________________ 373 फलविवेचनम् ] न्यायभाष्यम् / आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः // 51 // मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्. कर्म चेह शरीरे फलं चाऽमुत्रेति आश्रयव्यतिरेकादहेतुरिति // 51 // प्रीतेरात्माश्रयत्वादप्रतिषेधः // 52 // प्रीतिरात्मप्रत्यक्षत्वादात्माश्रया तदाश्रयमेव कर्म धर्मसंज्ञितम्- धर्मस्यात्मगुणत्वात् तस्मादाश्रयव्यतिरेकानुपपत्तिरिति // 52 // न- पुत्रपशुस्त्रीपरिच्छदहिरण्याऽन्नादिफलनिर्देशात् // 53 // पुत्रादि फलं निर्दिश्यते न प्रीतिः- “ग्रामकामो यजेत" " पुत्रकामो यजेत" इति. तत्र यदुक्तम्- 'प्रीतिः फलम्' इति एतदयुक्तम् // 53 // तत्संबन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः // 54 // सिद्धम्। अत्र हेतुमाह- उत्पत्तीति, मृदो घटस्योत्पत्तिर्भवति न तन्त्वादिभ्य इति नियमदर्शनाद् यदि कार्य नियतकारणं न स्यात्तदा मृद एव घटस्योत्पत्तिर्भवतीति नियमो न स्यात् अत एव नियमादुपादाननियमस्योपपत्तिरस्ति- घटोत्पत्त्यर्थ मृदेव गृह्यते इति / विपक्षे बाधकमाह- सतीति, यदि प्रागुत्पत्तेरपि कार्य सदेव स्यात्तदा सतस्तस्योत्पत्तिर्न संभवति अन्यथोत्पत्त्यनन्तरमप्युत्पत्तिः स्यादित्यर्थः // 50 // "वृक्षफलवत्" इत्युक्तदृष्टान्तं पूर्वपक्षी दूषयति- आश्रयेति, 'अग्निहोत्रादिफलोत्पत्तिवृक्षफलोत्पत्तिवत् संभवति ' इति यदुक्तं तदऽहेतुः= असाधकमेव-आश्रयव्यतिरेकात्= वृक्षे एव सेकादि कारणं वृक्षे एव च तत्फलमिति वृक्षफलोत्पत्तिः संभवति, प्रकृते च येन शरीरेण कर्म कृतं न तेन स्वर्गादिफलं भोक्तुं शक्यते किं तु शरीरान्तरेणेति फलतत्कारणयोराश्रयस्य व्यतिरेकः= भेदः प्राप्त आश्रयभेदे च कार्यकारणभावो न भवतीत्यनुपपत्त्याऽग्निहोत्रादीनां फलं न संभवतीति सूत्रार्थः। व्याचष्टे- मूलेति, तस्मात् फलस्य मूलसेकादिकर्मणश्च कार्यकारणभावः संभवतीतिशेषः / प्रकृतमाह- कर्मेति, अमुत्र पारलौकिकशरीरे / अहेतुः= उक्तदृष्टान्तो न कर्मफलसाधकः / स्पष्टं सर्वम् // 51 // ___ उक्तं सिद्धान्ती समाधत्ते- प्रीतेरिति, अग्निहोत्रादीनां फलं प्रीतिः= सुखमेव तच्चात्माश्रयम्= आत्मनिष्ठं तत्कारणीभूतं चादृष्टमपि आत्मनिष्ठमेवेति फलतत्कारणयोः सामानाधिकरण्यं सिद्धमिति नोक्तरीत्याग्निहोत्रादीनां फलस्य प्रतिषेधः संभवतीति सूत्रार्थः / व्याचष्टे- प्रीतिरिति, आत्मप्रत्यक्षत्वात्= आत्मनानुभूयमानत्वात् सर्वलोकप्रत्यक्षसिद्धत्वाद्वेत्यर्थः / तदाश्रयम्= आत्मनिष्ठम् / धर्मसंज्ञितम्= फलजनकमदृष्टाख्यम् / उक्ते हेतुमाह- धर्मस्येति, धर्मस्य= अदृष्टस्य / उपसंहरति- तस्मादिति, उक्तरूपेण फलतत्कारणयोराश्रयभेदो नोपपद्यते- उभयोरप्यात्मनिष्ठत्वादित्यर्थः // 52 // पूर्वपक्षी सुखस्य फलत्वं निराकरोति-नेति, अग्निहोत्रादीनां सर्वेषां सुखं न फलम् - पुत्रादिलक्षणफलनिर्देशात् तेषां च नाग्निहोत्रादिना तज्जन्यादृष्टेन च सामानाधिकरण्यं संभवतीति पुनरपि फलानुपपत्तिस्तदवस्थैवेति सूत्रार्थः / व्याचष्टे- पुत्रादीति, पुत्रादिलक्षणफलबोधकवाक्यान्युदाहरतिप्रामेति, " चित्रया यजेत पशुकामः" इत्यादिवाक्यानि विज्ञेयानि / उपसंहरति- तत्रेति, तत्र= एवं पुत्रादीनां फलत्वे सिद्धे, एतत्= तत् , तथा च सुखस्यैव फलत्वं न संभवति येन फलतत्कारणयोः सामाधिकरण्यं सिध्येतेत्यर्थः // 53 // उक्तं सिद्धाती समाधत्ते- तत्संबन्धादिति, न केवलं पुत्रादिकं फलं किं तु तत्संबन्धात्= पुत्रादिसंबन्धात्= पुत्रादिप्राप्त्या फलनिष्पत्तिः= सुखसिद्धिर्भवतीति सुखमेवात्र फलमिति तेषु= पुत्रादिषु=