________________ प्रेत्यभावविवेचने अनिमित्तकत्वप्रत्या०] न्यायभाष्यम् / 355 आप्तकल्पश्चायम्= यथा पिताऽपत्यानां तथा पितृभूत ईश्वरो भूतानाम्, न चात्मकल्पादन्यः कल्पः संभवति / न तावदस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः शक्य उपपादयितुम्. आगमाच्च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति / बुद्धयादिभिश्चात्मलिङ्गैर्निरुपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् / स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरस तत्सर्वं प्रसज्यते इति // 21 // अपर इदानीमाह अनिमित्ततो भावोत्पत्तिः- कण्टकतैष्ण्यादिदर्शनात् // 22 // अनिमित्ता शरीराापत्तिः- कण्टकतैक्ष्ण्यादिदर्शनात्= कण्टकस्य तैक्ष्ण्यं पर्वतधातूनां चित्रता ग्राव्णां श्लक्ष्णता. निनिर्मित्तं चोपादानं दृष्टं तथा शरीरसर्गोपीति // 22 // सृष्टिर्भवतीत्यर्थः / अत्र- " नन्वस्य कर्मानुष्ठानाभावात् कुतो धर्मः ? तथा चाणिमादिकमैश्वर्य कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग इत्यत आह / मा भूद् बाह्यानुष्ठानं संकल्पलक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्य जगन्निर्माणफलमिति नाकृताभ्यागमप्रसङ्ग इत्यर्थः" इति तात्पर्यटीका / उपसंहरतिएवं चेति, एवम्= उक्तरीत्या ईश्वरधर्मस्य संकल्पमात्रजन्यत्वात् अकृताभ्यागमप्रसङ्गो नास्तीति स्वकृताभ्यागमस्य= ईश्वरकृतसंकल्पलक्षणानुष्ठानजन्यफलस्याऽलोपेन लोपासंभवात् ईश्वरस्य यद् निर्माणप्राकाम्यम्= जगन्निर्माणकृतिपूर्णत्वं जगन्निर्माणपरत्वं तदेव स्वकृतकर्मफलम्= ईश्वरकृतसंकल्पलक्षणकर्मणो फलं वेदितव्यमित्यन्वयः, ईश्वरः संकल्पमात्रेण जगन्निर्मातीत्यर्थः / __ ईश्वरस्याप्तत्वमाह- आप्तेति, अयम्= ईश्वरः, आप्तलक्षणं पूर्वमुक्तम् शब्दलक्षणभाष्ये / उक्तं व्याचष्टे-- यथेति / ईश्वरस्य पुनरात्मत्वमाह- न चेति, आत्मकल्पात्= आत्मत्वात्= चेतनत्वात् , तदेतत् पूर्व व्याख्यातमेव / ईश्वरस्यानुमापकलिङ्गमाह- न तावदिति, अस्य= ईश्वरस्य, ईश्वरज्ञानमेवेश्वरानुसापकं लिङ्गमस्तीत्यर्थः, प्रपञ्चस्य विलक्षणसंनिवेशेन बुद्धिमत्कर्तृकत्वं सिध्यति यश्चैतादृशनिर्माणविषयकबुद्धिमान् स ईश्वर इति जगन्निर्माणबुद्धया ईश्वरोनुमीयते इति भावः / उक्ते वेदं प्रमाणयति- आगमादिति, सिध्यतीति शेषः, तथा च श्रूयते- " यः सर्वज्ञः सर्ववित्" "द्रष्टा बोद्धा रसयिता" इत्यादि / निर्विशेषब्रह्मणि बाधकमाह- बुद्धयादिभिरिति, प्रत्यक्षानुमानागमविषयतारहितं निरुपा. ख्यम्= निर्विशेष परमेश्वरं बुद्धयादिभिरामलिङ्गैर्न कोप्युपपादयितुं शक्त इत्यन्वयः, ईश्वरस्योपपादनं जगन्निर्माणकौशलबुद्धथैव संभवति ताशबुद्धया च विशिष्ट एवेश्वरः संभवति न तु निर्विशेषोपीत्यर्थः / ईश्वरो जीवकर्मानुकूल्येन जगत् करोति तत्र कर्मनैरपेक्ष्ये पूर्वोक्तदोषं स्मारयति- स्वकृतेति, अस्य= ईश्वरस्य स्वकृताभ्यागमलोपेन= कर्मनैरपेक्ष्येण प्रवर्तमानस्य= यदि जगन्निर्माणप्रवृत्तिः स्यात्तदा अकर्मनिमित्ते= कर्मनिरपेक्षे शरीरसगें तृतीयाध्यायद्वितीयाह्निकान्तिमप्रकरणेन प्रतिषेधजातम्= दोषजातं यदुक्तं तत्सर्व प्रसज्येतेति जीवकर्मानुगुण्येनैवेश्वरः प्रवर्तते इत्यन्वयः / तच्च दोषजातं पूर्वत्र द्रष्टव्यम् // 21 // ॥इतीश्वरकारणत्वप्रतिपादनं समाप्तम् // निष्कारणतावादमवतारयति- अपर इति / अनिमित्तत इति- भावोत्पत्तिः= कार्योत्पत्तिः अनिमित्ततः= निमित्तकारणं विनैव भवति, हेतुमाह- कण्टकेति, यथा कण्टकतैक्ष्ण्यादिकं कार्य विनैव निमित्तकारणेन स्वत एव दृश्यते तथा कार्यमानं शरीरादिकं विनैव निमित्तकारणेन जायते इतिसूत्रार्थः, अत्र निमित्तकारणमात्रस्यादृष्टादिलक्षणस्य प्रतिषेधो विज्ञेयः। कण्टकादीनामचेतनानामदृष्टादिलक्षणं तैक्ष्ण्यादिनिमितं न संभवति- अभावादेवेत्याशयः / व्याचष्टे- अनिमित्तेति / हेतुमाह- कण्टकेति, उक्तं व्याचष्टे- कण्टकस्येति, ग्राव्णाम्= पाषाणानाम् , उपादानम्= उपादानकारणं निर्निमित्तम्