________________ 376 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेसुखस्य दुःखोद्देशेनेति प्रकरणात् , पर्येषणम्= प्रार्थना= विषयार्जनतृष्णा. पर्येषणस्य दोषो यदयं वेदयमानः प्रार्थयते. तच्चाऽस्य प्रार्थितं न संपद्यते. संपद्य वा विपद्यते. न्यूनं वा संपद्यते. बहुमत्यनीकं वा संपद्यते. इत्येतस्मात् पर्येषणदोषात् नानाविधो मानसः संतापो भवति. एवं वेदयतः पर्येषणदोषाद् बाधनाया अनिवृत्तिः. वाधनाऽनिवृत्तेढुंःखसंज्ञाभावनमुद्दिश्यते. अनेन कारणेन दुःखं जन्म न तु सुखस्याभावादिति / अथाप्येतदनूक्तम् "कामं कामयमानस्य यदा कामः समृध्यते / अथैनमपरः कामः क्षिप्रमेव प्रवाधते // " " अपि चेदुदनेमि समन्ताद् भूमिमालभते सगवाश्यां न स तेन धनेन धनैपी तृप्यति किं नु सुखं धनकामे " इति // 57 // दुःखविकल्पे सुखाभिमानाच // 58 // दुःखसंज्ञाभावनोपदेशः क्रियते, अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थ मन्यते- न सुखादन्यद् निःश्रेयसमस्ति. मुखे प्राप्ते चरितार्थः कृतकरणीयो भवति. मिथ्यासंकल्पात सुखे तत्साधनेषु च विषयेषु संरज्यते. संरक्तः सुखाय घटते. घटमानस्याऽस्य जन्मनमुपदिश्यते न तु सुखस्याभावादिति दुःखोद्देशेन सुखस्याऽप्रतिषेधः= प्रत्याख्यानं न संभवतीति सूत्रार्थः / अत्र- " यस्मादयं वेदयन् इदं मे सुखसाधनमिदं मे दुःखसाधनमिति सुखसाधनमाप्नु दुःखसाधनं हातुं प्रयतते सुखसाधनानां प्राप्तये चास्य यतमानस्याऽनेकविधस्तापोऽनुपप्लवते ततस्तापानुभवात् सर्व दुःखमित्युच्यते न सुखस्याभावादिति" इति वार्तिकम् / व्याचष्टे- सुखस्येति, 'सुखस्य दुःखोद्देशेन' इति प्रकरणाल्लभ्यते तस्य " अप्रतिषेधः" इत्यनेनान्वयस्तथा च 'दुःखोद्देशेन सुखस्य न प्रतिषेधः' इत्यर्थः / पर्येषणपदार्थमाह- प्रार्थनेति, एतदपि व्याचष्टे-विषयेति / पर्येषणस्य दोषमाहयदयमिति, अयम्= जीवः, वेदयमानः= सुखसाधनं जानानः, प्रार्थयते= सुखसाधनं समीहते, अस्य= उक्तेच्छावतः, तत् प्रार्थितम् समीहितम् , पक्षान्तरमाह-संपद्येति, विपद्यते= विनश्यति, पक्षान्तरमाह- न्यूनमिति, पक्षान्तरमाह- बहिति, बहुप्रत्यनीकम्= बहुविघ्नयुक्तं वा प्रार्थितं संपद्यते इत्यन्वयः / पर्यवसितमाह- इत्येतस्मादिति, पर्येषणदोषात्= अभिलाषस्यापूर्त्या नानाविधो मानसः संतापो भव. तीत्यन्वयः। उपसंहरति- एवमिति, एवम्= उक्तप्रकारेण वेदयतः= सुखसाधनज्ञानवतः सुखसाधने प्रवृत्त्या उक्तपर्येषणदोषाद् बाधनायाः= दुःखस्य निवृत्तिन भवतीति दुःखानिवृत्तेर्दुःखत्वभावनोपदिश्यते तथा चानेन कारणेन= दुःखानिवृत्त्या= दुःखबाहुल्येन 'दुःखं जन्म' इत्युक्तं न तु सुखस्याभावात् / अथापि= अत एव / उक्ते प्रमाणमाह- काममिति, कामम्= विषयं कामयमानस्य= समीहमानस्य यदा समीहितः कामः समृध्यते= सिध्यति, अथ= तदैवैनम्= कामिनमपरः कामः क्षिप्रम्= शीघ्रमेव प्रबाधते इत्यन्वयः / वाक्यान्तरमुदाहरति- अपीति, उदनेमि= समुद्रपर्यन्तां सगवाश्वामपि यदि पृथिवीं लभते तदापि कामी न तेन तृप्यति तस्माद् धनकामे= विषयकामनायां सुखं नास्तीत्यन्वयः, तथा च कामनादुःखादेव दुःखं जन्मेत्युक्तं न तु सुखाभावादित्यर्थः // 57 // दुःखसंज्ञाभावनोपदेशस्य कारणमाह- दुःखेति, दुःखविकल्पे= पुत्रकलत्रादिलक्षणविविधदुःखविशेषेषु सुखाभिमानात्= संसारिणां सुखत्वज्ञानात्तत्त्यागेनापवर्गप्राप्त्यर्थं दुःखसंज्ञाभावनमुपदिश्यते न तु सुखस्याभावादिति सूत्रार्थः / व्याचष्टे- दुःखेति, इदं सूत्रस्य शेषवाक्यम् / अयम्= जीवः सुखसंवेदने व्यवस्थितः= सुखानुभवपरायणः, वैषयिकसुखात् मोक्षमप्युत्कृष्टं न मन्यते, चरितार्थः= कृतार्थः, कृतकरणीयः कृतकृत्यः / धनादिना मे सुखं भविष्यतीत्यादितो मिथ्यासंकल्पात् , संरक्तः= विषयेषु