________________ 384 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेप्रव्रजेत् " इति श्रूयते तेन विजानीमः- प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति, एवं च ब्राह्मणानि- " सोऽन्यद् व्रतमुपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीमितिहोवाच- प्रव्रजिष्यन् वा अरे अहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्या सहान्तं करवाणीति. अथाप्युक्तानुशासनासि मैत्रेयि एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवत्राज" इति // 61 // पात्रचयान्तानुपपत्तेश्च फलाभावः // 62 // जरामर्ये च कर्मण्यऽविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते तत्रैषणाव्युत्थानं न श्रूयेत- “एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोयमात्माऽयं लोक इति. ते ह स्म पुत्रैषणायाश्च वित्तैषणायाच लोकैपणायाश्च व्युत्थायाऽथ भिक्षाचर्य चरन्ति" इति, एषणाभ्यश्च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाऽविशेषेण कर्तुः प्रयोजकं फलं भवतीति / चातुराश्रम्यविधानाचेतिहासपुराणधर्मशास्त्रेष्वैकाश्रम्यानुपपत्तिः / दत्वा ब्राह्मणः= ब्रह्मनिष्ठः= मोक्षकामः प्रव्रजेत्= संन्यस्येत् / स्वाभिप्रायमाह- तेनेति, पुत्रैषणावित्तैपणालोकैषणाभ्यो व्युत्थितस्य= निवृत्तस्य, एषणा= इच्छा, लोकैषणा= कीर्तीच्छा, फलार्थित्वे निवृत्तेऽग्नीनामात्मनि समारोपणविधानात् फलार्थिनं प्रत्येव कर्मणां जरामर्यवाद इति सिद्धमित्यर्थः / एवं चउक्तार्थकानि, उक्ते ब्राह्मणवाक्यमुदाहरति-स इति, अन्यद्बतम्= संन्यासाश्रमम् , उपाकरिष्यमाणःआचरिष्यमाणः, स्वभायी मैत्रेयीम् , ज्येष्ठभार्यया कात्यायन्या सहान्तम्= सहवासम् , एतावत्उपनिषदि पूर्वोक्तम् / तद्नेन संन्यासाश्रमस्तेन तत्साध्योपवर्गश्च सिद्ध इत्यर्थः // 61 // __ नन्वग्नीनामात्मनि समारोपणेन कर्मणामपवर्गप्रतिबन्धकत्वाभावेपि पूर्वकृतकर्मणां फलं स्वर्गादिकमपवर्गप्रतिबन्धकं भविष्यतीत्याशङ्कयाह- पात्रेति, अग्निहोत्रादिकर्मपरायणस्य मृतस्य शरीरे यज्ञपात्राणां चयनं भवति श्रूयते हि- " स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति" इति सा चान्त्येष्टिः पूर्वकृतकर्मणामङ्गभूतेति तस्यां कृतायामेव स्वर्गादिफलं भवति- साङ्गस्यैव फलप्रदत्वनियमात् तत्र संन्यासाश्रमप्रविष्टस्य तादृशपात्रचयनं न भवतीति पात्रचयान्तानाम्= पात्रचयनान्तानां कर्मणामनुपपत्तेः= असंभवात्= अभावात् पूर्वकृतकर्मणां फलाभाव इति न स्वर्गादिकं फलमपि संन्यासिनोऽपवर्गप्रतिबन्धकमिति सूत्रार्थः, प्रारब्धं कर्म च न्यायमते एकजन्मभोग्यं भवतीति भोगेन क्षीणमिति विज्ञेयम् / व्याचष्टे- जरामर्ये इति, जरामर्यपर्यन्तं क्रियमाणं कर्म जरामयै तस्मिन् अविशेषेण= सर्वेषाम् , यदि सर्वेषामेव मरणपर्यन्तं कर्म श्रुतिविहितं स्यात्तदा एषणापरित्यागः= संन्यासो न श्रूयेत श्रूयते च संन्यासोपीति न मरणपर्यन्तं सर्व प्रति कर्मविधानं किं तु फलार्थिनं प्रत्येवेत्यर्थः / एषणापरित्यागबोधकश्रुतिमाह- एतद्धेति, अयमात्मा आत्मज्ञानम् , अयं लोकः= मोक्षपदम् , भिक्षाचर्यम्= प्रव्रज्याम् / स्ववक्तव्यमाह- एषणाभ्य इति, एषणाभ्यो व्युत्थितस्य= संन्यासिनोऽग्नीनामभावात् पात्रचयनं न संभवतीति पात्रचयनान्तानां कर्मणामभावः प्राप्तस्तेन अविशेषेण= सामान्यरूपेण फलं कर्तुः प्रयोजकम्= कर्तृमात्रस्य= पुरुषमात्रस्य प्रयोजक= प्रवर्तकं कर्मणि न भवतीत्यर्थः, अत्र- "तस्मान्नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति- फलाभाव इत्यस्य सूत्रावयवस्याऽविशेषेण फलस्य कर्तृप्रयोजकत्वाभाव इत्यर्थः" इति तात्पर्यटीका / पूर्वपक्षिणा यदुक्तम्- एको गृहस्थाश्रम एवेति तत्र बाधकमाह- चातुराश्रम्येति, इतिहासादिषु चतुर्णामप्याश्रमाणां विधानादेको गृहस्थाश्रम एवेत्यनुपपन्नम् , संन्यासाश्रमाभावेऽपवर्गसाधनानुष्ठानासंभवादपवर्गाभाव इति प्रकृतेन पूर्वपक्षेण संबन्धः /