________________ 353 प्रेत्यभावविवेचने ईश्वरकारणत्वम्] न्यायभाष्यम् / . व्याहतव्यूहानामवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर्नाऽभावात्= बीजावयवाः कुतश्चिनिमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूह जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तरादकर उत्पद्यते- दृश्यन्ते खलु अवयवास्तत्संयोगाश्चाङरोत्पत्तिहेतवः, न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुमिति उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः तस्मान्नाभावाद् भावोत्पत्तिरिति, न चान्यद् बीजावयवेभ्योऽडरोत्पत्तिकारणमित्युपपद्यते बीजोपादाननियम इति // 18 // अथाऽपर आह ईश्वरः कारणम्- पुरुषकर्माऽऽफल्यदर्शनात् // 19 // पुरुषोयं समीहमानी नावश्यं समीहाफलं प्रामोति तेनानुमीयते- पराधीनं पुरुषस्य कर्मफलाराधनमिति. यदधीनं स ईश्वरः तस्मादीश्वरः कारणमिति // 19 // स एवाभावाद् भावोत्पत्तेः पूर्वपक्षिणा हेतुरुच्यते- तादृशकारणाभावस्य कार्यापेक्षया नियमेनाव्यवहितपूर्ववृत्तित्वात् कारणत्वमिति, स च प्रत्यक्षसिद्धः क्रमोऽस्माभिरपि न प्रतिषिध्यते येनास्मन्मते प्रत्यक्षविरोधः स्यात् किं तु कारणाभावस्य कारणत्वं न स्वीक्रियते किं तु कारणस्यैव, कारणाभावस्य कारणत्वे सर्व सर्वत्र सुलभं स्यादित्यर्थः / वस्तुतस्तु सूत्रं भाष्यं चेदं पूर्वपक्षपरमेव प्रतिभाति तथा च 'अप्रतिषेधः' इत्यस्य भावाभावयोः कार्यकारणभावस्याप्रतिषेध इत्यर्थः / ___ उक्तक्रमस्य स्वपक्षेपि संभवमुपपादयति- व्याहतेति, व्याहतव्यूहानाम्= नष्टसंयोगानामवयवानां पूर्वव्यूहनिवृत्तौ= कारणाकृतौ विनष्टायां व्यूहान्तरात्= संयोगान्तरात् कार्य जायते नाऽभावादित्यन्वयः, कार्योत्पत्तेः पूर्वक्षणे कारणस्याकृत्यन्तरं जायते इति प्रसिद्धमेव / कार्योत्पत्तिक्रममाह- बीजेति, कुतश्चिनिमित्तात्= मृत्सलिलसंयोगात्, प्रादुर्भूतक्रियाः= स्थूलीभवनक्रियायुक्ताः, पूर्वव्यूहम्= पूर्वाकृतिम् , व्यूहान्तरम् आकृत्यन्तरम्, तदेतत् प्रत्यक्षवेद्यमेव / भावस्य कारणत्वे प्रत्यक्षं प्रमाणयति-दृश्यन्ते इति, जातेप्यकुरे तद्धोभागे बीजावयवाः संयोगान्तरविशिष्टा दृश्यन्ते एवेति प्रत्यक्षेणैव कारणावयवानां कारणावयवसंयोगानां च कारणत्वं सिद्धमित्यर्थः, अन्यथा कार्योत्पत्तिकालेपि कारणावयवा नोपलभ्येरन् / स्वमते उक्तक्रमस्य संभवमाह- न चेति, पूर्वव्यूहे= पूर्वाकृती, व्यूहान्तरेण= आकृत्यन्तरेण: कार्याकृत्या, कारणाकृतेः कार्याकृतेश्च सामानाधिकरण्यं न संभवतीति कारणाकृत्युपमर्दै विना कार्याकृतिर्न संभवति तत एवोपमर्दप्रादुर्भावयोः= कारणाभावकार्योत्पत्त्योः पौर्वापर्यक्रमनियमोस्ति स चास्मन्मतेप्युक्तरीत्या नानुपपन्न इति नाऽभावाद् भावोत्पत्तिः संभवति किं तु अन्वयव्यतिरेकाभ्यां भावादेवेत्यर्थः / स्वमते साधकान्तरमाह-नचेति, अस्मन्मते बीजाकुरयोः कारणकार्यभावादङ्कुरार्थिनो बीजोपादाननियमः= बीजग्रहणनियम उपपद्यते पूर्वपक्षिमते त्वमावस्यैव कारणत्वं तस्य च सर्वत्र सुलभत्वादकुरार्थिनो बीजग्रहणनियमो नोपपद्यते इत्यर्थः, उपादानशब्दः समवायिकारणपरोपि संभवति // 18 // // इत्यभावस्य कारणत्वखण्डनं समाप्तम् // अग्रिमप्रकरणमारभते- अथेति / ईश्वर इति- कार्यमात्रस्येश्वरः कारणम्- फलोत्पत्त्यनुकूलेश्वरेच्छा विनां पुरुषकर्मणाम् आफल्यदर्शनात्= वैफल्यदर्शनात्, अफलस्य भाव आफल्यमिति सूत्रान्वयः / ब्याचष्टे- पुरुष इति, समीहमानः= फलार्थ यतमानः, समीहाफलम्= स्वयत्नफलम् / अनुमेयमाह-परेति, पराधीनम्= ईश्वराधीनम् , कर्मफलाराधनम्= कर्मफलसिद्धिः / उपसंहरति- तस्मादिति / कार्य यदधीनं भवति तत् कारणं कार्यमात्रस्य चेश्वराधीनत्वादीश्वरस्य कारणत्वं सिद्धमित्यर्थः, स्पष्टमन्यत् // 19 // 46