________________ फलविवेचनम् ] न्यायभाष्यम् / 371 ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणमन्तरेणोत्पत्तमर्हति- न खलु वै विनष्टात् कारणात किंचिदुत्पद्यते इति // 46 // प्राङ् निष्पत्तेर्वृक्षफलवत् तत् स्यात् // 47 // यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते तस्मिंश्च प्रध्वस्ते पृथिवीधातुरब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निवर्तयति स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण संनिविशमानः पर्णादि फलं निवर्तयति एवं परिषेकादि कर्म चार्थवत्- न च विनष्टात् फलनिष्पत्तिः / तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति. उक्तं चैतत्- " पूर्वकृतफलानुबन्धात् तदुत्पत्तिः 3-2-62 " इति // 47 // तदिदं प्राङ् निष्पत्तेनिष्पद्यमानम् नाऽसत्. न सत्. न सदसत्- सदसतोर्वैधात् // 48 // क्रियायाः स्थिरत्वासंभवादित्यग्निहोत्रादीनां फलं न संभवतीति सूत्रार्थः / व्याचष्टे- ध्वस्तायामिति ध्वस्तायाम्= विनष्टायां प्रवृत्तौ= अग्निहोत्रादिकर्मणि प्रवृत्तेः= अग्निहोत्रादिकर्मणः फलं कारणमन्तरेण= अग्निहोत्रादिकारणं विना नोत्पत्तुमर्हति / निगमयति-नेति / तथाचाग्निहोत्रादीनां सद्यो विनाशित्वान्न कालान्तरे फलं संभवति न च सद्यो दृश्यते इति नास्त्येव फलमित्यर्थः // 46 // उक्तं सिद्धान्ती समाधत्ते-प्रागिति, निष्पत्तेः= फलनिष्पत्तेः प्राक् तत्= फलकारणम्= अग्निहोत्रादिजन्यापूर्व स्यात्= संभवतीति वृक्षफलवत् स्वर्गादिकं फलं संभवतीत्यर्थः, किं वा- स्वर्गादिफलनिष्पत्तेः प्राक् कर्मजन्यापूर्वलक्षणकारणस्य सत्त्वात् वृक्षफलवत् तत्= स्वर्गादिकं फलं संभवतीत्यर्थः, किं वा फलात् प्राक् कर्मजन्यापूर्वलक्षणकारणस्य निष्पत्तेः= सिद्धेवृक्षफलवत् तत्= स्वर्गादिकं फलं संभवतीति न तत्र काप्यनुपपत्तिरिति सूत्रार्थः / अन्यत् सर्व भाष्ये स्पष्टम् / व्याचष्टे- यथेति, परिकर्म संस्कारः, तस्मिन्= परिसेकादिकर्मणि, पृथिवीधातुः= पार्थिवपरमाणुसमुदायः, अब्धातुना= जलेन, संगृहीतः= आकृष्टः संयुक्तो वा, पृथिव्याद्यन्तर्गतं तेजश्च प्रसिद्धमेव, पच्यमानः पृथिवीधातुरित्यन्वयः, रसद्रव्यम्= रसम् , निवर्तयति= संपादयति, वृक्षानुगतः= वृक्षे व्याप्तः, पाकविशिष्टः= पक्कः, व्यूहविशेषेण= रूपविशेषेण संनिविशमानः प्रविशमानः पर्णादि= पत्रमारभ्य फलपर्यन्तं निवर्तयति / व्यूहेतियथा केनचिद्रूपेण पत्रं केनचिद्रूपेण पुष्पं केनचिद्रूपेण फलं संपादयति / दृष्टान्तमुपसंहरति- एवमिति, एवम् = उक्तप्रकारेण= परम्परया रससंपादनद्वारा परिषेकादिकर्म अर्थवत्= फलजनकं भवति न तु साक्षात्- विनष्टत्वात्. तदाह-न चेति, विनष्टात् परिषेकात् साक्षात् फलं न संभवति अतः परम्परयेत्यर्थः / प्रकृतमाह- तथेति, प्रवृत्त्या अग्निहोत्रादिकर्मणा, संस्कारः= अदृष्टम् , सः= संस्कारः, निमित्तान्तरेण= फलप्राप्तियोग्यदेशादिनानुगृहीतः, कालान्तरे= मरणानन्तरकाले, फलं स्वर्गादिकं निष्पादयतीत्यन्वयः / अत्र पूर्वोक्तसूत्रं प्रमाणयति- पूर्वेति, सूत्रव्याख्या च तत्रैव द्रष्टव्या, स्पष्टमन्यत् / तथा च यथा सेकादिकर्मणा रसो जायते तेन च फलमिति न कार्यकारणत्वयोरनुपपत्तिस्तथाऽग्निहोत्रादिकर्मणाऽदृष्टं जायते तच्च फलभोगपर्यन्तं स्थायीति तेन फलं जायते इति नामिहोत्रादीनां फलतत्कारणत्वयोरनुपपत्तिरित्यर्थः // 47 // ___ अग्रिमसूत्रमवतारयति- तदिति, इदम्= फलं निष्पद्यमानं निष्पत्तेः प्राक् नाऽसत् न सत् न सदसदित्यन्वयः / अत्र- " इदमिदानी चिन्त्यते किमेतत् फलमुत्पत्तेः प्रागसद्वा सद्वा सदसद्वाऽनुभयं वेति, अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति तदिदं फलं निष्पत्तेः प्राक् " इति तात्पर्य