________________ अपवर्गविवेचनम् ] न्यायभाष्यम् / 387 अणुश्यामताऽनित्यत्ववदा // 67 // ___अपर आह- यथाऽनादिरणुश्यामता अथ चाग्निसंयोगादनित्या तथा क्लेशसंततिरपीति // 67 // सतः खलु धर्मो नित्यत्वमनित्यत्वं च तत्त्वं भावेऽभावे भाक्तमिति / 'अनादिरणुश्यामता' इति हेत्वभावादयुक्तम् / अनुत्पत्तिधर्मकमनित्यमिति नात्र हेतुरस्तीति / अयं तु समाधिः न-संकल्पनिमित्तत्वाच रागादीनाम् // 68 // 'कर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्च' इति समुच्चयः, मिथ्यासंकल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च सत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान् निर्वर्तयति- नियमदर्शनात्= दृश्यते हि कश्चित्सत्त्वनिकायो रागबहुलः कश्चिद् द्वेषबहुलः कश्चिद् मोहबहुल: इति, इतरेतरनिमित्ता च रागादीनामुत्पत्तिः= मूढो रज्यति मूढः ननु प्रागभावस्याऽभावत्वादनादित्वेप्यनित्यत्वं संभवति क्लेशसंततिश्च भावरूपा अनादिभावस्य तु विनाशोनुपपन्न इति न क्लेशसंततेविनाशः संभवति- अनादिभावत्वादित्याशङ्कयाह- अणुश्यामतेति, यथाऽणो:- परमाणोः श्यामताया अनादिभावत्वेप्यग्निसंयोगेनाऽनित्यत्वम्= विनाशो भवति तथाऽनादिभावरूपाया अपि क्लेशसंततेविनाशः संभवतीति नापवर्गानुपपत्तिरिति सूत्रार्थः / व्याचष्टे- अपर इति, अनित्या= विनश्यति / प्रकृतमाह- तथेति, अनित्येत्यन्वयः / स्पष्टं सर्वम् / / 67 // प्रागभावदृष्टान्तमुक्तं दूषयति- सत इति, तत्त्वम्= नित्यत्वमनित्यत्वं च, तत्र नित्यत्वं भावे भाक्तम्= स्थितम् अनित्यत्वं चाभावे तथा च प्रागभावस्याऽभावत्वादेवानादित्वेप्यनित्यत्वाद्विनाशः संभवति, क्लेशसंततिश्च भावरूपेति तस्या अनादित्वेन नित्यत्वं प्राप्तं तथा च तद्विनाशोऽनुपपन्न इत्यपवर्गाऽनुपपत्तिरित्यर्थः / अणुश्यामतादृष्टान्तं दूषयति- अनादिरिति, अणुश्यामताया अनादित्वे हेतुर्नास्तिपार्थिवरूपमात्रस्य पाकजत्वेन सादित्वात् क्लेशसंततिश्चानादिरिति न तत्राऽणुश्यामतादृष्टान्तो घटते इत्यर्थः / अनुत्पत्तिधर्मकस्य= अनादिपदार्थस्यानित्यत्वं नोपपद्यतेऽन्यथात्मादेरप्यनित्यत्वं स्यादिति नाऽनादिभूतायाःक्लेशसंततेविनाश: संभवतीत्यपवर्गानुपपत्तिरित्याह- अनुत्पत्तीति, इति नात्र= इत्यत्र नेत्यन्वयः, श्यामता च पार्थिवे एव परमाणौ संभवति न जलादिपरमाणावपीति स्मर्तव्यम् / अत्र- "प्रथममेकदेशिनं दूषयति- सतः खल्विति, द्वितीयमेकदेशिनं दूषयति- अनादिरणुश्यामतेति, तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह- अयं तु समाधिः" इति तात्पर्यटीका। ____ अग्रिमसूत्रमवतारयति- अयमिति / नेति-रागादिक्लेशनिवृत्तेरनुपपत्तिर्नास्ति- रागादीनां संकल्पनिमित्तत्वात्. तथा च तत्त्वज्ञानात् मिथ्यासंकल्पनिरोधे जाते रागादिक्लेशानामपि निरोधो भवतीति सिद्धोऽपवर्ग इति सूत्रार्थः / व्याचष्टे- कर्मेति / समुच्चयः= सूत्रघटकचकाराद् ग्रहणमित्यर्थस्तथा च 'रागादीनां संकल्पनिमित्तत्वात् कर्मनिमित्तत्वाद् इतरेतरनिमित्तत्वाच्च' इत्यन्वयः / संकल्पनिमित्तत्वमुदाहरति- मिथ्येति, रञ्जनीयाः= लोकदृष्टया सुखप्रदा इष्टपदार्थविषयकाः, कोपनीयाः= दुःखप्रदा द्विष्टपदार्थविषयकाः, मोहनीयाः= अज्ञानप्रधाना निद्रालस्यादिविषयकाः संकल्पास्तेभ्यो यथाक्रम रागद्वेषमोहा जायन्ते / रागादीनां कर्मनिमित्तत्वमुदाहरति- कर्म चेति, सत्त्वनिकायनिवर्तकम्= शरीरकारणीभूतम् , निर्वर्तयति- उत्पादयति / हेतुमाह- नियमेति / रागादीनां नैयमिकत्वमुदाहरति- दृश्यते इति, कश्चित् सत्त्वनिकायः= देहो रागबहुलो यथा कपोतादीनामिति रागनियमः, कश्चिद् देहो मोहबहुलो यथाऽजगरादीनामिति मोहनियमः, कश्चिद् देहो द्वेषबहुलो यथा सर्पादीनामिति द्वेषनियम