________________ 364 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेनिरुपाख्योऽनेकतया= अशेषतया शक्यः प्रतिज्ञातुमिति / सर्वमेतदभाव इति चेत् ?= यदिदं सर्वमिति मन्यसे तदभाव इत्येवं चेत् ? अनिवृत्तो व्याघातः- अनेकमशेषं चेति नाऽभावप्रत्ययेन शक्यं भवितुम्. अस्ति चायं प्रत्ययः- सर्वमिति. तस्मान्नाऽभाव इति / प्रतिज्ञाहेत्वोश्च व्याघातः- 'सर्वमभावः' इति भावप्रतिषेधः प्रतिज्ञा. 'भावेष्वितरेतराभावसिद्धेः' इतिहेतुः. भावेवितरेतराभावमऽनुज्ञाय= आश्रित्य चेतरेतराभावसिद्धौ सर्वमभाव इत्युच्यते. यदि सर्वमभावः ? " भावेष्वितरेतराभावसिद्धेः" इति नोपपद्यते. अथ भावेष्वितरेतराभावसिद्धिः ? सर्वमभाव इति नोपपद्यते // 37 // सूत्रेण चाभिसंबन्धः न- स्वभावसिद्धेर्भावानाम् // 38 // न सर्वमभावः, कस्मात् ? स्वेन भावेन सद्भावाद भावानाम्= स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते / कश्च स्वो धर्मो भावानाम् ?, द्रव्यगुणकर्मणां सदादि सामान्यम्. द्रव्याणां व्याख्यातं मयेति तत्रैव विस्तरेण द्रष्टव्यम् / अभावशब्दस्यार्थमाह- भावेति / स्वाभिप्रायमाह- पूर्वमिति, पूर्वम्= सर्वशब्दार्थभूतमशेषत्वं सोपाख्यम्= निर्वक्तुं शक्यम्= सदिति यावत् , उत्तरम्= अभावपदार्थभूतं तुच्छं निरुपाख्यम्= असदेव, तयोरक्याभावमाह- तत्रेति, तत्र एवं सति समुपाख्यायमानम् सत्पदार्थभूतमशेषत्वं निरुपाख्यमभावपदार्थभूतं कथं स्यादित्यन्वयः, 'सर्वमभावः / इत्यनेन सदसतोरशेषतुच्छयोरभेद उच्यते स च न संभवति-परस्परं परमविरोधादित्यर्थः। उक्तमेव विशदयति- न जात्विति, निरुपाख्यलक्षणोऽभावपदार्थः= तुच्छः अशेषतया= अशेषत्वेन रूपेण प्रतिज्ञातुं न शक्यते इत्यन्वयः, तुच्छस्याशेषत्वं न संभवति- परस्परं विरोधादित्यर्थः / किं वा यथाऽशेषस्य तुच्छत्वं न संभवति तथा तुच्छस्याप्यशेषत्वं न संभवतीति वैपरीत्येनाह- न जात्विति / नन्वशेषत्वमपि तुच्छमेवेति न तयोरभेदानुपपत्तिस्तथा च न प्रतिज्ञानुपपत्तिरित्याशङ्कते- सर्वमिति / उक्तपूर्वपक्षं व्याचष्टे- यदिदमिति, यत्वया भावपदार्थवादिना सर्वपदार्थोऽशेषत्वं स्वीकृतं तदपि तुच्छमेवेत्यर्थः / उक्ते. दोपमाह- अनिवृत्त इति, यः खलु व्याघातः प्रदर्शितः स एवमपि न निवृत्त इत्यन्वयः / व्याघातं प्रदर्शयति- अनेकमिति, अशेषमित्याकारकं ज्ञानम् अभावज्ञानं न भवितुमर्हतीत्यर्थः, अशेषत्वस्यानेकत्वस्य च भावरूपत्वादभावविषयकज्ञानविषयत्वं न संभवति अशेषज्ञानं चाभावविषयकं न संभवतीत्यर्थः, अशेषत्वाभावयोरैक्यं न संभवतीति यावत् / पूर्वपक्षिमते बाधकमाह- अस्तीति, सर्वमिति ज्ञानं चास्ति तेन तद्विषयभूतमशेष सिद्धं तञ्च भावरूपमेव न त्वभावरूपमिति न सर्वमभावात्मकं सिध्यतीत्यर्थः / द्वितीयं व्याघातमाह- प्रतिज्ञेति / प्रतिज्ञामाह- सर्वमिति / हेतुमाह- भावेष्विति / पूर्वपक्षस्वरूपमाह- भावेष्विति, भावेषु= भावानामुक्तरीत्या इतरेतराभावम् अन्योन्याभावात्मकत्वमाश्रित्य तादृशस्येतरेतराभावस्य सिद्धौ= सिद्धया 'सर्वमभावः= अभावात्मकम् / इत्युच्यते= प्रतिज्ञायते बौद्धेनेत्यन्वयः / अत्र व्याघातदोषमाह- यदीति, यदि सर्वमभावात्मकमेव तदा भावस्याभावाद् भावपदार्थघटित:- "भावेष्वितरेतराभावसिद्धेः" इति हेतुनोपपद्यते, अथ= यदि च भावेष्वितरेतराभावसिद्धिर्नाम भावपदार्थघटितहेतोः सिद्धयर्थ भावपदार्थः स्वीक्रियते तदा 'सर्वमभावः' इति प्रतिज्ञा नोपपद्यते इति प्रतिज्ञाहेत्वोः परस्परं विरोध इति न सर्वशून्यतावादः सिध्यतीत्यर्थः // 37 // ____ अग्रिमसूत्रमवतारयति- सूत्रेणेति, उक्ते शून्यतावादे सूत्रेण दोष उच्यते इत्यर्थः / नेति- सर्वस्य तुच्छत्वं न संभवति- भावानाम्= पदार्थानां स्वभावसिद्धेः= स्वरूपस्य सिद्धत्वात् , यस्य चास्ति स्वरूपं न तत् तुच्छं भवितुमर्हति- निस्स्वरूपस्यैव शशविषाणादेस्तुच्छत्वसंभवादिति सूत्रार्थः / व्याचप्टेनेति / उक्त हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- स्वेनेति, भावेन भावत्वेन= स्वरूपेण / उक्तं