________________ प्रेत्यभावविवेचने सर्वशून्यत्वनिराकरणम् ] न्यायभाष्यम् / 367 व्याहतत्वादयुक्तम् // 40 // यदि ह्रस्वापेक्षाकृतं दीर्घ किमिदानीमपेक्ष्य ' ह्रस्वम् ' इति गृह्यते ? / अथ दीर्घापेक्षाकृतं ह्रस्वम् ? दीर्घमनापेक्षिकम्, एवमितरेतराश्रययोरेकाभावेऽन्यतराभावादुमयाभाव इत्यपेक्षाव्यवस्थानुपपन्ना / स्वभावसिद्धावऽसत्यां समयोः परिमण्डलयोर्वा द्रव्ययोरापेक्षिके दीर्घत्वहस्वत्वे कस्मान्न भवतः ? / अपेक्षायामनपेक्षायां च द्रव्ययोरभेदः= यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नाऽन्यतरत्र भेदः / आपेक्षिकत्वे तु सत्यऽन्यतरत्र विशेषोपजनः स्यादिति / किमपेक्षासामर्थ्यमितिचेत् ? द्वयोर्ग्रहणेऽतिशयग्रहणोपपत्तिः / ____ उक्तं सिद्धान्ती प्रत्याचष्टे- व्याहतत्वादिति, घटादिपदार्थानां तुच्छत्वमयुक्तम्= न संभवतिपरसापेक्षत्वस्य व्याहतत्वात् असिद्धत्वात् किं वा परस्पराश्रयदोषदुष्टत्वादित्यर्थः, तथा हि यदि ह्रस्वं दीर्घापेक्षं दीर्घ च ह्रस्वापेक्षं तदा परस्परसापेक्षत्वेन द्वयोरपि सिद्धिर्न स्यादित्यन्योन्याश्रयदोषेणोक्तस्य हेतोर्व्याहतत्वात् सर्वस्य तुच्छत्वमयुक्तमिति सूत्रार्थः / व्याचष्टे- यदीति, यदि दीर्घ हस्वापेक्षम् इदानीम् तदा किमपेक्ष्य ह्रस्वं गृह्यते= प्रतीयते इतिवक्तव्यमित्यन्वयः, ह्रस्वग्रहणस्य दीर्घापेक्षत्वे हि परस्पराश्रयो दोष इतिशेषः / अथ= यदि ह्रस्वं दीर्घापेक्षं तदा दीर्घ अनापेक्षिकम् ह्रस्वानपेक्षं स्वीकार्यम् अन्यथा परस्पराश्रयो दोषः स्यादित्यनापेक्षिकत्वे स्वरूपेण सिद्धिः स्यादेवेत्यर्थः। पर्यवसितमाह- एवमिति, इतरेतराश्रययोः= परस्परसापेक्षयोर्हस्वदीर्घयोर्मध्ये एकाभावेऽन्यतरस्यासंभवादुमयाभावः प्राप्तः सच न युक्त इत्यापेक्षिकत्वं नोपपद्यते इत्यपेक्षाव्यवस्था परस्परापेक्षया व्यवस्था= सिद्धिः= सापेक्ष ताऽनुपपन्ना जातेति न स्वरूपसिद्धयभावो भावानां संभवतीत्यर्थः / विपक्षे बाधकमाह- स्वभावेति, यदि हस्वदीर्घयोः स्वभावेन= स्वरूपेण सिद्धिर्न स्यात् किं तु सापेक्षत्वादेव तदा समानयोः परिमण्डलयोः= परमाण्वोर्वा घटादिद्रव्ययोर्वा परस्परसापेक्षत्वेन ह्रस्वत्वदीर्घत्वे स्याताम्- परस्परसापेक्षत्वस्य ह्रस्वत्वदीर्घत्वप्रयोजकत्वात्. सापेक्षत्वं च समत्वात् प्राप्तमेव समत्वस्य परस्परापेक्षयैव निरूप्यत्वात्. न च समयोर्हस्वत्वदीर्घत्वे भवत इति न परस्परसापेक्षे किं तु स्वभावसिद्धे एव स्वभावेन सिद्धत्वे च तुच्छत्वं न संभवतीत्यर्थः / वस्तुतस्त्वयुक्त एवायमाक्षेपः- पूर्वपक्षिणा सापेक्षत्वेन स्वरूपसिद्धिमात्रस्य पराकृतत्वादित्यनुसंधेयम् / ननु हस्वदीर्घादीनां सापेक्षत्वं निरपेक्षत्वं चोभयं स्वीक्रियते तत्र सापेक्षत्वात् तुच्छत्वं प्राप्तं निरपेक्षत्वाच्च परस्पराश्रयदोषाभाव इति नोभयाभावापत्तिरित्याशङ्कयाह- अपेक्षायामिति, अपेक्षायाम्= सापेक्षत्वे. अनपेक्षायाम्= निरपेक्षत्वे, एवं हि निरपेक्षत्वेन ह्रस्वदीर्घयोर्द्रव्ययोरभेदः- साम्यम्= निरतिशयत्वमेव स्यात्- हस्वत्वदीर्घत्वादिलक्षणस्यातिशयस्य परापेक्षयैव ग्राह्यत्वादित्यन्वयः / उक्तवाक्यं व्याचष्टे- यावती इति, यावती ये द्वे द्रव्ये. तावती= ते एव द्वे द्रव्ये. तयोः सापेक्षयोरपि निरपेक्षत्वेन अन्यतरत्र ह्रस्वदीर्घयोर्द्वयोर्मध्ये एकस्मिन्नपि भेदः= दीर्घत्वादिलक्षणोऽतिशयो न गृहीतः स्यात्. न चैवमस्ति- उक्तभेदस्य गृह्यमाणत्वादिति नायमपि पक्षो युक्त इत्यर्थः / सापेक्षत्वपक्षेऽतिशयग्रहस्य संभवमाह- आपेक्षिकत्वे इति, आपेक्षिकत्वे सापेक्षत्वे, विशेषोपजनः अतिशयग्रहः, यथा ह्रस्वापेक्षाया दीर्धेऽतिशयस्य= उत्कर्षस्य ग्रहणं संभवति सापेक्षत्वे च दोषः पूर्वमुक्त एवेति पदार्थानां स्वरूपेण सिद्धिः स्वीकार्या तथा च स्वरूपसिद्धच्या तुच्छत्वं न संभवतीत्यर्थः प्रतिभाति / अत्र- " ननु यद्यनेन क्रमेणोभयाभावो भवति भवतु सिद्धमेव नः समीहितमित्यत आह- अपेक्षायामनपेक्षायां चेति / भिन्नत्वां च भेदः स च वस्तुविशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते किं तु स्वनिरूपणे / स्यादेतत् अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति कृतमेषां वस्तुस्वभावेन " इत्यादितात्पर्यटीका // ननु यदि भावाः स्वरुरूपेणैव सिद्धास्तदाऽपेक्षासामर्थ्यम्= अपेक्षाप्रयोजनं किमित्याशङ्कते किमपेक्षेति, अत्र- "अपेक्षासामार्थ्यम्= अपेक्षाप्रयोजनयोगः” इतितात्पर्यटीका / उत्तरमाह- द्वयोरिति,