________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेऋणानुबन्धानास्त्यपवर्गः= " जायमानो ह वै ब्राह्मणस्त्रिभिणैर्ऋणवान् जायते- ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजाया पितृभ्यः" इति ऋणानि. तेषामनुबन्धः= स्वकर्मभिः संबन्धः- कर्मसंबन्धवचनात्- " जरामयं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ चेति= जरया ह एष तस्मात् सत्राद्विमुच्यते मृत्युना ह वा" इति ऋणानुबन्धादपवर्गानुष्ठानकालो नास्तीत्यऽपवर्गाभावः / क्लेशानुबन्धानास्त्यपवर्ग:= क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते / प्रवृत्त्यनुवन्धानास्त्यपवर्गः= जन्मप्रभृत्यऽयं यावत्मायणं वाग्बुद्धिशरीरारम्भेणाऽविमुक्तो गृह्यते तत्र यदुक्तम्- “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1-1-2" इति तदनुपपन्नमिति // 59 // अत्राभिधीयते- यत्तावत् 'ऋणानुबन्धात् ' इति ?. ऋणैरिव ऋणैरितिप्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादः-निन्दाप्रशंसोपपत्तेः // 60 // " ऋणैः" इति नायं प्रधानशब्दः, यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानमृणशब्दः. न चैतदिहोपपद्यते प्रधानशब्दानुपपत्तेर्गुणशब्देनाय व्याचष्टे- ऋणेति, ऋणबोधकं श्रुतिवाक्यमाह-जायमान इति, श्रुती ऋणत्रयमाह- ब्रह्मचर्यणेति, ब्रह्मचर्य ऋषीणामृणम् . यज्ञो देवानामृणम् , प्रजा पितॄणामृणं तत् त्रयमपि संपाद्यमित्यर्थः / ऋणानुबन्धमाह- तेषामिति, तेषाम्= उक्तानामृणानाम् , स्वकर्मभिः संबन्धः= संपाद्यत्वम्= स्वकार्यत्वम् / अत्र हेतुमाह- कर्मेति, कर्मसंबन्धवचनात्= अवश्यकर्तव्यत्ववचनात् / वचनमाह- जरेति / जरामर्यपदार्थ श्रुतिः स्वयमेवाह- जरयेति, अग्निहोत्रादिनित्यनैमित्तिककर्मभ्यो जरया वा मृत्युना वा विमुच्यते इति तत्कर्म जरामर्यम् / पर्यवसितमाह- ऋणानुबन्धादिति, अपवर्गानुष्ठानकालः= अपवर्गसाधनानुष्ठानकालः, अपवर्गसाधनं च तत्त्वज्ञानमुक्तमेवेत्यन्वयः / द्वितीयहेतुं व्याचष्टे-क्लेशेति, "अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः” इति क्लेशास्तद्युक्तस्यापवर्गों न संभवति- क्लेशानां संसारहेतुत्वात् क्लेशनिवृत्तिश्चास्य= जीवस्य न दृश्यते इत्यपवर्गानुपपत्तिरित्यन्वयः / तृतीयहेतुं व्याचष्टे- प्रवृत्तीति, जन्मप्रभृति= जन्मारभ्य, यावत्प्रायणम्= मरणपर्यन्तम्. प्रवृत्तिमाह- वागिति, तदनुबन्धमाह- अविमुक्त इति, वागबुद्धिशरीराणां प्रवृत्त्या= कर्मणा युक्त एव जीवो भवतीति अपवर्गाभाव इत्यन्वयः / उपसंहरति- तत्रेति, तत्र= एवमपवर्गाभावे सिद्धे “दुःखजन्म " इत्यादिसूत्रेण यदपवर्गसत्त्वमुक्तं तदनुपपन्नमित्यन्वयः, स्पष्टमन्यत् सर्वम् // 59 // ____ अग्रिमसूत्रमवतारयति- अत्रेति, यत्तावत् ऋणानुबन्धादपवर्गाभाव उक्तस्तत्र ब्रह्मचर्यादिकमवश्यानुष्ठेयत्वाद् ऋणसदृशमेव न तु ऋणमेवेति जायमान इति श्रुतौ " ऋणैः” इत्यस्य ऋणैरिव= ऋणसहशैरित्यर्थ इत्यन्वयः / सिद्धान्ती समाधत्ते- प्रधानेति, प्रधानशब्दानुपपत्तेः= 'जायमानः 'ऋणैः' इतिश्रुत्युक्तयोः शब्दयोः प्राधान्यस्य प्रधानार्थपरत्वस्यानुपपत्तेर्गुणशब्देन= जायमान इति ऋणैरिति च गौणेन शब्देन तदर्थस्यानुवादः क्रियते- यागादीनामननुष्ठाने निन्दाया अनुष्ठाने च प्रशंसाया उपपत्तेः= बोधनार्थम् , यथा ऋणस्याऽदाने निन्दा दाने च प्रशंसा तथा यागादीनामपि अकरणे निन्दा करणे च प्रशंसेति यागादीनां ऋणसादृश्यादेव ऋणशब्देन प्रतिपादनमस्तीति ऋणशब्दो गौणः, जायमानशब्दश्च तत्तदाश्रमग्रहणकालपर इति गौण इति चतुर्थाश्रमे तत्त्वज्ञानेनापवर्गसंभवादित्यपवर्गप्रत्याख्यानं नोपपद्यते इतिसूत्रार्थः, अन्यद् भाष्ये स्पष्टम् / उदाहृतश्रुतिघटकस्य ऋणशब्दस्य गौणत्वं ब्याचष्टे- ऋणैरिति / ऋणशब्दस्य मुख्यार्थमाह- यत्रेति, प्रत्यादेयम्= पुनर्लाह्यं धनम् , प्रतिदेयम्= पुनर्देयम् , तत्र= तादृशधने अस्य= ऋणशब्दस्य दृष्टत्वात् शक्तिग्रहात् तत्र ऋणशब्दः प्रधानम= शक्तः, एतादृशार्थयोगश्च इह=