________________ 358 प्रसन्नपदापरिभूषितम् [4 अध्याये. १आह्निके अयमन्य एकान्तः सर्वं नित्यम्- पञ्चभूतनित्यत्वात् // 29 // भूतमात्रम् इदं सर्वं. तानि च नित्यानि- भूतोच्छेदानुपपत्तेरिति // 29 // न- उत्पत्तिविनाशकारणोपलब्धेः // 30 // उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च तत् सर्वनित्यत्वे व्याहन्यते इति // 31 // तल्लक्षणावरोधादप्रतिषेधः // 31 // यस्योत्पत्तिविनाशकारणमुपलभ्यते इति मन्यसे न तद् भूतलक्षणहीनमर्थान्तरं गृह्यते. भूतलक्षणावरोधाद् भूतमात्रमिदम् इत्यऽयुक्तोयं प्रतिषेध इति // 31 // न- उत्पत्तितत्कारणोपलब्धेः // 32 // नित्यपदार्थानाह-न चेति, परमसूक्ष्मभूतानाम्= परमाणूनां आकाशादीनां सामान्यादीनां चोत्पत्तिविनाशधर्मकत्वाभावान्नित्यत्वं सिद्धमित्यर्थः / एतेषां च गुणाः सर्वे न नित्याः किं तु केचिदेवेत्युक्तम्- केषां चिदिति, यथा नित्यानां परिमाणलक्षणो गुणो नित्यः पृथक्त्वं च नित्यमेवमन्यदपि विज्ञेयम् // 28 // // इति सर्वानित्यत्वप्रत्याख्यानं समाप्तम् // सर्वनित्यत्वमतमुपक्रमते- अयमिति, एकान्तः= पूर्वपक्षिनियमः= पूर्वपक्षिमतमितियावत् / सर्वस्य नित्यत्वस्वीकारादेकान्तत्वम्= एकरूपत्वमित्यक्षरार्थः / सर्वमिति, पञ्चानां भूतानां नित्यत्वात् तद्विकारात्मकमपि सर्व नित्यमेवेति सूत्रार्थः / व्याचष्टे- भूतमात्रमिति, इदम्= गोघटादिकम् , तानि= भूतानि / भूतनित्यत्वे हेतुमाह- भूतोच्छेदेति, उछेदः= विनाशः / तस्मात्सर्वं नित्यम् , स्पष्टं सर्वम् // 29 // ___ उक्तं निराकरोति- नेति, सर्वनित्यत्वं न संभवति- गोघटादीनां बहूनां पदार्थानामुत्पत्तिविनाशकारणोपलब्ध्या उत्पत्तिविनाशयोः प्रामाणिकत्वादिति सूत्रार्थः / व्याचष्टे- उत्पत्तीति, तत्= उपलभ्यमानमुत्पत्तिकारणं विनाशकारणं च, व्याहन्यते= विरुध्यते, यदि सर्व नित्यं स्यात्तदा कस्याप्युत्पत्तिकारणं विनाशकारणं च नोपलभ्येत उपलभ्यते तु तस्मान्न सर्व नित्यमित्यन्वयः // 30 // उक्तं पूर्वपक्षी पराकरोति- तदिति, सर्वस्य तल्लक्षणावरोधात्= भूतलक्षणाक्रान्तत्वात् भूतानां च नित्यत्वाद् नित्यत्वं प्राप्तमिति सर्वनित्यत्वस्य प्रतिषेधो नोपपद्यते, भूतलक्षणं च विशेषगुणवत्वं तच्च गोघटादिष्वपि सर्वेष्वस्त्येव, भूतानां च पृथिव्यादीनामुत्पत्तिविनाशयोरदर्शनादेव नित्यत्वं तदभेदात् सर्वस्य नित्यत्वमिति सूत्रार्थः / व्याचष्टे- यस्येति, यस्य त्वयोत्पत्तिविनाशौ गृह्यते तदपि भूतलक्षणहीनम् अर्थान्तरम्= भूतातिरिक्तं न गृह्यते किं तु भूतमेव तथा च सर्व गोघटादिकं भूतलक्षणयुक्तत्वाद् भूतमेव भूतानि च नित्यानीति तदभेदात् सर्व नित्यमेवेति सिद्धं तथा चाऽयं प्रतिषेधः= पूर्वोक्तः सर्वनित्यत्वप्रतिषेधो न युक्त उत्पत्तिविनाशकारणज्ञानं च भ्रम इत्यन्वयः, सर्व स्पष्टार्थम् / वस्तुतस्तु घटादीनामाकृतेरेव विनाशो दृश्यते न द्रव्यस्येति पूर्वपक्ष्याशयः स्यादिति संभावयामि // 31 // उक्तं सिद्धान्ती निराकरोति-नेति, सर्वनित्यत्वं न संभवति-गोघटादीनामुत्पत्तेरुत्पत्तिकारणस्य चोपलब्धेः= प्रत्यक्षत्वात् यच्चोत्पद्यते विनश्यति च न तन्नित्यं भवतीति न सर्वनित्यत्वं संभवतीति सूत्रार्थः। अत्र-“भूतसाम्यं गोघटादीनां भूतकार्यत्वेप्युपपद्यमानं न भूतात्मकत्वमवगमयती. त्याशयवानाह- नोत्पत्तितत्कारणोपलब्धेरिति / अपि च यद्युत्पत्तिविनाशौ न भावानां वस्तुसन्तौ कथं प्रेक्षावतामभिमतोत्पत्तिकारणेऽभिमतविनाशकारणे च तदर्थिनां प्रवृत्तिः ?" इति तात्पर्यटीका /