________________ 365 प्रेत्यभावविवेचने सर्वशून्यत्वनिराकरणम् ] न्यायभाष्यम् / क्रियावदित्येवमादिविशेषः. स्पर्शपर्यन्ताः पृथिव्या इति च, प्रत्येकं चाऽनन्तो भेदः, सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते, सोयमभावस्य निरुपाख्यत्वात् संप्रत्यायकोऽर्थभेदो न स्यात. अस्ति त्वयं तस्मान्न सर्वमभाव इति / अथ वा- “न- स्वभावसिद्धर्भावानाम्" इति स्वरूपसिद्धेरिति. गौरितिप्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते नाभावमात्रम्. यदि च सर्वमभावः गौरित्यभावः प्रतीयेत, गोशब्देन चाभाव उच्येत, यस्मात्तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस्तस्मादयुक्तमिति / ___ अथ वा- “न- स्वभावसिद्धेः" इति ' असन् गौरश्वात्मना' इति गवात्मना कस्मानोच्यते ? अवचनाद् ‘गवात्मना गौरस्ति ' इति स्वभावसिद्धिः, 'अनश्वोऽश्वः / इति वा 'गौरगौः' इति वा कस्मानोच्यते ? अवचनात् स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते / अव्यतिरेकप्रतिषेधे च भावानामऽसत्प्रत्ययसामानाधिकरण्यम / व्याचष्टे- स्वेनेति, धर्मेण= स्वरूपेण, भवन्ति= वर्तन्ते भावा घटादिपदार्था इत्यस्माभिः प्रतिज्ञायते इत्यन्वयः / भावानां स्वरूपं जिज्ञासते- कश्चेति / धर्ममाह- द्रव्येति, द्रव्यगुणकर्मणां सत्तासामान्य धर्मस्तेन सत्त्वं सिद्धं तेन तुच्छत्वं निवृत्तम्- सतस्तुच्छत्वासंभवात् / द्रव्याणां च क्रियावत्त्वमपि धर्म इत्याह- द्रव्याणामिति, आदिशब्दाद् गुणवत्वं ग्राह्यम् / पृथिवीधानाह- स्पर्शेति, गन्धरसरूपस्पर्शाः पृथिव्या धर्माः / पुनश्च सामान्यस्य क्रियाणां गुणानां चावान्तरभेदा अनन्ता भवन्ति तद्वत्त्वमपि भावानामेवेत्याह- प्रत्येकमिति / सामान्यादीनां धर्मानाह- सामान्येति, विशिष्टा:= विशेषा धर्माः नित्यत्वादयः, एते धर्मास्तुच्छत्वे नोपपद्यन्ते इति भावानां सत्त्वं सिद्धमित्यर्थः / उपसंहरति- सोयमिति, यद्यभावः= तुच्छमेव सर्वं स्यात् तदा निरुपाख्यत्वात्= असत्त्वात् अभावस्य= तुच्छस्यैकविधत्वसंभवात् सोयम्= उक्तः संप्रत्यायकः= प्रतीतिविषयतासंपादकः किं वा प्रतीतिविषयीभूतोऽर्थभेदः= पदार्थवैविध्यं न स्यात्. अस्ति चायं धर्मभेदात् पदार्थभेद इति न सर्व तुच्छं संभवतीत्यन्वयः // सूत्रस्य वर्णकान्तरमाह- अथ वेति, अत्र स्वभावशब्दः स्वरूपपरो विज्ञेय इति विशेषः / उदाहरति-गौरिति, गृह्यते= प्रतीयते / पूर्वपक्षिमते बाधकमाह- यदीति, यदि सर्वमभाव एव तदा गोशब्देन गोरभावत्वेन प्रतीतिः स्यात् न चैवमस्ति- भावत्वेन प्रतीयमानत्वात् / पूर्वपक्षिमते गवादिशब्दानामभाववाचकत्वं स्यादित्याह- गोशब्देनेति, न चैवं संभवतीतिशेषः / उपसंहरति- यस्मादिति / अयुक्तम् सर्वस्य तुच्छत्वमयुक्तमित्यन्वयः // पूर्वपक्षिमतेऽनुपपत्त्यन्तरमाह- अथ वेति / स्ववक्तव्यमाह- असन्निति, गोरश्वात्मनाऽसत्त्वमुच्यतेगौरश्वात्मनाऽसन् ' इति न तु 'असन् गौर्गवात्मना' इत्येवं गवात्मनापि. यदि सर्वमभावात्मकमेव स्यात्तदा गोर्गवात्मनाप्यसत्त्वमुच्येत- 'गौर्गवात्मनाप्यसन् ' इति, न त्वेवमुच्यते इत्येवमऽवचनाद् गोर्गवात्मना= स्वरूपेण सत्त्वं सिद्धमिति स्वभावस्य= स्वरूपस्य सिद्धिर्जाता तया च तुच्छत्वं निवृत्तमित्यर्थः / एवम्- 'अनश्वोऽश्वः' 'गौरगौः' इत्यादिकमपि नोच्यते तस्मात् भावानां स्वरूपसिद्धिर्जातेति न तुच्छत्वं संभवति, अभावात्मकत्वे च 'गौरगौः' इत्येवमप्युच्येत / 'असन् गौरश्वात्मना' इत्यनेन हि गोरश्वत्वं प्रतिषिध्यते न तु भावत्वं वा स्वरूपं वेति तस्याशयः / स्पष्टमन्यत् // ननु यदि गवादीनामभावात्मकत्वं नास्ति तदा 'असन् गौरश्वात्मना' इत्यादिप्रतीतिप्रयोगौ कथं भवतः ? इत्याशङ्कय तत्समाधत्ते- अव्यतिरेकेति, अव्यतिरेकस्य= गवाश्वयोरभेदस्य प्रतिषेधे= प्रतिषेधार्थम्= भेदबोधनार्थ भेदबोधनकाले वा भावानाम्= पदार्थानाम् 'असन् गौरश्वात्मना' इत्याद्याकार