________________ 354 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकन- पुरुषकर्माभावे फलानिष्पत्तेः // 20 // ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्यतेति // 20 // तत्कारितत्वादहेतुः // 21 // पुरुषकारमीश्वरोऽनुगृह्णाति= फलाय पुरुषस्य यतमानस्येश्वरः फलं संपादयतीति. यदा न संपादयति तदा पुरुषकर्माऽफलं भवतीति. तस्मादीश्वरकारितत्वादऽहेतु:- " पुरुषकर्माभावे फलानिष्पत्तेः" इति / ____ गुणविशिष्टमात्मान्तरमीश्वरः तस्याऽऽत्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसंपदा च विशिष्टमात्मान्तरमीश्वरः तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधमैश्वर्यम्, संकल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसंचयान् पृथिव्यादीनि च भूतानि प्रवर्तयति, एवं च स्वकृताभ्यागमस्याऽलोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् / ईश्वरकारणत्वं निराकरोति- नेति, ईश्वरो न कारणम्- पुरुषकर्मणामभावे फलानिष्पत्तेः= फलप्राप्तरदर्शनात् , यदीश्वरः कारणं स्यात्तदा तस्य नित्यत्वेन पुरुषकर्मणामभावेपि कदाचित् फलसिद्धिः स्यात् न चैवं कदापि दृश्यते इति नेश्वरः कारणमिति सूत्रार्थः / व्याचष्ट- ईश्वरेति / अपि तर्हि तदा, समीहामन्तरेण= यत्नं विनापि, स्पष्टं सर्वम् / / 20 // उक्तं प्रत्याचष्टे- तदिति, कर्मफलस्य तत्कारितत्वात्= ईश्वरसंपादितत्वाद् अहेतुः= पूर्वसूत्रोक्तो हेतुन युक्त इत्यन्वयः, रागद्वेषादिदोषरहितत्वादीश्वरः कर्मानुसारेण फलं ददातीति न कर्माभावे फलसंभवः न वेश्वरस्याऽकारणत्वमितीश्वरस्य कारणत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- पुरुषेति, पुरुषकारम्= पुरुषकर्म= पुरुषयत्नम् , अनुगृह्णाति= सफलं करोति न्यायशीलस्वामिवत् , उक्तं व्याचष्टफलायेति / व्यतिरेकमाह- यदेति, उत्तान्वयव्यतिरेकाभ्यामीश्वरस्य फलसंपादकत्वं तेन कारणत्वं सिद्धमित्यर्थः / उपसंहरति- तस्मादिति, फलस्येश्वरकारितत्वात् " पुरुषकर्माभावे " इत्यादिपूर्वसूत्रोक्तो हेतुः अहेतुः= हेत्वाभास एवेत्यन्वयः। प्रकरणप्राप्तमीश्वरं निरूपयति- गुणेति, नित्यज्ञानेच्छादिगुणविशिष्ट आत्मान्तरम्= आत्मविशेष ईश्वरस्तथा च योगसूत्रम्- "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" इति / ईश्वरस्यात्मस्वरूपत्वमाह- तस्येति, आत्मकल्पात्= आत्मविशेषरूपात्= आत्मत्वादतिरिक्तस्य कल्पान्तरस्य= प्रकारान्तरस्य= स्वरूपान्तरस्योपपत्तिर्न संभवति- चेतनत्वादित्यर्थः, अत्र- "आत्मकल्पादित्यत्रात्मप्रकारादात्मजातीयादिति यावत् " इति तात्पर्यटीका / पुनरीश्वरस्वरूपमाह- अधर्मेति, अधर्ममिथ्याज्ञानप्रमादानां हान्या= राहित्येन= अभावेन विशिष्टम्= युक्तमात्मान्तरम्= चेतनविशेष ईश्वर इत्य. न्वयः, तदेतत् “दुःखजन्मप्रवृत्ति" इतिसूत्रभाष्ये स्पष्टम् , संपदा= ऐश्वर्येण, तस्य= ईश्वरस्य, अणिमादीति- तदुक्तम् " अणिमा महिमा चैव लघिमा गरिमा तथा / ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च " इति / ईश्वरस्य धर्ममाह- संकल्पेति, अस्य= ईश्वरस्य संकल्पानुविधायी= संकल्पमात्रजन्यो न तु क्रियाजन्यो धर्मस्तथा च श्रुतिः- “यस्य ज्ञानमयं तपः” इति, अत्र यस्य ईश्वरस्य / ईश्वरधर्मस्य कार्यमाह- प्रत्यात्मेति, प्रत्यात्मवृत्तीन- प्रत्येकात्मसमवेतान् , धर्माधर्मसंचयान= पुण्यपापजन्यानदृष्टान् एतादृशप्रवर्तनया