________________ 372 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेप्रानिष्पत्तेनिष्पत्तिधर्मकं नाऽसत्- उपादाननियमात्= कस्यचिदुत्पत्तये किंचिदुपादेयं न सर्व सर्वस्येत्यऽसद्भावे नियमो नोपपद्यते इति / न सत्-प्रागुत्पत्तेविद्यमानस्योत्पत्तिरनुपपन्नेति / न सदसत्- सदसतो(धात्= 'सत्' इत्याभ्यनुज्ञा. 'असत्' इत्यर्थप्रतिषेधः एतयोाघातो वैधयं व्याघातादव्यतिरेकानुपपत्तिरिति // 48 // प्रागुत्पत्तेरुत्पत्तिधर्मकमऽसदित्यद्धा, कस्मात् ? उत्पादव्ययदर्शनात् // 49 // यत्पुनरुक्तम्- 'प्रागुत्पत्तेः कार्य नाऽसत्- उपादाननियमात् ' इति ? बुद्धिसिद्धं तु तदऽसत् // 50 // इदमस्योत्पत्तये समर्थ न सर्वमिति प्रागुत्पत्तेनियतकारणं कार्य बुद्धया सिद्धम्- उत्पत्तिनियमदर्शनात् तस्मादुपादाननियमस्योपपत्तिः / सति तु कार्ये प्रागुत्पत्तेरुत्पत्तिरेव नास्तीति॥५०॥ टीका / नेति- उत्पद्यमानं फलमुत्पत्तेः प्राक् नाऽसत्- असत उत्पत्तेरसंभवादन्यथा शशविषाणमप्युत्पयेत, न च सत्- सतोप्युत्पत्तेरसंभवात् , नापि सदसत्- सत्त्वासत्त्वयोः सामानाधिकरण्यासंभवादित्यर्थः, तृतीयकल्पे हेतुमाह- सदसतोरिति, सदसतो:= सत्त्वासत्त्वयोवैधात्= परस्परं विरुद्धत्वात्= सामानाधिकरण्यासंभवादिति सूत्रार्थः / व्याचष्टे- प्रागिति, निष्पत्तिधर्मकम्= उत्पद्यमानं फलादि वस्तु निष्पत्ते:= उत्पत्तेः प्राक् नाऽसदित्यन्वयः / उक्ते हेतुमाह- उपादानेति / हेतुवाक्यं व्याचष्टेकस्यचिदिति, कस्यचिदुत्पत्तये किंचिदुपादीयते न तु सर्वस्योत्पत्तये सर्वमुपादीयते इति कार्यकारणत्वयोनियमोऽसद्भावे= उत्पत्तेः प्राक् कार्यस्यासत्त्वपक्षे नोपपद्यते इत्यन्वयः, घटोत्पादनार्थ मृत्तिका गृह्यते न तु तन्त्वादि यद्युत्पत्तेः प्रागसदेव कार्य स्यात्तदा कार्यासत्त्वस्य सर्वत्राविशेषाद् तन्त्वादिभ्योपि घट उत्पद्येत न चोत्पद्यते तस्मान्नाऽसत् , सत्त्वपक्षे तु घटस्य मृत्तिकायां सत्त्वात् मृत्तिकातो घटोत्पत्तिः संभवतीत्यर्थः / अस्तु तर्हि कार्यमुत्पत्तेः प्राक् सदित्याशङ्कयाह-न सदिति / उक्ते हेतुमाह- प्रागिति सत्त्वं हि विद्यमानत्वं विद्यमानस्य चोत्पत्तिरनुपपन्नेति स्पष्टमेव / सत्त्वासत्त्वपक्षं निराकरोति-न सदसदिति / उक्ते हेतुमाह- सदसतोरिति / हेतुवाक्यं व्याचष्टे- सदिति, अर्थाभ्यनुज्ञा= पदार्थस्य विद्यमानता, प्रतिषेधः= अभावः, एतयोः= विद्यमानत्वाभावयोर्व्याघातः= परस्परं विरोधोस्ति तादृशविरोधादव्यतिरेकस्य= अभेदस्य= सामानाधिकरण्यस्यानुपपत्तिरिति सदसद्रूपत्वमपि न संभवतीति नाग्निहोत्रादीनां फलं संभवति- सत्त्वासत्त्वादिना स्वरूपानुपपत्तेरित्यर्थः // 48 // सिद्धान्तमाह- प्रागिति, उत्पत्तिधर्मकम्= कार्य प्रागुत्पत्तेरसत् इत्यद्धा= इतियुक्तमित्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह- उत्पादेति, कार्यस्योत्पादो व्ययः= विनाशश्च दृश्यते तेनोत्पत्तेः प्रागसत्त्वं सिद्धमिति सूत्रार्थः, उत्पादविनाशाभ्यामनित्यत्वं तेन चोत्पत्तेः प्रागसत्त्वं फलस्य कार्यस्य सिद्धमित्याशयः / अत्र भाष्यं नास्ति // 49 // प्रागुत्पत्तेः कार्यासत्त्वप्रतिषेधकं पूर्वपक्षिवाक्यमनुवदति- यत्पुनरिति, तदेतत् पूर्वत्र व्याख्यातम् / प्रागुत्पत्तेः कार्यासत्त्वं समाधत्ते- बुद्धीति, तत्= कार्यम् प्रागुत्पत्तेरसदिति बुद्धिसिद्धम्= प्रमाणसिद्धमेव- असत्त्वाभावे तदुत्पादनार्थ यत्नो न स्यात् , न चैवं शशविषाणस्याप्युत्पत्तिः स्यादिति वाच्यम् , तस्य प्रागभावप्रतियोगित्वाभावात् कार्यस्य च प्रागभावप्रतियोगित्वादिति व्यतिरेकादिति सूत्रार्थः, किं वा प्रागुत्पत्तेरसदपि कार्य बुद्धिसिद्धम्= बुद्धिविषयीभूतमेव तथा च कार्यस्य बुद्धिविषयत्वादुक्तस्योपादाननियमस्यानुपपत्तिर्नास्ति- दर्शनानुकूल्येन घटाद्युत्पादनाथै मृदादिग्रहणसंभवात् तेन च कार्यकारणभावनियमोप्युपपन्न इतिसूत्रार्थः / व्याचष्टे- इदमिति, इदम्= मृद्दव्यमऽस्य= घटस्योत्पये समर्थम्= पर्याप्तं न सर्व तन्त्वादिकमित्येवंरूपेण प्रागुत्पत्तेः कार्य नियतं कारणं यस्य तत् नियतकारणं बुद्धया प्रमाणेन