________________ __375 दुःखविवेचनम् ] न्यायभाष्यम् / विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः // 55 // जन्म= जायते इति शरीरेन्द्रियबुद्धयः, शरीरादीनां संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः, विविधा च बाधना- हीना मध्यमा उत्कृष्टा चेति. उत्कृष्टा नारकिणां. तिरश्वां तु मध्यमा, मनुष्याणां हीना. देवानां हीनतरा वीतरागाणां च, एवं सर्वमुत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते. दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्वऽनभिरतिसंज्ञा भवति. अनभिरतिसंज्ञामुपासीनस्य सर्वलोकविषया तृष्णा विच्छिद्यते. तृष्णाप्रहाणात् सर्वदुःखाद् विमुच्यते इति, यथा विषयोगात् पयो विषमिति बुध्यमानो नोपादत्ते. अनुपाददानो मरणदुःखं नामोति // 55 // दुःखोद्देशस्तु न सुखस्य प्रत्याख्यानम् , कस्मात् ? सुखस्याप्यन्तरालनिष्पत्तेः॥ 56 // न खल्वयं दुःखोद्देशः सुखस्य प्रत्याख्यानम् , कस्मात् 1, सुखस्यान्तरालनिष्पते:निष्पद्यते खलु बाधनान्तरालेषु मुखं प्रत्यात्मवेदनीयं शरीरिणां तदशक्यं प्रत्याख्यातुमिति // 56 // अथापि बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः // 57 // विविधेति- बहुविधपीडासंबन्धात् जन्मोत्पत्तिः= शरीरोत्पत्तिः= संसारसंबन्धो दुःखम्= दुःखात्मकमेवेति सूत्रान्वयः / व्याचष्टे- जन्मेति, जायते इति जन्म= शरीरादिकम् , उत्पत्तिपदार्थमाहशरीरादीनामिति, संस्थानविशिष्टानाम्= स्वस्वाकृतिविशिष्टानाम् , बाधनाया वैविध्यमाह- विविधेति, देवानां वीतरागाणां च हीनतरा बाधनेत्यन्वयः / संकलयति- एवमिति, उत्पत्तिस्थानम् = भुवनम् , विविधबाधनानुषक्तम्= विविधदुःखयुक्तम् , जन्मजरामरणादिकृतानि दुःखानि विविधानीति स्पष्टमेव, तत्साधनेषु सुखसाधनेषु, दुःखसंज्ञा= दुःखात्मकत्वज्ञानं व्यवतिष्ठते= स्थिरं भवति, दुःखसंज्ञाव्यवस्थानात्= दुःखात्मकत्वज्ञानस्थैर्यात् , अनभिरतिसंज्ञा= अप्रियत्वज्ञानं जायते, ततश्च तृष्णा निवर्तते, तृष्णानिवृत्त्या च सर्वदुःखनिवृत्तिर्भवतीत्यन्वयः / अत्र दृष्टान्तमाह- यथेति, पयः= विषसंयुक्तं पयः, तथा च यथा विषसंयुक्तपयसः परित्यागेन मरणदुःखं न भवति तथा दुःखात्मकसंसारस्य परित्यागेन अन्मजरामरणादिदःखं न भवति मोक्षपदं च प्राप्नोतीत्यर्थः / स्पष्टमन्यत // 55 // ___ अग्रिमसूत्रमवतारयति- दुःखेति, प्रमेयगणनासूत्रे सुखोद्देशाभावेपि यो दुःखोद्देशस्तेन सुखस्य प्रत्याख्यानं न क्रियते किं तु दुःखबाहुल्यं सूच्यते इत्यर्थः / उक्त हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह-सुखस्येति, सुखस्याप्यन्तरालेषु दुःखाभावकालेषु निष्पत्तेः= प्रत्यक्षसिद्धत्वादिति सुखमप्य स्तीति सूत्रान्वयः / व्याचष्टे- नेति / प्रत्याख्यानम्= प्रत्याख्यानार्थम् / सुखसत्तायां हेतुमाह-सुखस्येति / हेतुवाक्यं व्याचष्टे- निष्पद्यते इति, निष्पद्यते= सिध्यति= प्रत्यक्षमनुभूयते, बाधनान्तरालेषु दुःखानुभवसंधिषु= दुःखाभावकाले शरीरिणां प्रत्यात्मवेदनीयम्= सर्वजनप्रत्यक्षं सुखम् , तत्= सर्वजनप्रत्यक्षभूतं सुखं प्रत्याख्यातुं न शक्यते- प्रत्यक्षस्य पदार्थस्य प्रत्याख्यानासंभवादित्यन्वयः // 56 // ___ अग्रिमसूत्रमवतारयति- अथेति, किं चेत्यर्थः / दुःखोदेशेन सुखस्याप्रत्याख्याने हेत्वन्तरमाहबाधनेति, वेदयतः= सुखसाधनविषयकज्ञानवतः पुरुषस्य पर्येषणस्य= विषयार्जनतृष्णाया दोषात्= समीहितपदार्थाऽनिष्पत्त्या बाधनायाः= दुःखस्य निवृत्तिर्न भवतीति वैराग्योत्पादनार्थ दुःखसंज्ञाभाव