________________ 388 न्यायभाष्यम्। कुप्यति. रक्तो मुह्यति. कुपितो मुह्यति / सर्वमिथ्यासंकल्पानां तत्त्वज्ञानादनुत्पत्तिः कारणानु. त्पत्तौ च कार्यानुत्पत्तेरिति रागादीनामत्यन्तमनुत्पत्तिरिति / 'अनादिश्च क्लेशसंततिः' इत्यऽयुक्तम्- सर्वे इमे खल्वाध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्तन्ते शरीरादयो. न जात्वत्र कश्चिदनुत्पन्नपूर्वः प्रथमत उत्पद्यतेऽन्यत्र तत्वज्ञानात् / न चैवं सत्यऽनुत्पत्तिधर्मकं किंचिद् व्ययधर्मकं प्रतिज्ञायते इति / कर्म च सत्त्वनिकायनिर्वर्तक तत्त्वज्ञानकृताद् मिथ्यासंकल्पविघातान्न रागायुत्पत्तिनिमित्तं भवति सुखदुःखसंवित्तिफलं तु भवतीति // 68 // // इति वात्स्यायनविरचिते न्यायभाप्ये चतुर्थाध्यायस्य प्रथममाहिकं समाप्तम् // इतिशेषः / रागादीनामितरेतरनिमित्तत्वमुदाहरति- इतरेतरेति / उक्तं विशदयति-- मृढ इति, यत्र मूढो रज्यति तत्र मोहाद्रागः, मूढः कुप्यतीति मोहाद् द्वेषः, रक्तो मुह्यतीति रागाद् मोहः, कुपितो मुह्यतीति द्वेषाद् मोहो जायते इति इतरेतरनिमित्तत्वं सिद्धम्. एवं रक्तो कुप्यति कुपितो रज्यति यथा पुत्रादिवितिशेषः / सूत्रार्थमुपसंहरति- सर्वेति, अनुत्पत्तिः= निरोधः, कारणानुत्पत्तौ रागादिकारणीभूतानां मिथ्यासंकल्पानां निरोधे कारणाभावे कार्याभावनियमात् गगादीनां निरोधस्तेनापवर्ग इति नापवर्गानुपपत्तिरित्यन्वयः। पूर्वपक्षं निराकरोति- अनादिरिति, अनादिश्च क्लेशसंततिः= "क्लेशसंततेः स्वाभाविकत्वात् 65" इति यदुक्तं तदयुक्तमित्यर्थः, अत्र हेतुमाह- सर्वे इति, यथाऽनादिभूतानां शरीरादीनां निवृत्तिर्भवति तथाऽनादिभूतायाः क्लेशसंततेरपि निवृत्तिः संभवतीत्याशयः, आत्मानमाश्रित्य प्रवृत्ता आध्यात्मिका भावाः शरीरादयः, पूर्वपूर्वशरीराणां सत्त्वादनादिना प्रबन्धेन प्रवर्तन्ते- पदार्थमात्रस्यानादित्वात् / विपक्षे बाधकमाह- न जात्विति, अनुत्पन्नपूर्वः= यः कदापि पूर्व नोत्पन्नः प्रथममेवोत्पद्येत स पदार्थो नास्ति अन्यत्र तत्त्वज्ञानात्= तत्वज्ञानं विना तत्त्वज्ञानं तु पूर्वमनुत्पन्नमेवोत्पद्यते- तत्त्वज्ञानानन्तरं जन्मासंभवादिति शरीरादिवत् क्लेशसंततेरपि निवृत्तिः संभवति- अनादित्वस्याविशेषादित्यर्थः / अत्र- " यदपीदमुच्यतेअनादिः केशसंततिरिति, तन्न- अविशेषात्= यथाऽनादिः क्लेशसंततिरेवमाध्यात्मिका भावा सर्वेऽना. दिना प्रबन्धेन प्रवर्तन्ते न जात्वनुत्पन्नपूर्व कश्चिदुत्पद्यते " इति वार्तिकम् / नन्वेवमनादिभूतानामात्मादीनामपि निवृत्तिः स्यादित्याशङ्कयाह- न चैवमिति, एवमपि किंचिदनुत्पत्तिधर्मकमपि व्ययधर्मकम्= विनाशीति न प्रतिज्ञायते इत्यन्वयः, आत्मादिकमनुत्पत्तिधर्मकं तस्य व्ययधर्मकत्वम्= विनाशित्वं न प्रतिज्ञायते किं तूत्पत्तिधर्मकस्य. क्लेशसंततिश्चानादिभूताप्युत्पत्तिधर्मिकेति तस्या निवृत्तिः संभवतीत्यर्थः / नन्वेवं मिथ्यासंकल्पनिमित्तानां रागादीनां निवृत्तिसंभवेपि कर्मणां तु तत्त्वज्ञानान्निवृत्तिन संभवतीति तत्त्वज्ञाने जातेपि कर्मनिमित्तानां रागादीनां कथं निवृत्तिः स्यादित्याशङ्कयाह- कर्म चेति, शरीरकारणीभूतं कर्मापि तत्त्वज्ञानाद् मिथ्यासंकल्पनिरोधे जाते रागाशुत्पादकं न भवति- रागादीनां तत्त्वज्ञानेन विरोधादित्यर्थः / तत्त्वज्ञानानन्तरं कर्मफलमाह- सुखेति, तत्त्वज्ञानानन्तरं कर्म सुखदुःखप्रतीतिमात्रजनकं भवति रागादिजनकं च न भवतीति तत्त्वज्ञाने जातेऽपवर्गप्रतिबन्धकस्याभावात् शास्त्रप्रतिपाद्यत्वाच्च सिद्धोऽपवर्ग इतिसंक्षेपः / / 68 // // इत्यपवर्गविवेचनं समाप्तम् / / // इति प्रमेयविवेचनं च समाप्तम् / / // इति न्यायभाष्यप्रसन्नपदायां चतुर्थाध्यायस्य प्रथममाह्निकं समाप्तम् //