________________ 382 प्रसन्नपदापरिभूषितम- [4 अध्याये. १आह्निके अधिकाराच्च विधानं विद्यान्तरवत् // ___ यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद एवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति / ऋग्ब्राह्मणं चापवर्गाभिधाय्यऽभिधीयते= ऋचश्च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति. ऋचश्च तावत्- “कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः, अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः," " न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" " परेण नाकं निहितं गुहायां विभ्राजते तद् यतयो विशन्ति " " वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात्. तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " / अथ ब्राह्मणानि-"त्रयो धर्मस्कन्धा:- यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याsचायेंकुलवासीति तृतीयोऽत्यन्तमात्मानमाचायेकुलेऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति" "एतमेव प्रवाजिनो लोकमभीप्सन्तः प्रव्रजन्तीति" "अथो खल्लाहु:व्याचष्टे- न प्रतिषेधोपीति / उक्तमेव विशदयति- न सन्तीति, इति= इत्येवम् , प्रतिषेधस्य= गृहस्थातिरिक्ताश्रमप्रतिषेधस्याश्रवणात् यदुक्तं संन्यासाश्रमो नास्तीति तदेतदयुक्तमिति नोक्तरीत्याप्यपवर्गाभावः संभवतीत्यर्थः // गृहस्थाश्रमविधानेनाप्याश्रमान्तराणामभावो न संभवतीत्याह- अधिकारादिति, विद्यान्तरवत्यथाग्निहोत्रविधानेन ज्योतिष्टोमादीनामभावो न सिध्यति यथा च वेदान्तशास्त्रप्रतिपादनेन योगादिशास्त्राणामभावो न सिध्यति तथा गृहस्थाधिकारयोग्यस्य पुरुषस्य गृहस्थाधिकाराद् गृहस्थाश्रमविधानमस्तीति न तेन विधानेन संन्यासाद्याश्रमाणामभावः संभवतीत्यर्थः / स्वयं व्याचष्टे- यथेति, शास्त्रान्तराणि= योगादिशास्त्राणि स्वे स्वेऽधिकारे स्वस्वविषयाणां सत्त्वादेव विधायकानि भवन्ति न तु अर्थान्तराभावात् शास्त्रान्तरविषयस्याभावात् , प्रकृतमाह- एवमिति, इदं ब्राह्मणम्= "जायमानो ह वै” इति ब्राह्मणवाक्यम् तच्च गृहस्थशास्त्रम्- गृहस्थकर्मबोधकत्वात् , स्वेधिकारे= स्वविषयस्य गृहस्थाश्रमस्य गृहस्थानुष्ठेयस्य वा / अपवर्गे श्रुतिं प्रमाणयति- ऋगिति, अभिधीयते= प्रदर्श्यते / उक्तं व्याचष्टे- ऋचश्चेति, ऋचश्च ब्राह्मणानि च ऋगब्राह्मणम् / ऋचमाह- कर्मभिरिति, मृत्युम्= संसारम् , निषेदुः= प्रापुः / प्रजावन्तः= प्रजेच्छावन्तो द्रव्येच्छावन्तश्च ऋषय इत्यन्वयः / अपवर्गमाह- अथेति, मनीषिणः तत्त्वज्ञानवन्तः, कर्मभ्यः परम्= अप्राप्यम्. अमृतत्वम् = अपवर्गम्. आनशुः= प्रापुः / उक्तार्थे ऋगन्तरमाह- न कर्मणेति / ऋगन्तरमाह- परेणेति, परेण नाकम्= स्वर्गात्= परे गुहायां निहितं मोक्षपदं विभ्राजते तत्र यतयो गच्छन्तीत्यर्थः / श्रुत्यन्तरमाह- वेदाहेति, तमसः परस्तात्= अविद्यातः प्रकृतेर्वा परम् / तम्= उक्तपरमात्मानमेव विदित्वाऽतिमृत्युमेति= मृत्युम्= संसारमत्येति= मोक्षपदं प्राप्नोति, मोक्षप्राप्तेः साधनान्तराभावमाह- नान्य इति, अयनाय= मोक्षपदप्राप्तये अन्यः= परमात्मज्ञानातिरिक्तः पन्था= उपायो नास्तीत्यर्थः / ब्राह्मणवाक्यान्याह- त्रय इति, त्रयः= ब्रह्मचर्यगृहस्थवानप्रस्था एते त्रय आश्रमा धर्मस्कन्धाः= धर्माश्रयाः= धर्मप्रधानाः / आश्रमत्रयमाह- यज्ञ इत्यादिना, यज्ञादिपरो गृहस्थाश्रमः प्रथमः प्राथम्यं चास्य सर्वाश्रमाधारत्वात सर्वाश्रमिजीवकत्वाञ्चोक्तम्- वस्तुतो ब्रह्मचर्यस्य प्राथम्यादिति विज्ञेयम् / द्वितीयस्तप एवेति वानप्रस्थाश्रम उक्तः, तृतीयो ब्रह्मचारी तस्य द्वौ भेदौ- सामान्यब्रह्मचारी नैष्ठिकब्रह्मचारी चेति / अध्ययनशब्दश्चाधीतवेदावृत्तिपरः / आश्रमत्रयमुपसंहरति- सर्वे इति, एते सर्वे ब्रह्मचारिगृहस्थवानप्रस्थाः पुण्यलोकाः= स्वर्गाधिकारिणो भवन्ति / चतुर्थाश्रममाह- ब्रह्मसंस्थ इति, ब्रह्मसंस्थः= ब्रह्मोपासको मोक्षं प्राप्नोतीत्यर्थः / प्रव्रज्याबोधकवाक्यमाहएतमिति, प्रवाजिनः संन्यासिनः, एतं लोकम्= मोक्षपदम् / कर्मभिः संसारप्राप्तिबोधकवाक्यमाह