________________ अपवर्गविवेचनम् ] न्यायभाष्यम्। 377 जराव्याधिप्रायणाऽनिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तमनेकविधं यावद् दुःखमुत्पद्यते तं दुःखविकल्पं सुखमित्यभिमन्यते. सुखाङ्गभूतं दुःखं- न दुःखमनासाद्य शक्यं सुखमवाप्नुम्. तादर्थ्यात् सुखमेवेदमिति सुखसंज्ञोपहतप्रज्ञः- 'जायस्व म्रियस्व संघाव' इति संसारं नातिवर्तते. तदस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनमुपदिश्यते. दुःखानुषङ्गाद् दुःखं जन्मेति न सुखस्याभावात् / यद्येवं कस्मात् 'दुःखं जन्म' इति नोच्यते ?. सोयमेवं वाच्ये यदेवमाह- "दुःखमेव जन्म 55" इति तेन सुखाभावं ज्ञापयतीति, जन्मविनिग्रहार्थीयो वै खल्वयमेवशब्दः, कथम् ? न दुःखं जन्म स्वरूपतः किं तु दुःखोपचारात्. एवं सुखमपीति. एतदऽनेनैव निवर्त्यते न तु दुःखमेव जन्मेति // 58 // दुःखोपदेशानन्तरमपवर्गः स प्रत्याख्यायते ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः // 59 // संरक्तः, घटते= यतते, घटमानस्य= यतमानस्याऽस्य= जीवस्य जन्मादिनाऽनिष्टसंयोगेनेष्टवियोगेन समीहितपदार्थाऽसिद्धया.चानेकविधं यावत्= यद् यद् दुःखमुत्पद्यते तं तं दुःखविकल्पम्= दुःखजातम्दुःखविशेष सुखमित्यभिमन्यते इत्यन्वयः / दुःखस्यावश्यम्भावे हेतुमाह- सुखानेति, दुःखं विना सुखं न लब्धुं शक्यते- दुःखस्य सुखाङ्गत्वादित्यर्थः / सुखसंज्ञोपहतप्रज्ञः= सुखानुभवेन नष्टप्रज्ञः= सुखाभिलाषान्धः तादात्= दुःखस्य सुखार्थत्वाद् दुःखमपि सुखमेवेदमिति मन्यते तेन जायस्व= जायते म्रियस्व= म्रियते संधाव= विविधयोनिषु संधावतीति संसारं नातिवर्तते / उपसंहरति- तदस्या इति, प्रतिपक्षः विरुद्धः, स्पष्टमन्यत् / अत्र- " पुनर्जायते पुनम्रियते जनित्वा म्रियते मृत्वा जायते तदिदं संधावनव्यापारप्रचय इत्यर्थः” इति तात्पर्यटीका / शङ्कते- यदीति, यद्येवम्= उक्तरीत्या यदि सुखमप्यस्ति तदा पञ्चपञ्चाशत्सूत्रे 'दुःखं जन्म' इति वक्तव्यमासीत् न तु "दु:खमेव जन्म " इति, सोयम्= सूत्रकारः एवम्= 'दुःखं जन्म' इति वक्तव्ये यदेवमाह- "दुःखमेव जन्म” इति तेन= एवशब्दप्रयोगेण सुखाभावं ज्ञापयतीति तत्र यत् सुखसत्त्वप्रतिपादनं तत् सिद्धान्तविरुद्धमित्यर्थः / सिद्धान्ती समाधत्ते- जन्मविनिग्रहेति, जन्मविनिग्रहार्थीयः= संसारनिवृत्त्यर्थोयम्- "दुःखमेव जन्म" इत्येवशब्दः- एवशब्देन जन्मनः केवलदुःखमयत्वज्ञानेन संसारे हेयत्वबुद्धिः संभवति नान्यथेति हेतोरेव एवशब्दः प्रयुक्तो न तु सुखाभावज्ञापनार्थमित्यर्थः / अत्र- "विनिग्रहः= विनिवृत्तिः स एवार्थः प्रवर्तते इति जन्मविनिग्रहार्थीयः यथा च मत्वर्थीय इति. एतदुक्तं भवति- जन्म दुःखमेवेति भावयितव्यं नात्र मनागपि सुखबुद्धिः कर्तव्या-अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गात्" इति तात्पर्यटीका। किंवोक्त एवशब्दोऽयोगव्यवच्छेदपरो नान्ययोगव्यवच्छेदपर इत्यर्थः / उक्ते हेतुं जिज्ञासते- कथमिति / हेतुमाहनेति, दुःखोपचारात्= दुःखबाहुल्यात् , एवं सुखमपि= जन्म स्वरूपतः सुखात्मकमपि नास्ति किंतु सुखोपचारादेव- सुखदुःखयोरात्मवृत्तित्वेन जन्माभेदासंभवादित्यर्थः / एतत्= जन्म अनेन= दुःखसंज्ञाभावनेन निवर्त्यते इतिहेतोरेव “दुःखमेव जन्म” इत्युक्तं न तु सुखस्याभावादित्यर्थः / अत्र- "जन्मनोऽनेन विनिग्रहं शास्ति. सर्व दुःखमिति भावयन् दुःखसाधनानि नोपादत्ते अनुपाददानो विमुच्यते" इतिवार्तिकम् // 58 // // इति दुःखविवेचनं समाप्तम् // अपवर्गविवेचनमारभते- दुःखोपदेशानन्तरमिति / सः= अपवर्गः / पूर्वपक्षी अपवर्गाभावमाहऋणेति, यज्ञादिलक्षणानामृणानामविद्यादिलक्षणक्लेशानां कर्मलक्षणप्रवृत्तेश्चानुबन्धात्= नैरन्तर्यादपवर्गाभाव इति सूत्रान्वयः, अन्यत्सवै भाष्ये स्पष्टमेव, अत्र-“अनुबन्धः सर्वदा करणीयता" इति वार्तिकम् /