________________ अपवर्गविवेचनम् ] न्यायभाष्यम् / तदप्रमाणमितिचेत् ? न- प्रमाणेन प्रामाण्याभ्यनुज्ञानात् / प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यमभ्यनुज्ञायते- " ते वा खल्वेते अथवाङ्गिरस एतदितिहासपुराणमभ्यवदन् इतिहासपुराणं पञ्चमं वेदानां वेदः" इति. तस्मादऽयुक्तमेतत्- अप्रामाण्यमिति / अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपात् लोकोच्छेदप्रसङ्गः, द्रष्टप्रवक्तृसामान्याचाप्रामाण्यानुपपत्तिः= ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खल्लितिहासपुराणस्य धर्मशास्त्रस्य चेति / विषयव्यवस्थानाच यथाविषयं प्रामाण्यम् अन्यो मन्त्रब्राह्मणस्य विषयोऽन्यश्चेतिहासपुराणधर्मशास्त्राणामिति= यज्ञो मन्त्रब्राह्मणस्य. लोकवृत्तमितिहासपुराणस्य. लोकव्यवहारव्यवस्था धर्मशास्त्रस्य विषयः, तत्रैकैन न सर्व व्यवस्थाप्यते इति यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति // 62 // यत्पुनरेतत्- क्लेशानुवन्धस्याविच्छेदादिति सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः // 63 // यथा सुषुप्तस्य खलु स्वमादर्शने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते तथाऽपवर्गेपीति, एतच्च ब्रह्मविदो मुक्तस्यात्मनो रूपमुदाहरन्तीति // 63 // ननु तत्= इतिहासादिकमप्रमाणमिति न चातुराश्रम्यविधानं संभवतीत्याशङ्कते- तदिति / निराकरोति- नेति / हेतुमाह-प्रमाणेनेति, प्रमाणेन वेदेन " इतिहासपुराणं पञ्चमं वेदानां वेदः" इत्यादिना इतिहासादिप्रामाण्यस्याऽभ्यनुज्ञानात्= प्रतिपादनादित्यर्थः / स्वयं व्याचष्टे- प्रमाणेनेति / श्रुतिमाह- ते वेति / अथर्वाङ्गिरसो ऋषिविशेषाः / अप्रामाण्यम्= इतिहासादीनामप्रामाण्यमयुक्तमित्यन्वयः / धर्मशास्त्रस्याऽप्रामाण्ये बाधकमाह- अप्रामाण्ये चेति, लोकस्थितेर्व्यवहाराधीनत्वाद् व्यवहारस्य च धर्मशास्त्राधीनत्वादित्याशयः / इतिहासादीनामप्रामाण्ये बाधकान्तरमाह- द्रष्ट्रीति, सामान्यात्= ऐक्यात , उक्तं ब्याचष्टे- ये एवेति, ये ऋषयः, मत्रब्राह्मणस्य= मत्रभागस्य ब्राह्मणभागस्य च, यदि मन्वायुक्तस्य धर्मशास्त्रादेः प्रामाण्यं न स्यात्तदा मन्वाद्युपदिष्टस्य वेदस्यापि प्रामाण्यं न स्यात् न चैतदिष्टमिति सिद्धं धर्मशास्त्रादीनां प्रामाण्यमित्यर्थः / धर्मशास्त्रादीनां प्रामाण्यव्यवस्थामाह- विषयेति, इतिहासादीनां विषयस्य व्यवस्थासत्त्वाद यथाविषयम= स्वस्वविषये प्रामाण्यमित्यर्थः / उक्तं विशदयति-अन्य इति / उक्तमपि व्याचष्टे- यज्ञ इति, लोकवृत्तम् पूर्वलोकवृत्तान्तः= चरित्रम् तस्येतिहासपुराणप्रतिपाद्यत्वात् / उपसंहरति-- तत्रेति, एकेनेतिहासादिना, यथाविषयम्= स्वस्वविषये, एतानि= इतिहासादीनि / यथा समक्षे इन्द्रियाणां प्रामाण्यं परोक्षे च लिङ्गस्य प्रामाण्यमलौकिके च शब्दस्य तथा यज्ञादिषु मन्त्रब्राह्मणस्य लोकवृत्ते इतिहासपुराणस्य लोकव्यवहारे च धर्मशास्त्रस्य प्रामाण्यमित्यादि सिद्धम् , तथा चेतिहासादीनामपि प्रामाण्यात् तत्रोक्तं चातुराश्रम्यं प्रामाणिकमेवेति न संन्यासाश्रमाभावोऽपवर्गाभावश्व सिध्यतीत्यर्थः // 62 // द्वितीयमपवर्गाभावसाधकहेतुमनुवदति- यत्पुनरिति, यत्पुनः क्लेशानुबन्धाऽविच्छेदादपवर्गाभाव उक्तस्तत्र सूत्रेण बाधकमाहेत्यर्थः / सुषुप्तस्येति- सुषुप्तस्य स्वप्नादर्शने= सुषुप्तिकाले प्रवृत्त्यभावात् क्लेशाभावः स्पष्ट एव तथा च यथा सुषुप्तिकाले क्लेशानुबन्धविच्छेदो भवति तथैषणाभ्यो व्युत्थितस्यापि क्लेशानुबन्धविच्छेदः संभवतीति तेनापवर्गसाधनानुष्ठानेनापवर्गः सिद्ध इति सूत्रार्थः / व्याचष्टे- यथेति, सुखानुबन्धविच्छेदप्रतिपादनेनाऽसुखात्मकत्वमपवर्गस्याभिप्रेतीति न्यायदर्शने स्पष्टमेव / प्रकृतमाह- तथेति, क्लेशानुबन्धविच्छेदः संभवतीत्यर्थः / प्रकृतदृष्टान्तस्याभिप्रायमाह- एतदिति, एतत्- सुषुप्तिकालिकम् ,