कारश्चेति / निमित्तसंज्ञा