________________ प्रेत्यभावविवेचने संख्यैकान्तवादनिरासः] न्यायभाष्यम् / 369 न-कारणावयवभावात् // 42 // न संख्यैकान्तानामसिद्धिः, कस्मात् 1. कारणस्यावयवभावात्= अवयवः कश्चित साधनभूत इत्यऽव्यतिरेकः / एवं द्वैतादीनामपीति // 42 // निरवयवत्वादहेतुः // 43 // ___ "कारणस्यावयवभावात् " इत्यहेतुः, कस्मात् ? ' सर्वमेकम् ' इत्यनपवर्गेण प्रतिज्ञाय कस्यचिदेकत्वमुच्यते तत्र व्यपक्तोऽवयवः साधनभूतो नोपपद्यते, एवं द्वैतादिष्वपीति / ते खल्विमे संख्यैकान्ता यदि विशेषकारितस्याऽर्थभेदविस्तरस्य प्रत्याख्यानेन वर्तन्ते ? प्रत्याक्षानुमानागमविरोधाद् मिथ्यावादा भवन्ति / अथाभ्यनुज्ञानेन वर्तन्ते ? समानधर्मकारितोऽर्थसंग्रहो विशेषकारितश्चार्थभेद इत्येवमेकान्तत्वं जहतीति / ते खल्वेते तत्त्वज्ञानाविवेकार्थमेकान्ताः परीक्षिता इति // 43 // पूर्वपक्षी समाधत्ते- नेति, संख्यैकान्तवादानामसिद्धिर्नास्तीत्यर्थः, उक्ते हेतुमाह- कारणेति, कारणस्य= साधनस्य= प्रमाणस्य अवयवभावात्= अवयवत्वात्= साध्यैकदेशत्वात् , तथा चैकस्यैव तत्त्वस्य कश्चिदेकदेशः साध्यः कश्चिदेकदेशश्च साधकः= प्रमाणमिति न साध्यसाधनभावानुपपत्तिः, समुदायस्य चैक्यैनैकत्वानुपपत्तिरपि नास्तीति न संख्यैकान्तानुपपत्तिरिति सूत्रार्थः / व्याचष्टे- नेति / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- कारणस्येति, कारणस्य= प्रमाणस्याऽवयवभावात्= अवयवत्वादित्यन्वयः / उक्तं विशदयति- अवयव इति, स्वीकृततत्त्वस्य कश्चिदवयवः साधनभूतो न तु साध्यातिरिक्त इत्यऽव्यतिरेकः= साध्यसाधनयोरभेदः- अवयवावयविनोरभेदादिति न स्वीकृततत्त्वैकत्वस्यानुपपत्तिरित्यर्थः किं वा “अव्यतिरेकः" इत्यस्य स्वीकृतसंख्याधिकसंख्यापत्तिर्नास्तीत्यर्थः / उक्तमन्यत्रातिदिशतिएवमिति, उपपत्तिर्विज्ञेयेतिशेषः, नित्यानित्ययोर्मध्ये ह्यनित्येषु प्रमाणस्यान्तर्भावो विज्ञेयः, स्पष्टमन्यत् / द्वैतादीनाम्= " सर्व द्वेधा" इत्यादिमतानामित्यर्थः // 42 // उक्तं सिद्धान्ती निराकरोति- निरवयवत्वादिति, त्वदभिमतस्यैकस्य तत्त्वस्य ब्रह्मणो निरवयत्वादेकदेशस्य साध्यत्वमपरदेशस्य च साधनत्वमिति न घटते इति "कारणावयवभावात्" इति हेतुर्न संभवतीति न तत्त्वैकत्ववादः संभवतीति सूत्रार्थः / व्याचष्टे- कारणस्येति / उक्तहेतोरहेतुत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- सर्वमिति, अनपवर्गेण= अभेदेन= साकल्येन 'सर्वमेकम् / इति प्रतिज्ञाय कस्यचित्= ब्रह्मण एकत्वमुच्यते तत्र व्यपवृक्तः= अभिन्नः साध्याभिन्नोऽवयवः= साध्यैकदेशः साधनभूतो नोपपद्यते= साधनं भवितुं नार्हति- साध्यभिन्नस्यैव साधनत्वसंभवादित्यन्वयः / किं च निरवयवस्य ब्रह्मणोऽवयव एव न संभवति यस्य साधनत्वं स्यादित्यर्थः / अत्र- " सर्वमेकमित्येतस्मिन् प्रतिज्ञार्थे न किंचिदपवृज्यते= व्यावर्तते यतस्तत् साधनं स्यादित्यर्थः" इति तात्पर्यटीका / उक्तामनुपपत्तिमन्यत्रातिदिशति- एवमिति, द्वितीयमते नित्यानामनित्यानां चैकत्वं नोपपद्यते- नानात्वात्= बहव खलु नित्या बहवश्वानित्या इति द्वित्वमात्रं कथं स्यादित्यर्थः किं वा नित्यानित्यविलक्षणस्यापि संभवात् द्विप्रकरत्वानुपपत्तिरित्यर्थः, चतुर्थमते चतुर्धात्वमपि नोपपद्यते- ईश्वरस्याधिक्यात् , एवं तृतीयमते त्रित्वं नोपपद्यते- तत्त्वाधिक्यादेवेत्यनुसंधेयम् / संख्यैकान्तवादानां प्रयोजनमाह-ते खल्विति. एते वादा विशेषकारितस्य= तत्तद्विशेषकारणजन्यस्याऽर्थभेदविस्तरस्य= पदार्थविशेषसमदायस्य यदि प्रत्याख्यानेन= प्रत्याख्यानाय वर्तन्ते= प्रवृत्ताः सन्ति ? तदा पदार्थविशेषवृन्दस्य प्रत्यक्षादिप्रमाणसिद्धत्वेन प्रत्याख्यानं न संभवतीति प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा भवन्तीत्यन्वयः / अर्थभेदविस्तरस्वीकारपक्षे दोषमाह- अथेति, यद्येते वादा अर्थभेदविस्तरस्याभ्यनुज्ञानेन= स्वीकाराय प्रवृत्तास्तदा समानधर्मकृतः= 47