________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेसंयोगादिसंबन्धो व्यतिरेकः अत्राऽव्यतिरेकोऽभेदाख्यसंबन्धः तत्पतिषेधै चासत्प्रत्ययसामानाधिकरण्यं यथा- 'न सन्ति कुण्डे बदराणि ' इति, 'असन् गौरश्वात्मना' 'अनश्वोगौः' इति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते= गवाश्वयोरेकत्वं नास्तीति, तस्मिन् प्रतिषिध्यमाने भावेन गवा सामाधिकरण्यमसत्प्रत्ययस्य- ' असन् गौरश्वात्मना' इति. यथा 'न सन्ति कुण्डे बदराणि' इति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्य सामाधिकरण्यमिति // 38 // न स्वभावसिद्धिः-आपेक्षिकत्वात् // 39 // अपेक्षाकृतम् आपेक्षिकम्, प्हस्वापेक्षाकृतं दीर्घ दीर्घापेक्षाकृतं हस्वम्, न स्वेनात्मनाऽवस्थितं किंचित् / कस्मात् 1. अपेक्षासामर्थ्यात्. तस्मान्न स्वभावसिद्धिर्भावानामिति // 39 // केणाऽसत्प्रत्ययेन सामानाधिकरण्यं भवतीत्यर्थः, भेदज्ञापनार्थमेवोक्तासत्प्रत्ययविषयत्वं भावानां संपाद्यते इतियावत् तथा चाऽसत्प्रत्ययसामानाधिकरणस्य भेदबोधनपरत्वादभावात्मकत्वबोधनपरत्वं न संभवतीति न सर्वस्य तुच्छत्वं संभवतीत्यर्थः / स्वयं व्याचष्टे- संयोगेति, अव्यतिरेकप्रतिपादनाथै संयोगादिर्व्यतिरेकसंबन्ध उक्तः / अव्यतिरेकपदार्थमाह- अत्रेति / तत्प्रतिषेधे= अभेदप्रतिषे. धार्थमसत्प्रत्ययसामानाधिकरण्यं भवतीत्यर्थः, असत्प्रत्ययसामानाधिकरण्यमुदाहरति- न सन्तीति, 'कुण्डे बदराणि न सन्ति' इत्यत्र कुण्डे बदराणामसत्त्वं प्रतीयते इत्यसत्प्रत्ययसामानाधिकरण्यम्असत्प्रत्ययविषयत्वं बदराणां प्राप्तमित्यन्वयः। प्रकृतमाह- असन्निति, 'असन् गौरश्वात्मना' इत्यादिना गवाश्वयोरन्यतिरेकः= अभेदः प्रतिषिध्यते / एतदपि व्याचष्टे- गवाश्वयोरिति / पर्यवसितमाह- तस्मिनिति, तस्मिन्- अव्यतिरेके अभेदे प्रतिषिध्यमाने गवाश्वयोरभेदस्य प्रतिषेधार्थ भावपदार्थेन गवा 'असन् गौरश्वात्मना' इत्येवमसत्प्रत्ययस्य सामानाधिकरण्यं भवति न तु गोरभावात्मकत्वबोधनार्थमित्यर्थः / पुनरसत्प्रत्ययसामानाधिकरण्यमुदाहरति- यथेति / उदाहरणं ब्याचष्टे- कुण्डे इति, यथात्र कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिः= बदरैः 'न सन्ति ' इत्यसत्प्रत्ययसामानाधिकरण्यं भवति तथा प्रकृतेपि गवाश्वयोरभेदप्रतिषेधार्थमेव 'असन् गौरश्वात्मना' इत्यादिरूपेणासत्प्रत्ययसामानाधिकरण्यं भवति न तु गोस्तुच्छत्वबोधनार्थमित्यर्थः // 38 // पूर्वपक्षी पूर्वसत्रोक्तां भावानां स्वभावसिद्धिं सत्त्वसिद्धिहेतुभूतां निराकरोति-नेति, भावानामुक्ता स्वभावसिद्धिर्न संभवति- आपेक्षिकत्वात् परस्परं सापेक्षत्वात् यथा ह्रस्वापेक्षं दीर्घ दीर्घापेक्षं च ह्रस्वं तथा पटादिभेदापेक्षो घटादिर्घटादिभेदापेक्षश्च पटादिरिति न कस्यापि स्वभावेन= स्वरूपमात्रेण सिद्धिः संभवति यच परापेक्षं तत् तुच्छमेव यथा जपाकुसुमापेक्षं स्फटिकस्यारुण्यं तथा च सर्व सापेक्षत्वात् तुच्छमेवेति सूत्रार्थः / व्याचष्टे- अपेक्षेति, अपेक्षाकृतम्= अपेक्षया सिद्धमित्यर्थः, एषा चापेक्षिकशब्दस्य व्यत्पत्तिः। सत्रार्थमाह-हस्वेति / आत्मना= स्वस्वरूपेण. अवस्थितम= सि किमपि नास्तीत्यन्वयः / अत्र हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- अपेक्षेति, अपेक्षायाः साम र्थ्यात्= अपेक्षाया इदं सामर्थ्य यत् सापेक्षं तुच्छं करोतीत्यर्थः, किं वा अपेक्षासामर्थ्यात् नाम अपेक्षाप्रयोजनयोगात् यदि हस्वादिकं स्वरूपसिद्धं स्यात्तदाऽपेक्षाप्रयोजनम् = सापेक्षत्वं तस्य न स्यादित्यर्थः / सापेक्षत्वादितियावत / यदि हस्वादिकं स्वभावेन= स्वरूपेण सिद्धं स्यात्तदा. दीर्घाद्यपेक्षं न स्याद् अस्ति च दीर्घाद्यपेक्षमिति न ह्रस्वादिकं स्वभावसिद्धं संभवति तेन च स्वभावसिद्धेरभावः प्राप्त इति तुच्छत्वं सिद्धमेवमन्यत्रापि सर्वत्र तुच्छत्वं विज्ञेयमित्याशयः / उपसंहरति- तस्मादिति / स्वभावसिद्धेरभावात्तुच्छत्वं सिद्धमित्यर्थः // 39 //