________________ प्रेत्यभावविवेचने सर्वनानात्वनिराकरणम् ] न्यायभाष्यम् / 361 मानस्य सद्भावलक्षणत्वात् / अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिः इत्येतस्मिन् सति नैते दोषाः, तस्माद् यदुक्तम्- ' प्रागप्युपजननादस्ति निवृत्तं चास्ति' (इति) तदयुक्तमिति // 33 // अयमन्य एकान्तः सर्वे पृथक्-भावलक्षणपृथकत्वात् // 34 // सर्व नाना= न कश्चिदेको भावो विद्यते, कस्मात् ?, भावलक्षणपृथक्त्वात्= भावस्य लक्षणम्= अभिधानम्= येन लक्ष्यते भावः स समाख्याशब्दः तस्य पृथग्विषयत्वात्= सर्वो भावसमाख्याशब्दः समूहवाची, 'कुम्भः ' इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बुनपार्चग्रीवादिसमूहे च वर्तते, निदर्शनमात्रं चेदमिति // 34 // न- अनेकलक्षणैरेकभावनिष्पत्तेः // 35 // ' अनेकविधलक्षणैः' इति मध्यमपदलोपी समासः, गन्धादिभिश्च गुणैर्बुधादिभिश्चावयवैः संबद्ध एको भावो निष्पद्यते / गुणव्यतिरिक्तं च द्रव्यम् अवयवातिरिक्तश्चाऽवयवीति, विभक्तन्यायं चैतदुभयमिति // 35 // च वर्तमानत्वं प्राप्तं वर्तमानत्वे चातीतत्वमनागतत्वं च नोपपद्यते इति कालाव्यवस्थेत्यर्थः / स्वपक्षे उक्तदोषाणामभावमाह- अविद्यमानस्येति, तदेतदुत्पादविनाशयोर्लक्षणमुक्तम् , आत्मलाभः= स्वरूपलाभः, उपजनः= उत्पत्तिः, निवृत्तिः= विनाशः, इत्येतस्मिन् सति= इत्येवमुत्पत्तिविनाशयोः स्वीकारे कृते सति पूर्वोक्ता दोषा न संभवन्तीत्यऽनित्यमपि स्वीकार्यमित्यर्थः / उपसंहरति- तस्मादिति, तस्मात्= सर्वनित्यत्वे दोषसद्भावात् “प्रागप्युपजननादस्ति " इत्यादिना यत् सर्वनित्यत्वमुक्तं तन्न युक्तमित्यन्वयः, * स्पष्टमन्यत् // 33 // // इति सर्वनित्यत्वनिराकरणं समाप्तम् // अग्रिमप्रकरणमवतारयति- अयमिति, एकान्तः= नियतरूपः सिद्धान्तः, बौद्धस्येतिशेषः / सर्वमिति- सर्व घटपटादिकं पृथक्= नाना= अवयवसमुदायरूप एव न त्वेकोऽवयवी-भावलक्षणानाम्= पदार्थावयवानां परस्परं पृथक्त्वात्= नानात्वात् , अवयवसमुदायस्यैव घटादिपदार्थत्वादिति सूत्रार्थः / व्याचष्टे- सर्वमिति / एतदपि व्याचष्टे- नेति, अवयवसमुदाय एव घटादिशब्दवाच्योस्ति न त्वेकोऽवयवीत्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- भावेति / हेतुवाक्यं व्याचष्टे- भावस्येति / लक्षणपदार्थमाह- अभिधानमिति / लक्षणशब्दव्युत्पत्तिमाह- येनेति / पर्यवसितमाह- समाख्येति, अत्र लक्षणशब्देन समाख्याशब्दः= घटादिवाचको घटादिशब्दो ग्राह्य इत्यर्थः / पृथग्विषयत्वं च अवयवसमुदायवाचकत्वं तदाह- सर्व इति / उदाहरति- कुम्भ इति, वर्तते= गन्धाद्यवयववृन्दवाचक इत्यर्थः, एवं पटादिशब्दानामप्यवयववृन्दवाचकत्वं विज्ञेयमित्याह- निदर्शनमात्रमिति // 34 // ___ उक्तमतं निराकरोति-नेति, एकस्याऽवयविनो नाऽभावः संभवति- अनेकलक्षणैः= अनेकैरवयवैरेकस्य भावस्य= पदार्थस्य घटादेनिष्पत्तेः= उत्पत्तिसंभवादिति सूत्रार्थः / अयं विषयो द्वितीयाध्यायप्रथमाह्रिकेपि प्रतिपादितः / व्याचष्टे- अनेकेति, अनेकविधलक्षणैरित्यनेकलक्षणैरिति 'शाकपार्थिवः' इतिवत् मध्यमपदलोपी समासः / अनेकलक्षणान्याह- गन्धादिभिरिति / अवयवैः संबद्धः= अनेकावयवसमवेतः, भावः= घटादिपदार्थः / निष्पद्यते= उत्पद्यते / गन्धादिभ्यो घटादिद्रव्यस्य भेदमाह-गुणेति, द्रव्यं गुणादिव्यतिरिक्तं गुणादीनामाश्रयत्वादित्यर्थः / अवयविनोऽवयवातिरिक्तत्वमाह-अवयवेति, अवयवावयविनोश्च