________________ प्रत्यभावविवेचने अभावकारणत्वप्रत्या०] न्यायभाष्यम् / 351 अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते अभावाद् भावोत्पत्तिः- नाऽनुपमृद्य प्रादुर्भावात् // 14 // असतः सदुत्पद्यते इत्ययं पक्षः, कस्मात् ?, उपमृद्य प्रादुर्भावात्= उपमृद्य बीजमकर उत्पद्यते नाऽनुपमृद्य, न चेद् बीजोपमर्दोऽडरकारणम् ? अनुपमर्देपि बीजस्याऽडरोत्पत्तिः स्यादिति // 14 // अत्राभिधीयते व्याघातादप्रयोगः // 15 // 'उपमृद्य प्रादुर्भावात् ' इत्यऽयुक्तः प्रयोगः- व्याघातात्= यदुपमृद्नाति न तदुपमृद्य प्रादुर्भवितुमर्हति- विद्यमानत्वात्. यच्च प्रादुर्भवति न तेनाप्रादुर्भूतेन= अविद्यमानेनोपमर्द इति // 15 // न- अतीतानागतयोः कारकशब्दप्रयोगात् // 16 // न चेति, एतत्= प्रत्यक्षसिद्धं निह्ववानः कमपि पदार्थ साधयितुं न शक्नोति- मेयसिद्धेर्मानाधीनत्वात मानेषु च प्रत्यक्षस्य प्रधानत्वादित्यर्थः / अभ्यनुज्ञाम्= संमतिम्= दृष्टान्तमितियावत् / अत्र- "प्रत्यक्षफारणापलापी न कस्मिन्नपि दर्शने संवादं लब्धं योग्यः स्यादित्यर्थः" इति श्रीगुरुचरणाः / उपसंहरति- तदेतदिति, तत्त्वम्= सिद्धान्तः, कथितमितिशेषः, स्पष्टमन्यत् // 13 // ___ अग्रिमविषयमाह- अत इति, प्रावादुकानाम्= भिन्नमतावलम्बिनाम् , दृष्टयः= मतानि / कार्यकारणभावे बौद्धमतमाह- अभावादिति, अभावात्= कारणाभावात् भावस्य कार्यस्योत्पत्तिर्भवति यथा मृत्सलिलसंयोगाद् बीजे नष्टे सत्येवाङ्कर उत्पद्यते इति स्पष्टमेवेत्यभावस्य कारणत्वं सिद्धमित्यर्थः, उक्ते हेतुमाह- नेति, अनुपमृद्य= बीजादीनां विनाशं विना नप्रादुर्भावात्= प्रादुर्भावाभावात्= कार्योत्पत्तेरसंभवात् , अव्यवहितपूर्ववर्तिन एव कारणत्वमभीष्टम् अङ्कुरादिकार्यादव्यवहितपूर्ववर्तित्वं च बीजाद्यभावस्यैव संभवति न बीजादेरित्यभावस्य कारणत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- असत इति, असत: अभावात्, पक्षः= पूर्वपक्षिमतम् / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- उपमृद्येति / उक्तं ध्याचष्टे- उपमृद्येति / स्वविपक्षे बाधकमाह- न चेदिति, बीजोपमर्दः= बीजविनाशः, बीजस्यानुपमदेपि= स्वरूपेण स्थितावपि, स्पष्टमन्यत् / एवं घटादिस्थलेपि मृत्पिण्डादेः स्वरूपविनाशो भवत्येवेतिस्पष्टमेवेत्यभावस्य कारणत्वं सिद्धं न तु भावस्येतिभावः // 14 // ___ अग्रिमसूत्रमवतारयति- अत्रेति / व्याघातादिति- " नानुपमृद्य प्रादुर्भावात् " इत्यप्रयोगःवक्तुं न शक्यते- व्याघातात्= विरुद्धत्वादित्यन्वयः, 'उपमृद्य प्रादुर्भावः' इत्यनेनाङ्कुरादेः कार्यस्य उपमर्दप्रादुर्भावयोः कर्तृत्वं प्राप्तं तच्च न संभवति- उपमर्दानन्तरं जायमानस्याङ्कुरस्योपमर्दकर्तृत्वाऽसंभवात् उपमर्दात् पूर्वस्य चाकुरस्योपमर्दकर्तृत्वसंभवेपि उपमर्दानन्तरजायमानप्रादुर्भावकर्तृत्वासंभवादिति पूर्वपक्षिमते व्याघात इतिसूत्रार्थः / व्याचष्टे- उपमृद्येति, प्रयोगः= वाक्यं सिद्धान्तो वा / अयुक्तत्वे हेतुमाह- व्याघातादिति / एतद् व्याचष्टे- यदिति / उपमर्दकस्य प्रादुर्भावाभावे हेतुमाहविद्यमानत्वादिति, उपमर्दकस्य विद्यमानत्वावश्यम्भावेन भविष्यत्प्रादुर्भावासंभवः स्पष्ट एव, अविद्या मानत्वे दोषमाह- यच्चेति, प्रादुर्भवति= प्रादुर्भविष्यति / स्पष्टं सर्वमिति पूर्वपक्षिमते व्याघातः प्रदर्शितः // 15 // ____ उक्तदोषं पूर्वपक्षी परिहरति- नेति, न व्याघातदोष इत्यर्थः / हेतुमाह- अतीतेति, अतीतानागतयोरपि पदार्थयोः कारकशब्दस्य= कर्तृत्वादिबोधकशब्दस्य प्रयोगात्= प्रयोगो भवति यथाऽनु