________________ अपवर्गविवेचनम् ] न्यायभाष्यम् / 383 काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते" इति कर्मभिः संसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति- " इति तु कामयमानोऽथाऽकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति" इति, तत्र यदुक्तम्- 'ऋणानुबन्धादपवर्गाभावः' इति एतदयुक्तमिति / “ये चत्वारः पथयो देवयानाः" इति च चातुराश्रम्यश्रुतेरैकाश्रम्यानुपपत्तिः। फलार्थिनश्चेदं ब्राह्मणम्- " जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च " इति // 6 // कथम् ? समारोपणादात्मन्यप्रतिषेधः // 61 // "प्राजापत्यामिष्टिं निरुप्य तस्यां सर्ववेदसं हुत्वा आत्मन्यग्नीन् समारोप्य ब्राह्मणः अथो इति, काममयः= कामनाप्रधानः, पुरुषः= जीवः, सः= पुरुषः, यथाकामः= यादृशकामनाविशिष्टो भवति तथाक्रतुः= स्वकामनाविषयकसंकल्पवान् भवति, यथाक्रतुः= यादृशसंकल्पवान् भवति तत्= स्वसंकल्पानुकूलं कर्म कुरुते यत्= यादृशं कर्म कुरुते तत्= तादृशमेव फलमभिसंपद्यते= लभते इत्यर्थस्तथा च कर्मणां क्षयित्वात् कर्मभिः क्षयिफलस्य प्राप्तिर्भवतीत्याह- इतिकर्मभिरिति, संसरणम्= संसारप्राप्तिम् / अपवर्गबोधकवाक्यमाह- इति तु इति, इति= पूर्वोक्तः पुरुषः / अपवर्गाधिकारिणमाह- अका. मयमान इति, आत्मकामः= आत्मज्ञानवान्. अपवर्गकाम इति वार्थः, अपवर्गाधिकारिणः स्वर्गादिलोकाप्राप्तेः प्राणा नोक्रामन्ति किं तु इहैव वायौ लीना भवन्ति अपवर्गाधिकारी तु ब्रह्मभूतः= ब्रह्मभावनायुक्तो ब्रह्म प्राप्नोतीत्यर्थः / उपसंहरति- तत्रेति, तत्र= उक्तरीत्यापवर्गबोधकवेदवाक्यानां सत्त्वेपि ऋणानुबन्धादपवर्गाभावो य उक्त स नोपपद्यते इत्यन्वयः / आश्रमचतुष्टयबोधकवाक्यमाहये इति, पथयः= आश्रमाः, देवयानाः= देवलोकप्रापकाः / स्ववक्तव्यमाह- चातुराश्रम्यश्रुतेरिति, चातुराश्रम्यश्रुतेः= उक्तसंन्यासाद्याश्रमचतुष्टयश्रुतिसत्त्वात् ऐकाश्रम्यस्य= गृहस्थाश्रममावस्यानुपपत्तिरित्यर्थः / जरामर्यवादबोधकवाक्याधिकारिणमाह- फलार्थिन इति, फलार्थिना पुरुषेण जरापर्यन्तं मरणपर्यन्तं वा कर्म कर्तव्यमित्येव श्रुत्या प्रतिपाद्यते फलेच्छारहितेन च प्रव्रज्याश्रमेऽपवर्गसाधनानुष्ठानं कर्तव्यमिति वेदेन प्रतिपादनादपर्गाभावो न सिध्यतीत्यर्थः / अन्यत्सर्व स्पष्टार्थमेव भाष्यम् / अत्र" परेण नाकमिति. नाकमित्यविद्यामुपलक्षयति अविद्यातः परमित्यर्थः, निहितं गुहायामिति लौकिकप्रमाणागोचरत्वं प्रदर्शयति, तमसः परस्तादिति अविद्या तमस्तस्य परस्तात् , आदित्यवर्णमिति नित्यप्रकाशमित्यर्थः, तदनेनेश्वरप्रणिधानस्यापवर्गोपायत्वमुक्तम् , यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः, तप एवेति वानप्रस्थाश्रमः, ब्रह्मचारीति ब्रह्मचर्याश्रमः, चतुर्थाश्रममाह- ब्रह्मसंस्थ इति, तथाक्रतुरिति क्रतुः संकल्पः" इति तात्पर्यटीका / " फलार्थिनश्चेदम्" इत्यादिभाष्यमग्रिमसूत्रस्यावतरणमपि संभवतीति विभाव्यम् // 60 // ___ फलार्थिनः कर्मणां जरामर्यवाद इत्युक्ते हेतुं जिज्ञासते- कथमिति / सूत्रेण हेतुमाह- समारोपणादिति, कर्माश्रयभूतानामाहवनीयाद्यनीनामात्मनि समारोपणात् समारोपणविधानात् संन्यासा• श्रमप्रतिषेधो न संभवति- अग्नीनामात्मनि समारोपणस्य संन्यासाश्रमग्रहणार्थमेव विधानात् तेन संन्यासाश्रमे सिद्धेऽपवर्गोपि सिद्धः- संन्यासाश्रमस्यापवर्गार्थत्वात् तथा च कर्मणां जरामर्यवादः फलार्थिनं प्रत्येवेति सिद्धमिति सूत्रार्थः। व्याचक्षाणोऽग्नीनामात्मनि समारोपणविधायकवाक्यमुदाहरतिप्राजापत्त्यामिति, निरुप्य= आरभ्य, सर्ववेदसम्= सर्वस्वदक्षिणं यागम् , तस्मिन् यागे सर्वस्वं ब्राह्मणेभ्यो