________________ प्रेत्यभावविवेचने सर्वशून्यत्वनिराकरणम् ] न्यायभाष्यम् / 363 एवाभ्युनुज्ञायते- एकसमुच्चयो हि समूह इति / समूहे भावशब्दप्रयोगादिति च समूहमाश्रित्य प्रत्येके समूहिप्रतिषेधः- नास्त्येको भाव इति, सोयमुभयतो व्याघाताद् यत्किंचन वाद इति // 36 // अयमपर एकान्तः सर्वमभावः- भावेष्वितरेतराभावसिद्धेः // 37 // यावद् भावजातं तत्सर्वमऽभावः, कस्मात् ?, भावेष्वितरेतराभावसिद्धेः= ' असन् गौरश्वात्मना' 'अनश्वो गौः ' ' असन्नऽश्वो गवात्मना'' अगौरश्वः' इत्यऽसत्सत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वमभाव इति // प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश्च व्याघातादयुक्तम् // अनेकस्याऽशेषता. सर्वशब्दस्यार्थः भावप्रतिषेधश्चाऽभावशब्दस्यार्थः. पूर्व सोपाख्यम् उत्तरं निरुपाख्यम् . तत्र समुपाख्यायमानं कथं निरुपाख्यमऽभावः स्यादिति न जात्वभावो ज्ञायते स एवैकोऽभ्यनुज्ञायते= स्वीक्रियते इत्यन्वयः / उक्ते हेतुमाह- एकेति, यत एकसमुच्चयः= एकत्वावच्छिन्नतत्तत्पदार्थसमुदाय एव समूहस्ततः समूहं स्वीकुर्वता एकः स्वीकृत एवेत्यर्थः / उपसंहरति- समूहे इति, “समूहे भावशब्दप्रयोगात्" इतिवाक्येन समूह आश्रितः= स्वीकृतस्ततश्च "नास्त्येको भावः” इत्यनेन प्रत्येकम् = तस्य तस्य समूहिनः= एकस्यावयविनः प्रतिषेधः क्रियते स च प्रतिषेधो व्याहत एवेत्याहसोयमिति, उभयतो व्याघातो यथा- एकाभावे समूहोपि न संभवति यद्यस्ति समूहस्तदैकाभावो न संभवतीत्युभयतः पाशारज्जुरिति सोयमेकप्रतिषेधवादो यत्किंचन= तुच्छ एवेत्यर्थः / अत्र- "यश्वायं हेतुः- समूहे भावशब्दप्रयोगादिति. उभयतो व्याघातान्न किंचिदेतत् , कथमुभयतः (व्याघातः) ? 'न कश्चिदेको भावः- समूहे भावशब्दप्रयोगात् ' इतिप्रतिज्ञाहेत्वोाघातः- यस्मादेकार्थानुपपत्तौ न समूह उपपद्यते इति, समूहं चाश्रित्यैकं प्रत्याचक्षाणेन समूह एव प्रत्याख्यातो भवतीति सोयमुभयतो व्याघाताद् यत्किंचनवादः" इतिवार्तिकम् // 36 // // इति सर्वनानात्वनिराकरणं समाप्तम् // शून्यतावादमुपस्थापयति- अयमिति, एकान्तः= एकरूपः सिद्धान्तः / सर्वमिति- सर्वमभावः= अभावात्मकम्= शून्यमेव-भावेषु भावानां घटपटादीनाम् इतरेतराभावसिद्धेः= अन्योन्याभावरूपत्वात् यथा- 'घटः पटो न' इत्यन्योन्याभावेन घटस्य पटाभावरूपत्वं प्रतीयते एवं सर्वत्रेति सर्वस्याभावरूपत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे-यावदिति / हेतुमाह- भावेष्विति / उदाहरति- असन्निति, गौरश्वात्मनाऽसन्' इत्यत्र गोरसद्रूपत्वम्= अभावात्मकत्वं प्रतीयते इत्यर्थः / 'असन् गौरश्वात्मना' इत्यादिस्थलेऽसत्प्रत्ययस्य 'अनश्वो गौः' इत्यादिस्थले च प्रतिषेधस्य= प्रतिषेधबोधकस्य अश्वाभावबोधकस्यानश्वशब्दस्य भावशब्देन= गवादिशब्देन सामानाधिकरण्यादभावात्मकत्वं गवादीनां सिद्धं यथा 'नीलो घटः' इत्यत्र नीलप्रत्ययसामानाधिकरण्याद् घटस्य नीलत्वमित्यर्थः, स्पष्टमन्यत् // ___ उक्तशून्यतावादं भाष्यकारो निराकरोति- प्रतिज्ञेति, 'सर्वमभावः' इति प्रतिज्ञावाक्ये सर्वपदाभावपदयोः= सर्वपदार्थाभावपदार्थयोर्व्याघातः= परस्परं विरोधः- भावरूपस्यसर्वपदार्थस्य शून्यत्वासंभवात् , तथा प्रतिज्ञाहेत्वोश्च परस्पर विरोधः- हेतुघटकभावपदार्थस्वीकारे प्रतिज्ञातं सर्वाभावत्वं न संभवति. प्रतिज्ञोक्तसर्वाभावत्वस्वीकारे च हेतुघटकभावपदार्थों न संभवतीति. एतस्माद् व्याघातात् पूर्वोक्तं सर्वशून्यत्वं नोपपद्यते इत्यर्थः / स्वयं व्याचष्टे- अनेकस्येति, अनेकत्वविशिष्टानां घटादीनां यदशेषत्वम्= यावत्त्वं तदेव सर्वशब्दार्थो यथा- 'सर्वे घटाः पार्थिवाः' इत्यत्राशेषाणां घटानां पार्थिवत्वं प्रतिपाद्यते- सर्वशब्दसामानाधिकरण्यादित्यशेषत्वं सर्वपदार्थः इत्यर्थः, तदेतत् शक्तिवादस्यादर्शे