________________ 374 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेपुत्रादिसंबन्धात् फलं प्रीतिलक्षणमुत्पद्यते इति पुत्रादिषु फलवदुपचारो यथाऽन्ने प्राणशब्द:- " अन्नं वै प्राणाः" इति // 54 // फलानन्तरं दुःखमुद्दिष्टमुक्तं च- "वाधनालक्षणं दुःखम् 1-1-21" इति. तत् किमिदं प्रत्यात्मवेदनीयस्य= सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम् ? आहोस्विदन्यः कल्पः ? इति, अन्य इत्याह, कथम् ?, न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम् / अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखाद् निर्विणस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति / कया युक्त्या ?, सर्वे खलु सत्त्वनिकायाः सर्वाण्युत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्यात् " बाधनालक्षणं दुःखम् 1-1-21" इत्युक्तम्. ऋषिभिर्दुःखसंज्ञाभावनमुपदिश्यते, अत्र च हेतुरुपादीयतेपुत्रादीनां फलवत्= फलत्वेन उपचारः= गौणो व्यपदेशोस्ति- "पुत्रकामो यजेत " इत्यादिस्तथा च सुखस्य तत्कारणस्य चादृष्टस्य सामानाधिकरण्यान्न काप्यनुपपत्तिरिति सूत्रार्थः / व्याचष्टे- पुत्रादीति / पुत्रादिषु= पुत्रादीनाम् / दृष्टान्तमाह- यथेति, यथा- "अन्नं वै प्राणाः" इत्यत्रान्ने प्राणशब्दप्रयोग औपचारिकस्तथा फलभूतसुखजनके पुत्रादौ फलत्वव्यपदेश औपचारिक:- सुखस्यैव फलत्वात् सुखजनकमेव पुत्रादिकं सर्वः समीहते न तु दुःखप्रदमपीति सिद्धं सुखस्य फलत्वमित्यर्थः / सुखस्य तज्ज. नकादृष्टस्य चात्मनि सामानाधिकरण्यमुक्तमेवेति न कोपि दोषः // 54 / / // इति फलविवेचनं समाप्तम् // क्रमप्राप्तं दुःखविवेचनमारभते- फलानन्तरमिति / उक्तं दुःखलक्षणं स्मारयति- बाधनेति, तदेतत पूर्वत्र व्याख्यातम् / प्रकृतमाह- तदिति, प्रत्यात्मेत्युक्तं व्याचष्टे- सर्वेति, संसारस्य यद् दुःखात्मकत्वमुच्यते "दुःखमेव सर्वम्" इत्यादि तेन किं सुखाभावो बोध्यते इत्यर्थः, किं वाऽन्यः कल्पः= सुख. मप्यस्ति दुःखमप्यस्ति तत्र दुःखबाहुल्याद् दुःखात्मकत्वमुच्यते इति वा पक्ष इत्यर्थः। सिद्धान्ती द्वितीयकल्पं स्वीकरोति- अन्य इति / सूत्रकार इतिशेषस्तथा चानुपदमेव वक्ष्यति- सुखस्येति / द्वितीयकल्पे उपपत्तिं जिज्ञासते- कथमिति। उपपत्तिमाह- न वै इति, यदा हि सुखप्रत्याख्यानं न संभवति तदोक्तो द्वितीयकल्प एव युक्त इत्यर्थः / ननु यद्यस्ति सुखं तदा सर्वस्य दुःखात्मकत्वं कथमुपदिश्यते ? इत्याशङ्कय दुःखात्मकत्वोपदेशस्य प्रयोजनमाह- अयमिति, अयं दुःखसंज्ञाभावनोपदेशः= " दुःखमेव सर्व विवेकिनः" इत्यादिरूपः दुःखत्वानुसंधानोपदेशः दुःखहानार्थः= संसारनिवृत्त्यर्थः= अपवर्गप्राप्त्यर्थ इत्यन्वयः, 'यतमानसंज्ञा व्यतिरेकसंज्ञा ' इत्यादिप्रयोगेष्विवात्रापि दुःखसंज्ञेति संज्ञाशब्दप्रयोगो विज्ञेयः, प्रबन्धः= परम्परा, निर्विण्णस्य= विरक्तस्य= खिन्नस्य / दुःखसंज्ञाभावनेन दुःखनिवृत्तिप्रकारं जिज्ञा. सते- कयेति / उत्तरमाह- सर्वे इति, सत्त्वनिकायाः= देहाः, उत्पत्तिस्थानानि= लोकाः, पुनर्भव:जन्म, सर्वोप्ययं दुःखसाहचर्यात्= दुःखसंबन्धाद् बाधनानुषक्तः= क्लेशात्मकः= दुःखात्मक इत्यन्वयः / अत्र- " उत्पत्तिः सुखदुःखहेतुभूता विषयसंपत्तिस्तस्याः संस्थानानि= भुवनानि. आसत्यलोकादा चावीचेरिति" इति तात्पर्यटीका / उक्तं दुःखलक्षणं स्मारयति- बाधनेति / दुःखात्मकसंसारस्य निवृत्तये दुःखसंज्ञाभावनमुपदिश्यते- "दुःखमेव सर्वम्" इत्याह- ऋषिभिरिति / संसारस्य दुःखात्मकत्वानुसंधानेन ततो निर्विष्णस्य विरक्तस्य चापवर्ग इत्यर्थः / तदनेन पतञ्जलिसूत्रार्थानुवादेनास्य भाष्यकारस्य तदनन्तरभावित्वं स्पष्टमेव / अग्रिमसूत्रमवतारयति- अत्रेति, अत्र संसारस्य दुःखात्मकत्वे सूत्रेण हेतुरुपादीयते= उच्यते इत्यन्वयः /