________________ अपवर्गविवेचनम् ] न्यायभाष्यम्। 381 ____ अथापि विहितं वाऽनूयेत ? कामाद्वार्थः परिकल्प्येत ? विहितानुवचनं न्याय्यमिति, ऋणवानिवाऽस्वतन्त्रो गृहस्थः कर्मसु प्रवर्तते इत्युपपन्नं वाक्यस्य सामर्थ्यम् / फलस्य हि साधनानि प्रयत्नविषयो न फलं. तानि संपन्नानि फलाय कल्पन्ते / विहितं च जायमानं विधीयते च जायमानं तेन यः संबध्यते सोयं जायमान इति / प्रत्यक्षविधानाभावादितिचेत् ? न-प्रतिषेधस्यापि प्रत्यक्षविधानाभावादिति / प्रत्यक्षतो विधीयते गार्हस्थ्यं ब्राह्मणेन यदि चाश्रमान्तरमभविष्यत् तदपि व्यधास्यत् प्रत्यक्षतः. प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति, न-प्रतिषेधस्यापि प्रत्यक्षविधानाभावात् न प्रतिषेधोपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते- 'न सन्त्याश्रमान्तराणि एक एव गृहस्थाश्रमः' इति. प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्तमेतदिति // तुर्थोभागः संन्यासाश्रमयुक्तो ग्राह्य इत्यन्वयः / सः= अन्तेवासी, ब्रह्मणा= वेदेन= वेदाध्यापनेन, क्षीरहोता= अध्वर्युस्तथा च कर्कभाष्यम्- " क्षीरहोता प्रत्यस्तमितावयवार्थवृत्तितयाऽध्वर्युरुच्यते " इति, सः= क्षीरहोता= अध्वर्युः, धनेन= दक्षिणया। "जायमानः” इति वाक्यं किं कर्मानुष्ठानविधायकमस्ति किं वा विहितस्यानुवादकमस्तीति विचारमारभते- अथेति, " यावज्जीवमग्निहोत्रं जुहुयात्" इत्यादिवाक्यैर्विहितं कर्मानुष्ठानम् " जायमानः” इतिवाक्येनाऽनूयेत= अनूद्यते किं वा कामात्= स्वेच्छयाऽत्रार्थः= विधायकत्वं परिकल्प्येत ? तत्र कः पक्षः श्रेष्ठ इति जिज्ञासा / अत्र श्रेष्ठपक्षमाह- विहितेति, “जायमानः" इतिवाक्ये विधिविभक्तरश्रवणाद् विहितस्यानुवचनम् = अनुवाद एव युक्तस्तथा च विधायकत्वाभावात् जरामर्यवादापत्तेरभावादपवर्गसाधनानुष्ठानेनापवर्गोपपत्तिः सिद्धेत्यर्थः। विधायकत्वाभावेपि वाक्यस्य सार्थक्यमाहऋणवानिति, कर्मपरित्यागे गृहस्थस्य स्वातन्त्र्यं नास्ति- कामनानिवृत्त्यनन्तरमेव कर्मपरित्यागसंभवादित्यस्वातन्त्र्यबोधनेनैव "जायमानः" इति वाक्यस्य सामर्थ्यम्= सार्थक्यमुपपन्नमिति न वैयर्थ्यापत्तिरपीत्यर्थः / ननु फलकामना बालस्यापि संभवतीति बालस्याप्यधिकारसंभवात् जायमानशब्देन बालग्रहणं किं न स्यादित्याशङ्कयाह- फलस्येति, बालस्य फलकामनासत्त्वेपि फलसाधनानुष्ठानशक्तेरभावादधिकारो न संभवतीति नात्र जायमानशब्देन बालग्रहणमुपपद्यते इत्यर्थः, साधनानि= यागादीनि प्रत्यत्नविषयः= प्रयत्नसाध्यानि भवन्ति न च तत्र बालसामर्थ्यम् / तानि= साधनानि, संपन्नानि= सिद्धानि, फलाय कल्पन्ते= फलोत्पादकानि भवन्ति तस्मान्नात्र जायमानशब्दार्थः स्तनन्धयः / न तु फलं प्रयत्नविषयः, अत्र- "साधने तु प्रयत्नव्यापारो दृष्टो न फले यथा पाकसाधनेषु काष्ठादिषु न पाके" इति वार्तिकम् / अत्र जायमानशब्देन गृहस्थग्रहणे उपपत्तिमाह- विहितमिति, “जायमानो ह वै" इति श्रुत्यपेक्षया पूर्वत्रापि तत्प्रकरणे जायमानम्= जायमानशब्दार्थो विहितः उत्तरत्र च विधीयते तादृशपूर्वोत्तरवाक्ययोश्च जायमानशब्देन गृहस्थ एव ग्रहीतुं शक्यते इति तत्र स्पष्टं तथा च तेन- तादृशपूर्वोत्तरवाक्योक्तजायमानेन यो गृहस्थोऽभेदसंबन्धेन संबध्यते स एवात्र जायमानशब्देन गृहस्थो ग्राह्य इत्यर्थः प्रतिभाति, तथा च पूर्वोत्तरवाक्ययोर्जायमानशब्दस्य गृहस्थपरत्वेन प्रकरणसंदंशाभ्यामत्रापि जायमानशब्दो गृहस्थपर एव युक्तो न तु स्तनन्धयपर इत्याशयः, / अत्र- "विहितं च जायमानमिति- ऋणवाक्यात् प्राग् विधीयते च ऋणवाक्यादूर्ध्वमित्यर्थः" इति तात्पर्यटीका // पूर्वत्र या प्रव्रज्योक्ता तत्राशङ्कते- प्रत्यक्षेति, अपवर्गसाधनानुष्ठानयोग्यः संन्यासाश्रमो नास्तितस्य प्रत्यक्षवचनेन विधानाभावादित्यपवर्गाभावः प्राप्त इतिचेत् ? न-संन्यासाश्रमप्रतिषेधस्यापि प्रत्यक्षवचनेन विधानाभावादित्यर्थः / स्वयं व्याचष्टे- प्रत्यक्षत इति / संन्यासाश्रमस्याभावमाह- यदीति, तत्= गृहस्थातिरिक्तमाश्रमान्तरम् / निराकरोति-नेति / निषेधहेतुमाह- प्रतिषेधस्येति / हेतुवाक्यं