________________ 368 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेद्वे द्रव्ये पश्यन् एकत्र विद्यमानमतिशयं गृह्णाति तद् दीर्घमिति व्यवस्यति, यच्च हीनं गृह्णाति तद् ह्रस्वमिति व्यवस्यतीति, एतचापेक्षासामर्थ्यमिति // 40 // ___ अथेमे संख्यैकान्ताः- सर्वमेकम्- सदऽविशेषात, सर्व द्वेधा-नित्यानित्यभेदात, सर्व त्रेधा- ज्ञाता ज्ञानं ज्ञेयमिति, सर्व चतुर्धा- प्रमाता प्रमाणं प्रमेयं प्रमितिरिति, एवं यथासंभवमन्येऽपीति / तत्र परीक्षा संख्यैकान्ताऽसिद्धिः- कारणानुपपत्त्युपपत्तिभ्याम् / / 41 // यदि साध्यसाधनयो नात्वम् ? एकान्तो न सिध्यति- व्यतिरेकात्, अथ साध्यसाधनयोरभेदः ? एवमप्येकान्तो न सिध्यति- साधनाभावात् , न हि तमन्तरेण कस्यचित् सिद्धिरिति // 41 // हस्वदीर्घयोर्द्वयोर्ग्रहणे जाते अतिशयग्रहणोपपत्तिः= दीर्धे यदतिशयस्य= उत्तकृष्टत्वस्य= ह्रस्वापेक्षया लम्बायमानत्वस्य ग्रहणं तदेवापेक्षासामर्थ्यम्= अपेक्षायाः= सापेक्षत्वस्य प्रयोजनमित्यर्थः / व्याचष्टेद्वे इति, एकत्र दीर्थे, अतिशयम्= लम्बायमानत्वं गृह्णाति, तत्= तादृशातिशयविशिष्टम् लम्बायमानम् / हीनम्= अतिशयरहितम् / उपसंहरति- एतदिति, एतत्= अतिशयतद्राहित्ययोर्ग्रहणमेवापेक्षाप्रयोजनमित्यन्वयस्तथा च हृस्वत्वदीर्घत्वयोर्ग्रहणस्य परस्परसापेक्षत्वेपि ह्रस्वदीर्घयोः स्वरूपं तु न परसापेक्षं किं तु स्वभावसिद्धमेवेति न सर्वेषां भावानामभात्मकत्वम्= तुच्छत्वं संभवतीत्यर्थः // 40 // // इति सर्वशून्यवादनिराकरणं समाप्तम् // अग्रिमप्रकरणमुपक्रमते- अथेति, संख्याया एकान्तः= नियमो येषु ते संख्यैकान्ताः= अल्पसंख्याकतत्त्वप्रतिपादकाः सिद्धान्ता इत्यर्थः, अत्र-- " संख्या एकान्तो येषु वादेषु ते तथोक्ताः" इति तात्पर्यटीका / संख्यैकान्तवादान् विशेषरूपेणाह- सर्वमिति, अयं निर्विशेषब्रह्मवादः, निर्विशेषं ब्रह्मैवैकम्सदविशेषात्= सतः= ब्रह्मणः सर्वस्याविशेषात्= अभेदादित्यन्वयः श्रूयते च “सदेव सोम्येदमग्रे आसीत् एकमेवाद्वितीयं ब्रह्म" इत्यादि। मतान्तरमाह- सर्व द्वेधेति / तृतीयमतमाह- सर्वं त्रेधेति, ज्ञाताआत्मा, ज्ञेयं घटपटादिकम् / मतान्तरमाह- सवै चतुर्धेति, प्रमाता= आत्मा, प्रमाणं प्रत्यक्षादि, प्रमेयं घटपटादि, प्रमिति:= प्रमाणजन्यं ज्ञानम् / उपसंहरति- एवमिति, एवमन्येपि संख्यैकान्तवादा विज्ञेया इत्यर्थः / अत्र- “अन्येपीत्यनेन रूपसंज्ञासंस्कारवेदनानुभवाः पञ्च स्कन्धा इति सौत्रान्तिका इत्यादिसमुचयः" इतिवृत्तिः। अग्रिमसूत्रमवतारयति- तत्रेति, तत्र= तेषां संख्यैकान्तवादानां संप्रति परीक्षेत्यन्वयः / ____ संख्येति- उक्तानां संख्यैकान्तवादानामसिद्धिः= उपपत्तिर्नास्ति- स्वीकृतपदार्थातिरिक्तस्य स्वीकृत तपदार्थसिद्धिकारणस्य= स्वीकृतपदार्थविषयकप्रमाणस्याऽनुपपत्त्या= असंभवात्= स्वीकृतपदार्थातिरिक्तस्य तत्साधकस्य प्रमाणस्याऽस्वीकारात् प्रमाणं विना च पदार्थसिद्धेरसंभवात् , उपपत्त्या= कारणोपपत्त्या च= यदि स्वीकृतपदार्थसाधकं प्रमाणं स्वीक्रियते तदा स्वीकृतपदार्थातिरिक्तप्रमाणस्य स्वीकारेण तत्त्रसंख्यावृद्धया स्वीकृतसंख्यानियमभङ्गः स्यादित्युभयतः पाशारज्जुरिति संख्यैकान्तवादानामनुपपत्तिरिति सूत्रार्थः / भाष्यकारः संख्यकान्तवादानामनुपपत्तिमाह- यदीति, यदि साध्यस्य= स्वीकृतपदार्थस्य साधनस्य= स्वीकृतपदार्थविषयकप्रमाणस्य च नानात्वम् = भेदस्तदा एकान्तः= स्वीकृतैकत्वसंख्या नियमो न सिध्यति- व्यतिरेकात्= साध्यसाधनयोर्भेदात् तादृशभेदेन स्वीकृतसंख्यात:: संख्यावृद्धेरवश्यम्भावादित्यर्थः / साध्यसाधनयोरभेदपक्षे दोषमाह- अथेति, अथ= यदि साध्यसाधनयोरभेद एवमपि= तदापि एकान्त:= स्वीकृततत्त्वसंख्या नियमो न सिध्यति- साधनाभावात= साध्यातिरिक्तप्रमाणाभावात, तमन्तरेण= साध्यातिरिक्तप्रमाणं विना च न कस्यापि पदार्थस्य सिद्धिः संभवतीत्याह- नहीति // 41 //