________________ अथ न्यायभाष्यचतुर्थाध्यायस्य द्वितीयमाह्निकम् किं नु खलु भो यावन्तो विषयास्तावत्सु प्रत्येकं तत्वज्ञानमुत्पद्यते ? अथ कचिदुत्पद्यते ? इति / कश्चात्र विशेषः ?, न तावदेकैकत्र यावद्विषयमुत्पद्यते- ज्ञेयानामानन्त्यात्, नापि कचिदुत्पद्यते- यत्र नोत्पद्यते तत्रानिटत्तो मोह इति मोहशेषप्रसङ्गः- न चान्यविषयेण तत्त्वज्ञानेनाऽन्यविषयो मोहः शक्यः प्रतिषेधुमिति / मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रं तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारवीजं भवति स विषयस्तत्त्वतो ज्ञेय इति / किं पुनस्तन्मिथ्याज्ञानम् ?, अनात्मन्यात्मग्रहः= अहमस्मीति मोहोऽहङ्कार इति. अनात्मानं खल्वहमस्मीति पश्यतो दृष्टिरहङ्कार इति / किं पुनस्तदर्थजातं यद्विषयोऽहङ्कारः ?, शरीरेन्द्रियमनोवेदनाबुद्धयः / कथं तद्विषयोऽहङ्कारः संसारबीजं भवति ?, अयं खलु शरीराद्यर्थजातम् अहमस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानोऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस्तदुपादत्ते तदुपाददानो जन्ममरणाय यतते तेनाऽवियोगाद् नाऽत्यन्तं दुःखाद्विमुच्यते इति / ___ संशयप्रमाणप्रमेयाणां परीक्षणानन्तरं संप्रति प्रथमसूत्रे षोडशपदार्थानां तत्त्वज्ञानादपवर्गप्राप्तिरक्तेति तत्वज्ञानस्य विषयेयत्ता प्रतिपादयितुं जिज्ञासते- किं नु इति, तावत्सुप्रत्येकम्= प्रत्येकपदार्थविषयकं तत्त्वज्ञानमुत्पद्यते= उत्पाद्यम्= संपाद्यम्, अथ= किं वा कचित्= किंचित्पदार्थविषयक तत्त्वज्ञानं संपाद्यमिति विकल्प इत्यन्वयः। कल्पद्वयस्यास्य विशेषं जिज्ञासते- कश्चेति / कल्पद्वयमपि नोपपद्यते इत्येव विशेष एतादृशविशेषस्य प्रतिपादनार्थ प्रथमकल्पस्यासंभवमाह- न तावदिति, एकैकत्र- पदार्थमात्रस्य तत्त्वज्ञानं न संभवतीत्यर्थः। अत्र हेतुमाह- ज्ञेयानामिति / द्वितीयकल्पे दोषमाहनापीति, किंचित्पदार्थविषयकेण तत्त्वज्ञानेन सर्वपदार्थविषयकमोहस्य निवृत्तिन संभवतीति तत्त्वज्ञानविषयातिरिक्तपदार्थानां मोहस्तदवस्थ एव स्यादित्यऽपवर्गानुपपत्तिः- मोहस्य संसारहेतुत्वादित्यर्थः / मोहशेषप्रसङ्गेऽत्रोपपत्तिमाह- न चेति / प्रतिषेद्भुम्= निवर्तयितुम् / एवं संशये सिद्धान्तमाह- मिथ्याज्ञानमिति. मिथ्याज्ञानमेव मोहः, यविषयकं च मिथ्याज्ञानं संसारकारणं भवति स विषयस्तत्वतो ज्ञेय इत्यन्वयः / मिथ्याज्ञानस्वरूपं जिज्ञासते- किं पुनरिति / उत्तरमाह- अनात्मनीति, अत्र " अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या" इति योगसूत्रमनुसंधेयम् / उक्तं विशदयति- अहमिति, अनात्मनि= आत्मातिरिक्ते शरीरादौ य आत्मग्रहः= आत्मत्वज्ञानम्= ' अहमस्मि' इति योऽहङ्कारः स मोहः स एव च संसारकारणं मिथ्याज्ञानमित्यर्थः / अहङ्कारस्वरूपमाह- अनात्मानमिति, 'अहं गच्छामि ' इत्यादिरूपेणाऽनात्मानम्= शरीरादिकमहमितिपश्यतो या दृष्टिः= शरीरादिषु यदात्मत्वज्ञानं तदेवाहङ्कार इत्यर्थः / अहङ्कारविषयं जिज्ञासते- किं पुनरिति / उत्तरमाह- शरीरेति, अहङ्कारविषया इतिशेषः, तत्र शरीरे यथा- 'कृष्णोहं गौरोहम्' इत्यादिः, इन्द्रियेषु यथा- 'काणोहं बधिरोहम् / इत्यादिः, मनसि यथा- 'अणुपरिमाणोहम्' इत्यादिः, वेदनाशब्देन दुःखप्रदाः पुत्रकलत्रादयो ग्राह्यास्तत्र स्वात्मत्वाभिमानः स्पष्ट एव, बुद्धौ यथा- 'ज्ञानस्वरूपोहम्' इत्यादिरहम्बुद्धिः / एतादृशाहङ्कारस्य संसारकारणत्वकारणं जिज्ञासते- कथमिति / उत्तरमाह- अयमिति, अयम्= उक्ताहङ्कार वान् , व्यवसितः= निश्चिन्वानः, तदुच्छेदेन= शरीरादिविनाशेन , अनुच्छेदतृष्णापरिप्लुतः= शरीराद्यविनाशेच्छाविशिष्टः, तत्= शरीरादिकम् , शरीरादिग्रहणं हि जन्ममरणाय यत्नः- संसारनिर्वाहकत्वात् , तेन= शरीरादिना, तथा चास्याः परम्परायाः मूलमहङ्कार एवेत्यहङ्कार एव संसारबीजमित्यर्थः / स्पष्टार्थमन्यत् /