________________ 390 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके___ यस्तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वमिदं दुःखमिति पश्यति स दुःख परिजानाति परिज्ञातं च दुःखं प्रहीणं भवति- अनुपादानात् सविषान्नवत्, एवं दोषान् कर्म च दुःखहेतुरिति पश्यति / न चाऽप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुमिति दोषान् जहाति. प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसंधानायेत्युक्तम् , प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश्च प्रहेयान् , अपवर्गोऽधिगन्तव्यस्तस्याधिगमोपायस्तत्त्वज्ञानम्. एवं चतसृभिर्विधाभिः प्रमेयं विभक्तमासेवमानस्य अभ्यस्यतः= भावयतः सम्यग्दर्शनम्= यथाभूतावबोधः= तत्त्वज्ञानमुत्पद्यते // एवं च दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः // 1 // शरीरादि दुःखान्तं प्रमेयं दोषनिमित्तम् , तद्विषयत्वान्मिथ्याज्ञानस्य तदिदं तत्त्वज्ञानं तद्विषयमुत्पन्नमऽहङ्कारं निवर्तयति- समानविषये तयोविरोधात. एवं तत्त्वज्ञानात् " दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग१-१-२" इति, स चायं शास्त्राथसंग्रहोऽनूयते नाऽपूर्वो विधीयते इति // 1 // ___ तत्त्वज्ञानवतो व्यतिरेकमाह किं वा तत्त्वज्ञानोत्पत्तिप्रकारमाह- यस्त्विति, दुःखायतनम्= शरीरादिकं दुःखप्रदमिति पश्यति, सुखं च दुःखानुषक्तम्= दुःखमिश्रमिति पश्यति, स:= उक्त तत्त्वज्ञानवान् , प्रहीणम्= परित्यक्तं भवति, हेतुमाह- अनुपादानादिति / दृष्टान्तमाह- सविषान्नवदिति / उपसंहरति- एवमिति / संसारदुःखनिवृत्त्यर्थं रागादिदोषाणां त्याज्यत्वमाह-न चेति, तत्त्वज्ञानवानितिशेषः / दोषत्यागेन संसारनिवृत्तिमाह- प्रहीणेषु चेति, प्रवृत्तिः= कर्म, प्रतिसंधानाय= पुनर्जन्मार्थ न भवतीति प्रथमाहिकेत्र " न प्रवृत्तिः 64" इतिसूत्रेणोक्तमित्यन्वयः / उक्तं संकलयतिप्रेत्येति, प्रेत्यभावः= पुनर्जन्म, फलम्= कर्मफलम् , दुःखम्= संसारदुःखमेतानि ज्ञेयानीति तत्त्वज्ञानवान् व्यवस्थापयति= निश्चिनोति- एतेषां त्यागे सामाभावात् , कर्माणि दोषाश्च प्रहेया इति व्यवस्थापयतीत्यन्वयः, किं वा सूत्रकारो व्यवस्थापयतीत्यर्थः / किं वा कर्म च दोषांश्च प्रहेयान् जानीयादित्यर्थः / अत्र- " तदेवमुक्तेन प्रकारेण मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यस्मात्तस्माद् मोक्षमाणैः प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयतीत्यादि पूर्वोपसंहारः" इति तात्पर्यटीका / तस्य अपवर्गस्य / उपसंहरति- एवमिति, संसारो हेयस्तत्कारणं कर्माणि दोषाश्च, अपवर्ग: प्राप्यस्तत्प्राप्तिकारणं तत्त्वज्ञानमित्येवं चतुर्धा विभक्तं प्रमेयमासेवमानस्य तत्त्वज्ञानमुत्पद्यते- हेयादीनां हेयत्वाद्यभ्यासात् इत्यन्वय इत्युपोद्घातभाष्यम् // प्रथमसूत्रमवतारयति- एवमिति, यतः शरीरादीनां तत्त्वज्ञानाभावादहङ्कारो जायते एवम्= अत: शरीरादीनां तत्त्वज्ञानादहङ्कारो निवर्तते इत्यर्थः / अहङ्कारनिवृत्त्युपायमाह- दोषेति, दोषकारणकानां शरीरादीनां तत्त्वज्ञानात्= यथार्थस्वरूपज्ञानात्= विनाशित्वदुःखमयत्वाऽनात्मत्वादिज्ञानादहङ्कारो निवतते ततोऽपवर्गसाधकं तत्त्वज्ञानम्= आत्मज्ञानं जायते इतिसूत्रार्थः / व्याचष्टे- शरीरेति, शरीरादिशरीरमारभ्य दुःखान्तम् दुःखपर्यन्तं प्रमेयसूत्रोक्तं प्रमेयजातं दोषनिमित्तकमस्ति / मिथ्याज्ञानस्य शरीरादिविषयकत्वात्= शरीरादिष्वात्मत्वज्ञानमेव मिथ्याज्ञानमित्यात्मत्वज्ञानविषयत्वमापन्नाः शरीरादयोऽहङ्कारमुत्पादयन्तीत्यर्थः अत एव तदिदम्= शरीरादिविषयकम् , तद्विषयम्= शरीरादिविषयकम् , उक्त हेतुमाह- समानेति, तयोः= तत्त्वज्ञानाहङ्कारयोः, तत्त्वज्ञानाद् मिथ्याज्ञानं निवर्तते ततश्चाहङ्कारो