________________ अल्पवितण्डाप्रयोजनम् ] न्यायभाष्यम् ताभ्यां विगृह्य कथनम् // 51 // विगृह्येति विजिगीषया न तत्त्वबुभुत्सयेति, तदेतद् विद्यापालनार्थ न लाभपूजाख्यात्यर्थमिति // 51 // // इति श्रीवात्स्यायनविरचिते न्यायभाष्ये चतुर्थोध्यायः समाप्तः॥ अत्र- "न केवलं तदर्थ घटमानानां जल्पवितण्डे अपि तु विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य (अपि)" इति तात्पर्यटीका। ताभ्यामिति- परेणावज्ञायमानेनापि ताभ्याम्= जल्पवितण्डाभ्यां विगृह्य-विवादेन कथनम्= परपक्षनिराकरणं कर्तव्यमिति सूत्रान्वयः / व्याचष्टे-विगृह्येति, विगृह्येतिपदस्य विजिगीषयेत्यर्थस्तथा च विजिगीषायां सत्यां जल्पवितण्डयोः प्रयोगः कर्तव्यो न तु तत्त्वबुभुत्सायामित्याशयः। उपसंहरति- तदिति, एतत्= जल्पवितण्डाभ्यां कथनं स्वविद्यारक्षणार्थमेवास्ति न तु लाभाद्यर्थम्- जल्पवितण्डाभ्यां परपक्षनिराकर्तुरपि ख्यात्यादेरसंभवादिति स्पष्टमेव / संप्रति त्वेतद्विपरीतमेव दृश्यते- यद्वैतण्डिकानामेव पूजादिकं भवतीति कालमाहात्म्यमित्यलम् / अत्र समा. प्तिवार्तिकम् "प्रवृत्तिदोषसंबद्धः प्रेत्यभावः प्रपश्चितः / * फलं दुःखं विमुक्तिश्च तदुपायश्व कीर्तिताः” इति // 51 // // इति न्यायभाष्यचतुर्थाध्यायस्य प्रसन्नपदाख्या व्याख्या समाप्ता // .