________________ 380 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति ?, न खलु वै नर्तकोन्धेषु प्रवर्तते न गायनो बधिरेष्विति / उपदिष्टार्थविज्ञानं चोपदेशविषयः= यश्चोपदिष्टमर्थ विजानाति तं प्रत्युपदेशः क्रियते न चैतदस्ति जायमानकुमारके इति / गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति- यच्च मन्त्रब्राह्मणं कर्माभिवदति तत् पत्नीसंबन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नं तस्माद् गृहस्थोयं जायमानोऽभिधीयते इति // अर्थित्वस्य चाविपरिणामे जरामर्यवादोपर्पत्तिः / यावच्चास्य फलेनार्थित्वं न विपरिणमते= न निवर्तते तावदनेन कर्मानुष्ठेयमित्युपपद्यते जरामर्यवादस्तं प्रतीति. " जरया हवा" इत्यायुषस्तुरीयस्य= चतुर्थस्य प्रव्रज्यायुक्तस्य वचनम्- “जरया ह वा एष एतस्माद्विमुच्यते " इति. आयुषस्तुरीयम्= चतुर्थ प्रव्रज्यायुक्तं जरेत्युच्यते- तत्र हि प्रव्रज्या विधीयते, अत्यन्तजरासंयोगे " जरया हवा" इत्यनर्थकम् / 'अशक्तो विमुच्यते' इत्येतदपि नोपपद्यते- स्वयमशक्तस्य बाह्यां शक्तिमाह- " अन्तेवासी वा जुहुयात् ब्रह्मणा स परिक्रीतः. क्षीरहोता वा जुहुयाद् धनेन स परिक्रीतः" इति / तत्रेति / प्रकृतमाह- कुत इति, ऋषिः= परमेश्वरः, उपपन्नानवद्यवादी= उपपन्ननिर्दोषवक्ता उपदेशार्थेन= उपदेशाय प्रयुक्तः= प्रवृत्तः कथं स्तनन्धयस्य कर्म उपदिशति= विदध्यादित्यर्थः, अत्र दृष्टान्तमाह- नेति, निष्फलत्वादितिशेषः / उपदेशफलमाह- उपदिष्टेति, उपदेशविषयः= उपदेशफलम् / एतद्विशदयतियश्चेति / एतत्= उपदिष्टार्थविज्ञानं कुमारे नास्तिन संभवति / उक्तजायमानशब्देन गृहस्थग्रहणे उपपत्तिमाह- गार्हस्थ्येति, मन्त्राश्च वेदभागा ब्राह्मणानि चेति मन्त्रब्राह्मणं गार्हस्थ्यमेव लिङ्गं साधकं यस्य तादृशं यागादिकर्म अभिवदति= विदधाति न तु स्तनन्धयकर्तृकमित्यत्र जायमानशब्देन गृहस्थ एव प्राद्य इत्यर्थः / एतद् व्याचष्टे- यच्चेति, गार्हस्थ्यलिङ्गेनोपपन्नम्= गृहस्थसाध्यम्- सपत्नीकस्यैवाधिकारात् पन्या अपि किंचित् कर्तव्यत्वात् / उपसंहरति- तस्मादिति, तस्मादत्र जायमानशब्देन गृहस्थो जायमानो गृह्यते न तु स्तनन्धय इत्यन्वयः / अत्र- " गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन् कर्मणि तत् तथोक्तम्" इति तात्पर्यटीका // उक्तजरामर्यवादस्योपपत्तिमाह- अर्थित्वेति, अर्थित्वस्य= कर्मफलकामनाया अविपरिणामे= अनिवृत्तौ जरापर्यन्तं वा मरणपर्यन्तं वा कर्म कर्तव्यमित्येवमुदाहृतश्रुत्युक्तस्य जरामर्यवादस्योपपत्तिरस्ति तथा च कामनाया निवृत्ती मोक्षसाधनानुष्ठानेन मोक्षोपि संभवतीति न मोक्षाभावापत्तिरित्यर्थः / स्वयं व्याचष्टे-यावदिति, फलेनार्थित्वम्= फलार्थित्वम् , तम्= फलार्थिनं प्रति जरामर्यवाद उपपद्यते इत्यन्वयः। जराशब्दग्राह्यमाह- जरयेति, चतुर्थस्य भागस्येत्यर्थः, जराशब्देनात्रायुषश्चतुर्थों भागः प्रव्रज्यायुक्तः= संन्यासाश्रमयुक्तो ग्राह्य इत्यर्थः / उक्तमेव पुनराह- आयुष इति, चतुर्थ खण्डम् / जराशब्देन संन्यासाश्रमयुक्तचतुर्थभागस्य ग्रहणे हेतुमाह- तत्रेति, तत्र आयुषश्चतुर्थभागे, प्रव्रज्या= संन्यासः / विपक्षे बाधकमाह- अत्यन्तेति, अत्र जराशब्देनात्यन्तजराग्रहणेऽत्यन्तजरासंयोगे मृत्युनैव कर्मभ्यो निवृत्तिः संभवतीति " जरया ह एष तस्माद्विमुच्यते " इत्यनर्थकमेव स्यादिति जराशब्देनात्रायुषश्चतुर्थो भागः प्रव्रज्यायुक्तो ग्राह्य इत्यर्थः / अत्र- "प्रायेण पञ्चसप्ततिवर्षेष्वतिवाहितेषु अर्थतृष्णा तनूभवति. अत्यन्तसंयोगे तु " जरया ह वा " इत्यनर्थकम्- " मृत्युना वा" इत्यनेनैव सिद्धेरितिशेषः" इति तात्पर्यटीका / जराशब्देनाशक्तग्रहणमपि नोपपद्यते येन शक्तिपर्यन्तं कर्मानुबन्धः स्यादशक्तेन चापवर्गसाधनाऽनुष्ठानाऽनुपपत्त्याऽपवर्गाभावः स्यादित्याह- अशक्त इति / उक्त हेतुमाह- स्वयमिति, श्रुत्या बाह्यशक्तिमाहअन्तेवासीति, स्वयमशक्तोऽन्तेवासिद्वारा वा क्षीरहोतद्वारा वा जुहुयादितिश्रुत्या विधानादशक्तस्यापि कर्मभ्यो विमुक्तिर्न संभवतीति नात्र जराशब्देनाशक्तस्यापि ग्रहणमुपपद्यते इति जराशब्देनात्रायुषश्च.