________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकयदपि प्रवृत्त्यनुबन्धादिति न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य // 64 // प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर्न प्रतिसंधानाय, प्रतिसंधिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म तचाऽदृष्टकारितं तस्यां प्रहीणायां जन्मान्तराभावः= अप्रतिसंधानम्= अपवर्गः। कर्मवैफल्यप्रसङ्ग इतिचेत् ? न- कर्मविपाकप्रतिसंवेदनस्याऽप्रत्याख्यानात् / पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्युच्यते न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्ते इति // 64 // न-क्लेशसंततेः स्वाभाविकत्वात् // 65 // नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात् ?, क्लेशसंततेः स्वाभाविकत्वात् = अनादिरियं क्लेशसंततिः न चानादिः शक्य उच्छेत्तुमिति // 65 // अत्र कश्चित् परीहारमाह प्रायत्पत्तेरभावानित्यत्ववत् स्वाभाविकेप्यनित्यत्वम् // 66 // यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निवर्त्यते एवं स्वाभाविकी क्लेशसंततिरनित्येति // 66 // आत्मनो यादृशं रूपं सुषुप्तौ भवति तादृशमेव ब्रह्मविदो मुक्तस्य= मोक्षावस्थायां भवति तत्र सुषुप्तौ क्लेशानुबन्धो न दृश्यते इत्यपवर्गेपि क्लेशाभावः सिद्ध इत्याशयः // 63 // तृतीयमपवर्गाभावसाधकहेतुमनुवदति- यदपीति, प्रवृत्त्यनुबन्धादपवर्गाभाव इति यदुक्तं तदपि नोपपद्यते इत्यर्थः / सूत्रेण निराकरोति-नेति, हीनक्लेशस्य पुरुषस्य प्रवृत्तिः= कर्म प्रतिसंधानाय= पुनर्जन्मसंपादकं न भवतीति न प्रवृत्त्यनुबन्धोपवर्गप्रतिबन्धक इतिसूत्रार्थः / व्याचष्टे- प्रक्षीणेष्विति / प्रतिसंधिपदार्थमाह- प्रतिसंधिरिति / तत्=पुनर्जन्म, तस्याम्= प्रवृत्तौ, अप्रतिसंधानम्= जन्मान्तराभाव एवापवर्ग इति सिद्धोऽपवर्गः, स्पष्टं सर्वम् / / __नन्वेवं जन्मान्तराभावे कृतकर्मणां वैफल्यं स्यात्- जन्म विना कर्मफलभोगासंभवादित्याशङ्कतेकति / निराकरोति- नेति / हेतुमाह- कर्मेति, अपवर्गप्रतिपादनेन कर्मविपाकप्रतिसंवेदनस्य= कर्मफलभोगस्य प्रत्याख्यानं न क्रियते तथा च यजन्मोत्तरमपवर्गस्तज्जन्मन्येव पूर्वकृतकर्मणां फलभोगसमाप्तिर्भवति-प्रारब्धकर्मणामेकजन्मभोग्यत्वादिति न कृतकर्मणां वैफल्यप्रसङ्ग इत्यर्थः / स्वयं व्याचष्टेपूर्वेति / कर्मफलभोगकालमाह- सर्वाणीति, अन्ते= अपवर्गात् पूर्वस्मिन् , विपच्यन्ते= फलदानि भवन्ति / स्पष्टमन्यत् // 64 // ___ अपवर्ग पूर्वपक्षी निराकरोति- नेति, अपवर्गों न संभवति- अपवर्गप्रतिबन्धिकायाः क्लेशसंतते: स्वाभाविकत्वात्= अनादित्वात् अनादिभावस्य च निवृत्तेरसंभवादात्मवदिति सूत्रान्वयः / व्याचष्टेनोपपद्यते इति / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- केशसंततेरिति / उक्तं व्याचष्टे- अनादिरिति / पर्यवसितमाह-न चेति, पदार्थ इतिशेषः, स्पष्टं सर्वम् // 65 // ___ अग्रिमसूत्रमवतारयति- अत्रेति / उक्तमेकदेशिमतेन प्रत्याचष्टे- प्रागिति, प्रागुत्पत्तेरभावस्यप्रागभावस्य यथाऽनादित्वेप्यनित्यत्वं तथा स्वाभाविकेपि= अनादिभूताया अपि क्लेशसंततेरनित्यत्वम् विनाशित्वं संभवतीति क्लेशनिवृत्तेः संभवात् सिद्धोऽपवर्ग इति सूत्रान्वयः। व्याचष्टे- यथेति, प्रागुत्पत्तेरभावः प्रागभावः / भावेन तत्प्रतियोगिना / अनित्या विनाशयोग्या / स्पष्टं सर्वम् / / 66 //