________________ न्यायभाष्यम्। अपवर्गविवेचनम् ] 379 मनुवादः- ऋणैरिव ऋणैरिति, प्रयुक्तोपमं चैतद् यथा- " अग्निर्माणवकः" इति= अन्यत्र दृष्टश्चायमणशब्द इह प्रयुज्यते यथाग्निशब्दो माणवके / कथं गुणशब्देनानुवादः ?, निन्दाप्रशंसोपपत्तेः= कर्मलोपे ऋणीव ऋणाऽदानाद् निन्द्यते. कर्मानुष्ठाने च ऋणीव ऋणदानाद् प्रशस्यते स एवोपमार्थ इति / "जायमानः" इति गुणशब्द:- विपर्ययेऽनधिकारात= "जायमानो ह वै ब्राह्मणः" इति च शब्दो गृहस्थः संपद्यमानः, जायमान इति= यदायं गृहस्थो जायते तदा कर्मभिरधिक्रियते- मातृतो जायमानस्यानधिकारात्= यदा तु मातृतो जायते कुमारो न तदा कर्मभिरधिक्रियते- अर्थिनः शक्तस्य चाधिकारात्= अर्थिनः कर्मभिरधिकारः- कर्मविधौ कामसंयोगस्मृतेः- “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्येवमादि, शक्तस्य च प्रवृत्तिसंभवात् शक्तस्य कर्मभिरधिकार:- प्रवृत्तिसंभवात्= शक्तः खलु विहिते कर्मणि प्रवर्तते नेतर इति / उभयाभावस्तु प्रधानशब्दार्थे / मातृतो जायमाने कुमारे उभयम्= अर्थिता शक्तिश्च न भवतीति, न भिद्यते लौकिकाद् वाक्याद् वैदिकं वाक्यम्- प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन, तत्र लौकिकस्तावदपरीक्षकोपि न जातमात्रं कुमारमेवं ब्रूयात्- 'अधीष्व यजस्व ब्रह्मचर्य चर' इति. कुत एष ऋषिरुपपन्नाऽनयागादौ नोपपद्यते इति न यागादौ ऋणशब्दः प्रधानमित्याह- न चेति / प्राधान्यानुपपत्तेश्च गौणोयं शब्दोऽनुवादक इत्याह- प्रधानेति, गौणत्वस्वरूपमाह- ऋणैरिवेति / गौणत्वकारणमाह- प्रयुक्तेति, उपमया प्रयुक्तमिति प्रयुक्तोपमम्= सादृश्यमूलकम् ऋणपदम् / उदाहरति- यथेति / उक्तं व्याचष्टेअन्यत्रेति, यथाग्निशब्दो वह्निवाचको माणवके प्रयुज्यते इति गौणः तथाऽन्यत्र प्रतिदेयपदार्थे दृष्टः= गृहीतशक्तिकोयमृणशब्द इह= यागादौ ऋणसादृश्यात् प्रयुज्यते इति गौणः / गौणशब्दप्रयोगहेतुं जिज्ञासते- कर्थमिति / हेतुमाह- निन्देति / हेतुवाक्यं व्याचष्टे- कर्मेति, यथा ऋणी ऋणाऽदानाद् निन्द्यते तथा कर्मलोपे= कर्माकरणे गृहस्थो निन्द्यते कर्मानुष्ठाने च प्रशस्यते अयमेवात्र सादृश्यपदार्थ इति यागादीनां ऋणेन सादृश्यबोधनार्थमेव गौणेन ऋणशब्देनानुवादः- अवश्यानुष्ठेयत्वादित्यन्वयः / ___ उक्तश्रुतिघटकजायमानशब्दस्य गौणत्वमुपपादयति- जायमान इति, उक्ते हेतुमाह- विपर्ययेति, विपर्यये= मुख्यार्थपरत्वे यदि जायमानशब्देन जन्मकालिको बालो गृह्येत तदा तस्य न कर्मस्वधिकारः संभवति- कर्मानुष्ठानसामथ्योदेरभावादिति यागादिपक्षे जायमानशब्देन गृहस्थः संपद्यमानो ग्राह्यःतस्य कर्मस्वधिकारसंभवादित्यर्थः, उक्तं व्याचष्टे- यदायमिति, कर्मभिः= कर्मसु / मुख्यार्थपरत्वे बाधकमाह- मातृत इति, एतदपि व्याचष्टे- यदेति / जातमात्रस्यानधिकारे हेतुमाह- अर्थिन इति, एतदपि विशदयति- अर्थिन इति / उक्ते हेतुमाह- कर्मेति, कामसंयोगस्मृतेः= " स्वर्गकामः" इत्यादिरूपेण फलकामनायाः श्रवणात् / अधिकारिणः शक्तत्वविशेषणमाह- शक्तस्येति / एतद् व्याचष्टे- शक्तस्येति / हेतुमाह- प्रवृत्तीति / पुनर्व्याचष्टे- शक्त इति, नेतरः= न बालोऽशक्तः कामनारहितश्च ग्राह्य इति जायमानशब्दो गृहस्थाश्रमप्राप्तपर इत्यन्वयः // जायमानशब्दस्योक्तस्य मुख्यार्थग्रहणे बाधकमाह- उभयेति, प्रधाने जायमानशब्दस्यार्थे= जात. मात्रकुमारे अर्थित्वशक्त्योरुभयोरप्यभाव इति न सोऽत्र जायमानशब्देन ग्राह्य इत्यर्थः / स्वयं व्याचष्टेमातृत इति / बालार्थ कर्मविधानासंभवमुपपादयति-न भिद्यते इति / वेदवाक्यानां लौकिकवाक्यसादृश्ये हेतुमाह- प्रेक्षेति, प्रेक्षापूर्वकारी= विचारपूर्वकवक्ता परमेश्वरस्तत्प्रणीतत्वेन / स्वाभिप्रायमाह