________________ 360 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेपृथिव्याद्यभावे सर्वव्यवहारविलोप इतिचेत् ? तदितरत्र समानम् // उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्यभावे सर्वव्यवहारविलोप इति. सोयं नित्यानामीन्द्रियत्वादविषयत्वाचोत्पत्तिविनाशयोः 'स्वप्मविषयाभिमानवत् ' इत्यहेतुरिति // 32 // ____ अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रमुपजायते स खलूत्पत्तिविनाशयोविषयः, यचोपजायते तत् प्रागप्युपजननादस्ति यच्च निवर्तते तद् निवृत्तमप्यस्तीति एवं च सर्वस्य नित्यत्वमिति न-व्यवस्थानुपपत्तेः // 33 // ___ अयमुपजन इयं निवृत्तिरिति व्यवस्था नोपपद्यते- उपजातनिवृत्तयोविद्यमानत्वात्, अयं धर्म उपजातोऽयं निवृत्त इति सद्भावाविशेषादव्यवस्था, इदानीमुपजननिवृत्ती नेदानीमिति कालव्यवस्था नोपपद्यते- सर्वदा विद्यमानत्वात, अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः- उभयोरविशेषात, अनागतोऽतीत इति च कालव्यवस्थानुपपत्तिः- वर्त ननु पृथिव्यादीनामभावे= मिथ्यात्वे, सर्वव्यवहारविलोपः स्यादिति न भूतज्ञानं मिथ्या स्वीकार्यम् उत्पत्तिविनाशकारणज्ञानस्य तु मिथ्यात्वेपि न काचित् क्षतिरस्तीति तस्य मिथ्यात्वं स्वीकार्यमित्याशङ्कते- पृथिव्याद्यभावे इति / उत्तरमाह- तदिति, तत्= सर्वव्यवहारविलोपः इतरत्र= उत्पत्तिविनाशकारणाभाबेपि समानम्= तुल्य एव- सर्वनित्यत्वे कस्याप्युत्पादविनाशार्थ व्यवहारो न स्यादित्यर्थः / स्वयं व्याचष्टे- उत्पत्तीति, उत्पत्तिविनाशकारणोपलब्धिविषयस्य= उत्पत्तिविनाशकारणस्य, अभावे= मिथ्यात्वे, तदेतत् उत्तरपक्षमात्रस्य व्याख्यानम् / उपसंहरति- सोयमिति, " स्वप्नविषयाभिमानवत्" इत्ययमुक्तो हेतुः अहेतुः सर्वनित्यत्वसाधको न संभवति-नित्यानामतीन्द्रियत्वाद् उत्पत्तिविनाशयोरविषयत्वाच्चोत्पत्तिविनशयोर्विषयभूतमनित्यं प्रत्यक्षयोग्यं स्वीकार्यमेवेत्यर्थः / अत्र- " उत्पत्तिविनाशाभिमान इति च ब्रुवता उत्पत्तिविनाशयोर्विषयो वक्तव्यः न च सर्वनित्यवादिनामुत्पत्तिविनाशयोर्विषयोस्ति " इति वार्तिकम् // 32 // प्रकारान्तरेण सर्वनित्यत्वमुपपादयति- अवस्थितेति, अवस्थितस्य नित्यस्य, उपादानस्य= उपादानकारणस्य मृदादेः, धर्ममात्रम्= आकृतिमात्रम्। सः= धर्मः। एवमपि सर्वस्य नित्यत्वं न प्राप्तमित्याशङ्कयाह- यच्चेति, यत् धर्ममात्रम् / उपसंहरति- एवमिति / अत्र- " तदेवं सांख्यानां मतमपास्य स्वायंभुवानां मतं दूषयति" इति तात्पर्यटीका सा चैषा चिन्तनीयैव सांख्यैर्वा यौगिकैर्वा सर्वनित्यत्वस्याऽप्रतिपादितत्वात् / किं वा सांख्ययोगाभ्यां सद्वादस्वीकारादत्र नित्यत्वशब्दः सद्वादपरो विज्ञयः / ___ उक्तं सूत्रकारो निराकरोति-नेति, सर्वनित्यत्वं न संभवति-सर्वनित्यत्वे उत्पादविनाशव्यवस्थाया अनुपपत्तेः, किं वा उत्पत्तिविनाशकारणज्ञानस्य भ्रमत्वं न संभवति- अबाधितस्याप्युत्पत्तिविनाशकारणज्ञा. नस्य भ्रमत्वे भ्रमप्रमाव्यवस्थाया अनुपपत्तेरिति सूत्रार्थः / व्याचष्टे- अयमिति, सर्वनित्यत्वेऽयमुपजन:उत्पत्तिः, इयं निवृत्तिः= विनाश इति प्रत्यक्षसिद्धा व्यवस्था नोपपद्यते / उक्ते हेतुमाह- उपजातेति, उपजातनिवृत्तयोः= उत्पन्नविनष्टयोस्त्वदुक्तरीत्या विद्यमानत्वादेवोत्पत्तिविनाशसिद्धिः कथं स्यादित्यर्थः / उत्पादविनाशयोरव्यवस्था सद्भावादाह- अयं धर्म इति, अयं धर्म उत्पन्नोऽयं च विनष्ट इति व्यवस्था न संभवति- उभयोरपि सद्भावाविशेषादित्यन्वयः / कालाव्यवस्थामाह- इदानीमिति, एषा कालव्यवस्थापि नो पपद्यते- पदार्थमात्रस्य नित्यत्वे सदा सद्भावादित्यर्थः। पुनरपि उत्पत्तिविनाशयोः स्वरूपाऽव्यवस्थामाहअस्येति, उभयोः= उक्तधर्मयोः, अविशेषात्= विद्यमानत्वादेव / पुनः कालाव्यवस्थामाह- अनागत इति, हेतुमाह- वर्तमानस्येति, वर्तमानस्य सद्भावलक्षणत्वात् सद्रूपत्वात् , सर्वनित्यत्वे च सर्व सदेव सत्त्वेन