________________ प्रेत्यभावविवेचने सर्वनित्यत्वप्रत्याख्यानम् ] न्यायभाष्यम् / 359 कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते न चैतदुभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम्- न चाऽविषया काचिदुपलब्धिः, उपलब्धिसामात् कारणेन समानगुणं कार्यमुत्पद्यते इत्यनुमीयते स खलूपलब्धेविषय इति, एवं च तल्लक्षणावरोधोपपत्तिरिति / उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति / प्रसिद्धश्चावयवी तद्धर्मा= उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति / शब्दकर्मबुद्धयादीनां चाऽव्याप्तिःपश्चभूतनित्यत्वात् तल्लक्षणावरोधाच्चेत्यनेन शब्दकर्मबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च न व्याप्तास्तस्मादनेकान्तः // स्वप्नविषयाभिमानवद् मिथ्योपलब्धिरितिचेत् ? भूतौपलब्धौ तुल्यम् // यथा स्वप्ने विषयाभिमान एवमुत्पत्तिकारणाभिमान इति, एवं च एतद् भूतोपलब्धौ तुल्यम्= पृथिव्यायुपलब्धिरपि स्वमविषयाभिमानवत् प्रसज्यते // व्याचष्टे- कारणेति, कारणसमानगुणस्य= कारणगुणसमानगुणविशिष्टस्य कार्यस्य गोघटादेरुत्पत्तिः कारणं च मृदादिकमुपलभ्यते एतदुभयम्= उत्पत्तिज्ञानं कारणज्ञानं च नित्यविषयकं न संभवतीति न सर्वनित्यत्वं संभवतीत्यन्वयः / ननूत्पत्तितत्कारणोपलब्धिर्धान्तिरव किं वा नास्त्येवेत्याशङ्कयाह-न चेति / भ्रान्तित्वपक्षे दोषमाह- न चेति, उत्पत्तितत्कारणोपलब्धेविषय उत्पत्तिस्तत्कारणं च न च तदुपलब्धर्बाधो दृश्यते येन भ्रान्तित्वं स्याद् इति प्रामाणिकत्वं सिद्धं तेनानित्यत्वं घटादीनां सिद्धमित्याह- उपलब्धि. सामर्थ्यादिति, सः= उत्पद्यमानो गोघटादिपदार्थः / उपसंहरति- एवमिति, एवम् = भूतकार्यत्वात् भूतलक्षणाक्रान्तत्वमुपपद्यते यथा मृत्कार्यत्वाद् घटस्य मृलक्षणाक्रान्तत्वम्. न च भूतलक्षणाक्रान्तत्वानित्यत्वं संभवति- उत्पत्तिविनाशयोः प्रत्यक्षत्वादित्यर्थः / उत्पत्तिविनाशयोरुपपत्त्यन्तरमाह- उत्पत्तीति, उत्पत्तिविनाशकारणप्रयुक्तस्य= उत्पत्तिविनाशकारणज्ञानप्रयुक्तस्य तज्ज्ञातुरुत्पत्तिविनाशविषयकः प्रयत्नो दृश्यते तत्फलभूतावुत्पत्तिविनाशावपि दृश्येते तत्सर्वं सर्वनित्यत्वे बाध्यते न चैतद् युक्तमिति न सर्व. नित्यत्वं संभवतीत्यर्थः / अनित्यत्वे प्रत्यक्षं प्रमाणयति- प्रसिद्ध इति, एतद् व्याचष्टे- उत्पत्तीति, अवयवी कार्यम् , सिद्धः= प्रत्यक्षसिद्ध इति नानित्यस्य प्रत्याख्यानं संभवतीत्यर्थः / हेतुदोषमाहशब्देति, शब्दकर्मबुद्धयादीनाम्= शब्दकर्मबुद्धयादिषु भूतलक्षणावरोधात्इति= भूतलक्षणाक्रान्तत्वं हेतुर्नास्तीति हेतोरव्याप्तिः= स्वरूपासिद्धिस्तया शब्दादीनां नित्यत्वाभावः प्राप्त इत्यर्थः, एतद् व्याचष्टेपञ्चेति, इत्यनेन नित्यत्वसाधकेन हेतुना शब्दादयो न व्याप्ताः= नाक्रान्ता इति हेतुरयमनेकान्तःअव्यापकः= क्वचिद् गोघटादिषु वर्तते कचित् शब्दादिषु च न वर्तते इत्यनेकान्तस्तस्मादनेन दुष्टेन हेतुना सर्वस्य नित्यत्वं न सिध्यतीत्यर्थः / अत्र- " अपि चाव्यापको हेतुरित्याह- शब्दकर्मबुद्धयादीनां चाव्याप्तिः (इति) अव्यापकश्चानेकान्त उक्तः, पक्षो हि सर्व नित्यमिति तस्मिन् सत्वासत्त्वाभ्यामऽनेकान्तः= नैकः सत्त्वासत्त्वलक्षणोऽन्तोऽस्येत्यनेकान्तः” इति तात्पर्यटीका // ननु यथा स्वप्ने विनैव पदार्थ स्वप्नविषयस्य= स्वाप्नपदार्थस्याभिमानः= मिथ्याज्ञानं भवति तथोत्पतिविनाशकारणस्यापि मिथ्योपलब्धिः= भ्रान्तिरेव संभवतीति न तया कस्याप्यनित्यत्वमुपपद्यते इत्याशङ्कते- स्वप्नेति / उत्तरमाह- भूतेति, एवं हि भूतोपलब्धिरपि मिथ्या स्यात्तथा च भूतानां मिथ्यात्वमेव स्यान्न तु नित्यत्वमित्यर्थः, एवं हि भूतोपलब्धौ तुल्यं मिथ्यात्वं प्रसज्येतेत्यन्वयः / व्याचष्टेयथेति, विषयाणामभिमानः= मिथ्याज्ञानम् / प्रकृतमाह- एवमिति / उत्तरमाह- एवं चेति, एतत्= मिथ्यात्वम् / उक्तं व्याचष्टे- पृथिव्यादीति, प्रसज्यते= मिथ्या स्यात् , तेन च भूतानां मिथ्यात्वमेव स्यान्न तु नित्यत्वमित्यर्थः॥