________________ 370 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेप्रेत्यभावानन्तरं फलम् / तस्मिन् सद्यः कालान्तरे च फलनिष्पत्तेः संशयः // 44 // 'पचति दोग्धि' इति सद्यः फलम् ओदनपयसी, 'कर्षति वपति' इति कालान्तरे फलं शस्याधिगम इति, अस्ति चेयं क्रिया- “अग्निहोत्रं जुहुयात् स्वर्गकामः" इति एतस्याः फले संशयः // 44 // न सद्यः- कालान्तरोपभोग्यत्वात् // 45 // स्वर्गः फलं श्रूयते तच्च भिन्नेऽस्मिन् देहभेदादुत्पद्यते इति न सद्यः, ग्रामादिकामानामारम्भफलमिति // 45 // कालान्तरेणाऽनिष्पत्तिः- हेतुविनाशात् // 46 // सत्तासामान्यकृतीर्थसंग्रहो यथास्ति तथा विशेषकारितः= तत्तद्विशेषरूपकृतीर्थभेदोप्यस्त्येवेति तादृशपदार्थभेदस्वीकारेणैकान्तत्वम्= संख्यानियमं जहति= त्यजन्ति= स्वीकृततत्त्वैकत्वादिसंख्यानियमस्य भङ्गो भवतीति दोषः / एतेषां वादानां निरासस्य प्रयोजनमाह- ते खल्वेते इति, एते एकान्ताःसंख्यैकान्तवादास्तत्त्वज्ञानप्रविवेकार्थम्= षोडशपदार्थतत्त्वज्ञानार्थम्= षोडशपदार्थसिद्धयर्थ किं वा षोडशपदार्थानां तत्त्वज्ञानार्थ प्रविवेकार्थम् = भेदसिद्धयर्थं च परीक्षिताः= निराकृतास्तेन षोडश पदार्थाः सिद्धा इति तेषां तत्त्वज्ञानविवेकौ संपाद्यावित्यर्थः // 43 // // इति संख्यैकान्तवादनिरासः समाप्तः // // इति प्रेत्यभावविवेचनं समाप्तम् // फलविवेचनमारभते-प्रेत्येति / तस्मिन्= फले संशय इत्यन्वयः / सद्य इति- पाकादिक्रियाणां सद्यः कृष्यादिक्रियाणां च कालान्तरे फलनिष्पत्तिर्भवति, अग्निहोत्रादिक्रियाणां च न सद्यः न वा कालान्तरे फलं दृश्यते इति अग्निहोत्रादिफले संशयः- अस्ति वा न वेति सूत्रार्थः / व्याचष्टे- पचतीति, पचतीतिपाकक्रियाया ओदनं फलं दोग्धीतिदोहनक्रियायाः पयः फलं सद्य एव, कर्षतीति कृष्यादिक्रियाणां शस्याधिगमः फलं कालान्तरे भवतीत्यन्वयः / प्रकृतमाह- अस्तीति, एतस्या:= अग्निहोत्रक्रियायाः फले संशयः- भवति वा न वेत्यर्थः // 44 // सिद्धान्ती समाधत्ते- नेति, अग्निहोत्रादिक्रियायाः फलं सद्यो न भवति- कालान्तरे= देहपाता. नन्तरं स्वलोके उपभोग्यत्वादिति सूत्रार्थः / व्याचष्टे- स्वर्ग इति, अग्निहोत्रादीनां स्वर्गः फलं श्रूयते"अग्निहोत्रं जुहुयात् स्वर्गकामः" इति, तच्च स्वर्गलक्षणं फलं भिन्ने पतितेऽस्मिन् देहे देहभेदात्= स्वार्गिकदेहविशेषावच्छेदेन कालान्तरे उत्पद्यते= प्राप्नोति न सद्य इति न तत्र संशय उपपद्यते- वेदबोध्यत्वादित्यर्थः / यद्यग्निहोत्रादीनां फलमैहिकं स्यात्तदा तस्य सद्योऽनुपलब्ध्या संशयः स्यादपि न चैवमस्तीत्याशयः / अनया ग्रामकामो यजेत' "चित्रया यजेत पशुकामः" इत्यादिप्रामादिकामानाम्= ग्रामाद्यैहिकफलानामिष्टीनामारम्भे= सद्यः फलं भवति तेन कालान्तरभाविफले स्वर्गादावपि न संशयः कर्तव्य इत्यर्थः, किं वा ग्रामादिकामेष्टीनामेव आरम्भफलम्= सद्यः फलमुक्तं न त्वग्निहोत्रादीनामपि येन तेषां सद्यः फलानुपलम्भात् फलाभावापत्तिः स्यादित्यर्थः // 45 // उक्तं पूर्वपक्षी प्रत्याचष्टे- कालान्तरेणेति, अग्निहोत्रादीनां कालान्तरेण= कालान्तरेपि फलनिष्पत्तिर्न संभवति- हेतुविनाशात्= स्वर्गादिफलजनकानामग्निहोत्रादीनां विनाशात्= विनाशित्वान्