________________ 350 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेकेन प्रकारेण किंधर्मकात् कारणाद् व्यक्तं शरीरमुत्पद्यते इति ?, व्यक्तात्= भूतसमा. ख्यातात् पृथिव्यादितः परममूक्ष्माद् नित्यात् व्यक्तम् शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यमुत्पद्यते, व्यक्तं च खल्विन्द्रियग्राह्यं तत्सामान्यात् कारणमपि व्यक्तम् / किं सामान्यम् ?. रूपादिगुणयोगः= रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीरादि उत्पद्यते- प्रत्यक्षप्रामाण्यात= दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस्तथाभूतस्य द्रव्यस्योत्पादः तेन चाऽदृष्टस्यानुमानमिति= रूपादीनामन्वयदर्शनात् प्रकृतिविकारयोः पृथिव्यादीनां नित्यानामतीन्द्रियाणां कारणभावोऽनुमीयते इति // 11 // न-घटाद् घटानिष्पत्तेः॥ 12 // इदमपि प्रत्यक्षम्- न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति. व्यक्ताद व्यक्तस्यानुत्पत्तिदर्शनान्न व्यक्तं कारणमिति // 12 // व्यक्ताद् घटनिष्पत्तरप्रतिषेधः॥१३॥ ___ न ब्रूमः सर्व सर्वस्य कारणमिति किं तु यदुत्पद्यते व्यक्तं द्रव्यं तत् तथाभूतादेवोत्यद्यते इति, व्यक्तं च तद् मृद्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते न चैतद निढुवानः कचि. दभ्यनुज्ञां लब्धुमर्हतीति / तदेतत् तत्त्वम् // 13 // ___व्याचष्टे- केनेति, किंधर्मकात्= किंगुणविशिष्टात् , जिज्ञासावाक्यमिदम् / उत्तरमाह- व्यक्तादिति, उक्तं व्याचष्टे- भूतेति, भूतसमाख्यातात्= भूतसंज्ञकात् परमसूक्ष्मात्= परमाणुरूपात् व्यक्तमुत्पद्यते इत्यन्वयः / कार्यमाह- व्यक्तमिति, एतद् व्याचष्टे- शरीरेति, विषयाः शब्दस्पर्शादयः, शरीरादिलक्षणं यदुपकरणम्= भोगसाधनं तदाधारम्= तत्कारणीभूतं प्रज्ञातम्= प्रत्यक्षं द्रव्यं स्थूलपृथिव्यादिकमुत्पद्यते इत्यन्वयः / कारणद्रव्यस्य परमाणुलक्षणस्याऽप्रत्यक्षत्वेपि व्यक्तत्वमाह- व्यक्तं चेति, इन्द्रियग्राह्यम्= प्रत्यक्षं द्रव्यं कार्यभूतं व्यक्तमित्युच्यते तत्सामान्यात्= कार्यद्रव्यसादृश्यात् कारणमपि परमाणुद्रव्यं व्यक्तमित्युच्यते- कार्यकारणयोः सारूप्यस्यावश्यकत्वादित्यर्थः / उक्तसादृश्यस्य स्वरूपं जिज्ञासतेकिमिति, सामान्यम्- कार्यकारणयोः सादृश्यम् / उत्तरमाह- रूपादीति / उक्तं विशदयति- रूपा. दिगुणयुक्तेभ्य इति, नित्येभ्यः= परमाणुरूपेभ्यः, क्रमेणोत्पद्यते इत्यर्थः / हेतुमाह- प्रत्यक्षेति / प्रत्यक्षमुदाहरति- दृष्ट इति, तथाभूतस्य रूपादिगुणयुक्तस्य / तेन उक्तदृष्टेन= दृष्टानुसारेण, अदृष्टस्य कारणस्यानुमानं भवतीत्यर्थः, उक्तं विशदयति- रूपादीनामिति, प्रकृतिविकारयोः= कार्यकारणयोः मृद्घटादिलक्षणयोः रूपादीनामन्वयदर्शनात् स्थूलपृथिव्यादिषु रूपादिकमस्तीति तत्कारणेनापि रूपादियुक्तेनैव भवितव्यमिति नित्यानामतीन्द्रियाणां पृथिव्यादीनां परमाणुरूपाणां कारणभावः= स्थूलभूतकारणत्वमनुमीयते- रूपादियुक्तत्वादिति व्यक्ताद् व्यक्तं शरीरादिकमुत्पद्यते इति सिद्धमित्यर्थः // 11 // उक्तं पूर्वपक्षी परिहरति- नेति, व्यक्तादू व्यक्तस्योत्पत्तिर्न संभवति- व्यक्ताद् घटाद् व्यक्तस्य घटस्यानिष्पत्ते:= उत्पत्तेरभावादिति सूत्रार्थः / व्याचष्टे- इदमिति, यथा मृदो घट उत्पद्यते इति प्रत्यक्षं तथा घटाद् घटो नोत्पद्यते इदमपि प्रत्यक्षमेव. घटश्च व्यक्त एवेत्यन्वयः / पर्यवसितमाह- व्यक्तादिति, व्यक्ताद् घटाद् व्यक्तस्य घटस्यानुत्पत्तिदर्शनात् / यदि व्यक्ताद् व्यक्तमुत्पद्येत तदा घटाद् घटोप्युत्पद्येत न चैवमस्तीति न व्यक्तस्य कारणत्वमुपपद्यते इत्यर्थः // 12 // सिद्धान्ती समाधत्ते-व्यक्तादिति, व्यक्ताद् घटनिष्पत्तेः= घटोत्पत्तेः प्रतिषेधो नोपपद्यते- व्यक्तादेव मृत्पदार्थाद् घटोत्पत्तेर्दर्शनादिति व्यक्तस्य कारणत्वं सिद्धमितिसूत्रार्थः / व्याचष्टे- न ब्रूम इति, तत्= व्यक्तम् , तथाभूतात्= व्यक्तादेव रूपादिगुणयुक्तात् / समन्वयति- व्यक्तं चेति / विपक्षे बाधकमाह