________________ 352 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेअतीते चाऽनागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते- पुत्रो जनिष्यते जनिष्यमाणं पुत्रमभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत कुम्भो भिन्नं कुम्भमनुशोचतिभिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्ति इति बहुलं भाक्ताः प्रयोगा दृश्यन्ते / का पुनरियं भक्तिः ?. आनन्तर्य भक्तिः= आनन्तर्यसामर्थ्यादुपमृद्य प्रादुर्भावार्थ:प्रादुर्भविष्यन्नकुर उपमृद्गातीति भाक्तं कर्तृत्वमिति // 16 // . न-विनष्टेभ्योऽनिष्पत्तेः // 17 // न विनष्टाद् बीजादडर उत्पद्यते इति तस्मान्नाऽभावाद् भावोत्पत्तिरिति // 17 // क्रमनिर्देशादप्रतिषेधः // 18 // उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः स खल्वभावाद् भावोत्पत्तेर्हेतुर्निर्दिश्यते स च न प्रतिषिध्यते इति // त्पन्नेपि पुत्रे पिता वदति- 'एतत्कार्य मे पुत्रः करिष्यति' इति यथात्राविद्यमानस्यैव पुत्रस्य कार्यकर्तृ. त्वमुच्यते तथा प्रकृतेप्यनुत्पन्नस्यापि कार्यस्योपमर्दकर्तृत्वमुच्यते तथा विनष्टस्य बीजादेः कारणत्वमुच्यते इति न व्याघातदोष इति सूत्रार्थः / व्याचष्टे- अतीते इति, अतीतलक्षणे चानागतलक्षणे चाविद्यमाने इत्यर्थः / उदाहरति- पुत्र इति, जनिष्यमाणमित्यनेनाऽनुत्पन्नस्यापि पुत्रस्याभिनन्दनकर्मत्वं प्रदर्शितम् , पुत्रस्येत्यनेनानुत्पन्नस्य नामक्रियाकर्मत्वं प्रदर्शितम् / अतीते कारकशब्दप्रयोगमुदाहरति- अभूदिति / भिन्नमित्यनेनातीतस्य कर्मत्वं प्रदर्शितम् , कपालानीत्यत्र पश्यतीतिशेषस्तदनेनातीतस्य कपालसंबन्धित्वं प्रदर्शितम् / अनागतस्य कर्तृत्वमुदाहरति- अजाता इति, एवमनागतस्य कार्यस्याप्युपमर्दकर्तृत्वं बोध्यमिति न व्याघात इत्यर्थः / उपसंहरति- इतिबहुलमिति / उक्तं भाक्तत्वं जिज्ञासते- केति / उतरमाहआनन्तर्यमिति / एतद् व्याचष्टे- आनन्तयेति, प्रादुभावार्थः= प्रादुर्भावपदार्थः, य उपमृा प्रादुर्भावः= भावाभावयोः कार्यकारणभावः स आनन्तर्यादेवास्ति तत्रानुत्पन्नस्यापि कार्यस्य यदुपमर्दकर्तृत्वं तद् भाक्तमेव 'अजाताः' इत्युदाहृतवदित्यर्थः / एतदपि व्याचष्टे- प्रादुर्भविष्यन्निति / स्पष्टमन्यत् / तथा च यथा यथा प्रादुर्भवति तथा तथोपमृद्गातीति न मन्मते व्याघातदोष इत्याशयः // 16 // उक्तपूर्वपक्षं सिद्धान्ती निराकरोति-नेति, अभावाद् भावोत्पत्तिर्न संभवतीत्यर्थः, हेतुमाहविनष्टेभ्य इति, विनष्टेभ्यो बीजादिभ्यः कारणेभ्योकुरादिकार्याणामनिष्पत्तेः= उत्पत्तेरभावात् , यदि विनष्टादेव बीजादङ्कुर उत्पद्येत तदा चूर्णीकृतादप्युत्पद्येत- विनशस्याविशेषादितिसूत्रार्थः / व्याचष्टेनेति / उपसंहरति- तस्मादिति, स्पष्टार्थे भाष्यम् / यदुक्तम्- यथा 'अजाताः' इत्यत्रानुत्पन्नस्य कर्तृत्वं तथा प्रकृतेपीति. तन्न युक्तम्- तत्रोत्पत्त्यनन्तरभाविकार्य प्रत्येव कर्तृत्वस्य बोधनात् तस्य च संभवात्. प्रकृते चोत्पत्तेः पूर्वभाविनमुपमर्द प्रति कर्तृत्वस्य बोधनात् तस्य चासंभवादित्यनुसंधेयम् / / 17 // पूर्वपक्षिणा भावाभावयोः कार्यकारणभावे तयोः पौर्वापर्यक्रमो हेतुत्वेनोपन्यस्त:- बीजविनाशानन्तरमेवाङ्कुरो जायते इति तयोः पौर्वापर्यक्रमः प्रसिद्ध एव तस्य क्रमस्य स्वमतेपि संभवमाहक्रमेति, क्रमनिर्देशात्- भावाभावयोः क्रमनिर्देशस्य प्रतिषेधो न क्रियते- बीजाकृतिविलोपं विनाङ्कुराकृतेरसंभवात् , नैतावता भावाभावयोः कार्यकारणभावः संभवति अन्यथा पद्मवीजाभावस्य स्थलेपि सत्त्वात् स्थलेपि पद्मं जायेत. किं चैवं सर्व सर्वत्र सुलभ स्यात्- कारणाभावस्य कारणाश्रयदेशातिरिक्त सर्वदेशेषु संभवात् , न चैवमस्तीति न भावाभावयोः कार्यकारणभावः संभवतीति सूत्रार्थः / अत्र"क्रमनिर्देशादित्यस्य हेतोरस्मत्पक्षेप्यप्रतिषेधः- तत्राप्यानन्तर्यस्य तुल्यत्वात् " इति तात्पर्यटीका / सूत्रार्थमाह- उपमर्देति, उपमर्दः= कारणाभावः, उपमर्दप्रादुर्भावयोर्यः पौवापर्यनियमः स क्रम इत्युच्यते